chevron_left आदि पर्व अध्याय ९३
शन्तनुरु उवाच:
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् |
१ क
शन्तनुरु उवाच:
यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ||
१ ख
शन्तनुरु उवाच:
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् |
२ क
शन्तनुरु उवाच:
यस्य चैव कृतेनाय़ं मानुषेषु निवत्स्यति ||
२ ख
शन्तनुरु उवाच:
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् |
३ क
शन्तनुरु उवाच:
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ||
३ ख
वैशम्पाय़न उवाच:
सैवमुक्ता ततो गङ्गा राजानमिदमव्रवीत् |
४ क
वैशम्पाय़न उवाच:
भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ||
४ ख
वैशम्पाय़न उवाच:
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम |
५ क
वैशम्पाय़न उवाच:
वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ||
५ ख
वैशम्पाय़न उवाच:
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् |
६ क
वैशम्पाय़न उवाच:
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ||
६ ख
वैशम्पाय़न उवाच:
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम |
७ क
वैशम्पाय़न उवाच:
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ||
७ ख
वैशम्पाय़न उवाच:
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता |
८ क
वैशम्पाय़न उवाच:
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ||
८ ख
वैशम्पाय़न उवाच:
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् |
९ क
वैशम्पाय़न उवाच:
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ||
९ ख
वैशम्पाय़न उवाच:
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते |
१० क
वैशम्पाय़न उवाच:
चचार रम्ये धर्म्ये च गौरपेतभय़ा तदा ||
१० ख
वैशम्पाय़न उवाच:
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ |
११ क
वैशम्पाय़न उवाच:
पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ||
११ ख
वैशम्पाय़न उवाच:
ते सदारा वनं तच्च व्यचरन्त समन्ततः |
१२ क
वैशम्पाय़न उवाच:
रेमिरे रमणीय़ेषु पर्वतेषु वनेषु च ||
१२ ख
वैशम्पाय़न उवाच:
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम |
१३ क
वैशम्पाय़न उवाच:
सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा |
१३ ख
वैशम्पाय़न उवाच:
या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ||
१३ ग
वैशम्पाय़न उवाच:
सा विस्मय़समाविष्टा शीलद्रविणसम्पदा |
१४ क
वैशम्पाय़न उवाच:
दिवे वै दर्शय़ामास तां गां गोवृषभेक्षण ||
१४ ख
वैशम्पाय़न उवाच:
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् |
१५ क
वैशम्पाय़न उवाच:
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ||
१५ ख
वैशम्पाय़न उवाच:
एवङ्गुणसमाय़ुक्तां वसवे वसुनन्दिनी |
१६ क
वैशम्पाय़न उवाच:
दर्शय़ामास राजेन्द्र पुरा पौरवनन्दन ||
१६ ख
वैशम्पाय़न उवाच:
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम |
१७ क
वैशम्पाय़न उवाच:
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ||
१७ ख
वैशम्पाय़न उवाच:
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे |
१८ क
वैशम्पाय़न उवाच:
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ||
१८ ख
वैशम्पाय़न उवाच:
अस्याः क्षीरं पिवेन्मर्त्यः स्वादु यो वै सुमध्यमे |
१९ क
वैशम्पाय़न उवाच:
दश वर्षसहस्राणि स जीवेत्स्थिरय़ौवनः ||
१९ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा |
२० क
वैशम्पाय़न उवाच:
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ||
२० ख
वैशम्पाय़न उवाच:
अस्ति मे मानुषे लोके नरदेवात्मजा सखी |
२१ क
वैशम्पाय़न उवाच:
नाम्ना जिनवती नाम रूपय़ौवनशालिनी ||
२१ ख
वैशम्पाय़न उवाच:
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः |
२२ क
वैशम्पाय़न उवाच:
दुहिता प्रथिता लोके मानुषे रूपसम्पदा ||
२२ ख
वैशम्पाय़न उवाच:
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् |
२३ क
वैशम्पाय़न उवाच:
आनय़स्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ||
२३ ख
वैशम्पाय़न उवाच:
यावदस्याः पय़ः पीत्वा सा सखी मम मानद |
२४ क
वैशम्पाय़न उवाच:
मानुषेषु भवत्वेका जरारोगविवर्जिता ||
२४ ख
वैशम्पाय़न उवाच:
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित |
२५ क
वैशम्पाय़न उवाच:
प्रिय़ं प्रिय़तरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ||
२५ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रिय़चिकीर्षय़ा |
२६ क
वैशम्पाय़न उवाच:
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ||
२६ ख
वैशम्पाय़न उवाच:
तय़ा कमलपत्राक्ष्या निय़ुक्तो द्यौस्तदा नृप |
२७ क
वैशम्पाय़न उवाच:
ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् |
२७ ख
वैशम्पाय़न उवाच:
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ||
२७ ग
वैशम्पाय़न उवाच:
अथाश्रमपदं प्राप्तः फलान्यादाय़ वारुणिः |
२८ क
वैशम्पाय़न उवाच:
न चापश्यत गां तत्र सवत्सां काननोत्तमे ||
२८ ख
वैशम्पाय़न उवाच:
ततः स मृगय़ामास वने तस्मिंस्तपोधनः |
२९ क
वैशम्पाय़न उवाच:
नाध्यगच्छच्च मृगय़ंस्तां गां मुनिरुदारधीः ||
२९ ख
वैशम्पाय़न उवाच:
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः |
३० क
वैशम्पाय़न उवाच:
यय़ौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ||
३० ख
वैशम्पाय़न उवाच:
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् |
३१ क
वैशम्पाय़न उवाच:
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशय़ः ||
३१ ख
वैशम्पाय़न उवाच:
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः |
३२ क
वैशम्पाय़न उवाच:
वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ||
३२ ख
वैशम्पाय़न उवाच:
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे |
३३ क
वैशम्पाय़न उवाच:
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः |
३३ ख
वैशम्पाय़न उवाच:
महाप्रभावो व्रह्मर्षिर्देवान्रोषसमन्वितः ||
३३ ग
वैशम्पाय़न उवाच:
अथाश्रमपदं प्राप्य तं स्म भूय़ो महात्मनः |
३४ क
वैशम्पाय़न उवाच:
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ||
३४ ख
वैशम्पाय़न उवाच:
प्रसादय़न्तस्तमृषिं वसवः पार्थिवर्षभ |
३५ क
वैशम्पाय़न उवाच:
न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् |
३५ ख
वैशम्पाय़न उवाच:
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ||
३५ ग
वैशम्पाय़न उवाच:
उवाच च स धर्मात्मा सप्त यूय़ं धरादय़ः |
३६ क
वैशम्पाय़न उवाच:
अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ||
३६ ख
वैशम्पाय़न उवाच:
अय़ं तु यत्कृते यूय़ं मय़ा शप्ताः स वत्स्यति |
३७ क
वैशम्पाय़न उवाच:
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ||
३७ ख
वैशम्पाय़न उवाच:
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदव्रुवम् |
३८ क
वैशम्पाय़न उवाच:
न प्रजास्यति चाप्येष मानुषेषु महामनाः ||
३८ ख
वैशम्पाय़न उवाच:
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः |
३९ क
वैशम्पाय़न उवाच:
पितुः प्रिय़हिते युक्तः स्त्रीभोगान्वर्जय़िष्यति |
३९ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ||
३९ ग
वैशम्पाय़न उवाच:
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा |
४० क
वैशम्पाय़न उवाच:
अय़ाचन्त च मां राजन्वरं स च मय़ा कृतः |
४० ख
वैशम्पाय़न उवाच:
जाताञ्जातान्प्रक्षिपास्मान्स्वय़ं गङ्गे त्वमम्भसि ||
४० ग
वैशम्पाय़न उवाच:
एवं तेषामहं सम्यक्षप्तानां राजसत्तम |
४१ क
वैशम्पाय़न उवाच:
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ||
४१ ख
वैशम्पाय़न उवाच:
अय़ं शापादृषेस्तस्य एक एव नृपोत्तम |
४२ क
वैशम्पाय़न उवाच:
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ||
४२ ख
वैशम्पाय़न उवाच:
एतदाख्याय़ सा देवी तत्रैवान्तरधीय़त |
४३ क
वैशम्पाय़न उवाच:
आदाय़ च कुमारं तं जगामाथ यथेप्सितम् ||
४३ ख
वैशम्पाय़न उवाच:
स तु देवव्रतो नाम गाङ्गेय़ इति चाभवत् |
४४ क
वैशम्पाय़न उवाच:
द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ||
४४ ख
वैशम्पाय़न उवाच:
शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः |
४५ क
वैशम्पाय़न उवाच:
तस्याहं कीर्तय़िष्यामि शन्तनोरमितान्गुणान् ||
४५ ख
वैशम्पाय़न उवाच:
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः |
४६ क
वैशम्पाय़न उवाच:
यस्येतिहासो द्युतिमान्महाभारतमुच्यते ||
४६ ख