chevron_left अनुशासन पर्व अध्याय ९३
युधिष्ठिर उवाच:
द्विजातय़ो व्रतोपेता हविस्ते यदि भुञ्जते |
१ क
युधिष्ठिर उवाच:
अन्नं व्राह्मणकामाय़ कथमेतत्पितामह ||
१ ख
भीष्म उवाच:
अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः |
२ क
भीष्म उवाच:
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ||
२ ख
युधिष्ठिर उवाच:
यदिदं तप इत्याहुरुपवासं पृथग्जनाः |
३ क
युधिष्ठिर उवाच:
तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ||
३ ख
भीष्म उवाच:
मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः |
४ क
भीष्म उवाच:
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ||
४ ख
भीष्म उवाच:
त्यागस्यापि च सम्पत्तिः शिष्यते तप उत्तमम् |
५ क
भीष्म उवाच:
सदोपवासी च भवेद्व्रह्मचारी तथैव च ||
५ ख
भीष्म उवाच:
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् |
६ क
भीष्म उवाच:
कुटुम्विको धर्मकामः सदास्वप्नश्च भारत ||
६ ख
भीष्म उवाच:
अमृताशी सदा च स्यात्पवित्री च सदा भवेत् |
७ क
भीष्म उवाच:
ऋतवादी सदा च स्यान्निय़तश्च सदा भवेत् ||
७ ख
भीष्म उवाच:
विघसाशी सदा च स्यात्सदा चैवातिथिप्रिय़ः |
८ क
भीष्म उवाच:
अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् ||
८ ख
युधिष्ठिर उवाच:
कथं सदोपवासी स्याद्व्रह्मचारी च पार्थिव |
९ क
युधिष्ठिर उवाच:
विघसाशी कथं च स्यात्कथं चैवातिथिप्रिय़ः ||
९ ख
भीष्म उवाच:
अन्तरा साय़माशं च प्रातराशं तथैव च |
१० क
भीष्म उवाच:
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ||
१० ख
भीष्म उवाच:
भार्यां गच्छन्व्रह्मचारी सदा भवति चैव ह |
११ क
भीष्म उवाच:
ऋतवादी सदा च स्याद्दानशीलश्च मानवः ||
११ ख
भीष्म उवाच:
अभक्षय़न्वृथा मांसममांसाशी भवत्युत |
१२ क
भीष्म उवाच:
दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् ||
१२ ख
भीष्म उवाच:
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा |
१३ क
भीष्म उवाच:
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ||
१३ ख
भीष्म उवाच:
अभुक्तवत्सु नाश्नाति व्राह्मणेषु तु यो नरः |
१४ क
भीष्म उवाच:
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ||
१४ ख
भीष्म उवाच:
देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह |
१५ क
भीष्म उवाच:
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ||
१५ ख
भीष्म उवाच:
तेषां लोका ह्यपर्यन्ताः सदने व्रह्मणः स्मृताः |
१६ क
भीष्म उवाच:
उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ||
१६ ख
भीष्म उवाच:
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते |
१७ क
भीष्म उवाच:
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ||
१७ ख