नकुल उवाच:
हन्त वो वर्तय़िष्यामि दानस्य परमं फलम् |
१ क
नकुल उवाच:
न्याय़लव्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ||
१ ख
नकुल उवाच:
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्वहुभिर्वृते |
२ क
नकुल उवाच:
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ||
२ ख
नकुल उवाच:
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः |
३ क
नकुल उवाच:
वधूचतुर्थो वृद्धः स धर्मात्मा निय़तेन्द्रिय़ः ||
३ ख
नकुल उवाच:
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः |
४ क
नकुल उवाच:
षष्ठे काले कदाचिच्च तस्याहारो न विद्यते |
४ ख
नकुल उवाच:
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ||
४ ग
नकुल उवाच:
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे |
५ क
नकुल उवाच:
नाविद्यत तदा विप्राः सञ्चय़स्तान्निवोधत |
५ ख
नकुल उवाच:
क्षीणौषधिसमावाय़ो द्रव्यहीनोऽभवत्तदा ||
५ ग
नकुल उवाच:
काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् |
६ क
नकुल उवाच:
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ||
६ ख
नकुल उवाच:
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे |
७ क
नकुल उवाच:
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः |
७ ख
नकुल उवाच:
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ||
७ ग
नकुल उवाच:
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोय़ं यथाविधि |
८ क
नकुल उवाच:
क्षपय़ामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ||
८ ख
नकुल उवाच:
अथ षष्ठे गते काले यवप्रस्थमुपार्जय़त् |
९ क
नकुल उवाच:
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ||
९ ख
नकुल उवाच:
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि |
१० क
नकुल उवाच:
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ||
१० ख
नकुल उवाच:
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा |
११ क
नकुल उवाच:
ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ||
११ ख
नकुल उवाच:
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा |
१२ क
नकुल उवाच:
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ||
१२ ख
नकुल उवाच:
अनसूय़वो गतक्रोधाः साधवो गतमत्सराः |
१३ क
नकुल उवाच:
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ||
१३ ख
नकुल उवाच:
सव्रह्मचर्यं स्वं गोत्रं समाख्याय़ परस्परम् |
१४ क
नकुल उवाच:
कुटीं प्रवेशय़ामासुः क्षुधार्तमतिथिं तदा ||
१४ ख
नकुल उवाच:
इदमर्घ्यं च पाद्यं च वृसी चेय़ं तवानघ |
१५ क
नकुल उवाच:
शुचय़ः सक्तवश्चेमे निय़मोपार्जिताः प्रभो |
१५ ख
नकुल उवाच:
प्रतिगृह्णीष्व भद्रं ते मय़ा दत्ता द्विजोत्तम ||
१५ ग
नकुल उवाच:
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः |
१६ क
नकुल उवाच:
भक्षय़ामास राजेन्द्र न च तुष्टिं जगाम सः ||
१६ ख
नकुल उवाच:
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् |
१७ क
नकुल उवाच:
आहारं चिन्तय़ामास कथं तुष्टो भवेदिति ||
१७ ख
नकुल उवाच:
तस्य भार्याव्रवीद्राजन्मद्भागो दीय़तामिति |
१८ क
नकुल उवाच:
गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः ||
१८ ख
नकुल उवाच:
इति व्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः |
१९ क
नकुल उवाच:
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ||
१९ ख
नकुल उवाच:
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् |
२० क
नकुल उवाच:
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ||
२० ख
नकुल उवाच:
अपि कीटपतङ्गानां मृगाणां चैव शोभने |
२१ क
नकुल उवाच:
स्त्रिय़ो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ||
२१ ख
नकुल उवाच:
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च |
२२ क
नकुल उवाच:
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुय़ात् ||
२२ ख
नकुल उवाच:
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज |
२३ क
नकुल उवाच:
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ||
२३ ख
नकुल उवाच:
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः |
२४ क
नकुल उवाच:
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ||
२४ ख
नकुल उवाच:
ऋतुर्मातुः पितुर्वीजं दैवतं परमं पतिः |
२५ क
नकुल उवाच:
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ||
२५ ख
नकुल उवाच:
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम |
२६ क
नकुल उवाच:
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ||
२६ ख
नकुल उवाच:
जरापरिगतो वृद्धः क्षुधार्तो दुर्वलो भृशम् |
२७ क
नकुल उवाच:
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ||
२७ ख
नकुल उवाच:
इत्युक्तः स तय़ा सक्तून्प्रगृह्येदं वचोऽव्रवीत् |
२८ क
नकुल उवाच:
द्विज सक्तूनिमान्भूय़ः प्रतिगृह्णीष्व सत्तम ||
२८ ख
नकुल उवाच:
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः |
२९ क
नकुल उवाच:
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ||
२९ ख
पुत्र उवाच:
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय़ सत्तम |
३० क
पुत्र उवाच:
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ||
३० ख
पुत्र उवाच:
भवान्हि परिपाल्यो मे सर्वय़त्नैर्द्विजोत्तम |
३१ क
पुत्र उवाच:
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ||
३१ ख
पुत्र उवाच:
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् |
३२ क
पुत्र उवाच:
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ||
३२ ख
पुत्र उवाच:
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वय़ा |
३३ क
पुत्र उवाच:
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ||
३३ ख
पितो उवाच:
अपि वर्षसहस्री त्वं वाल एव मतो मम |
३४ क
पितो उवाच:
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ||
३४ ख
पितो उवाच:
वालानां क्षुद्वलवती जानाम्येतदहं विभो |
३५ क
पितो उवाच:
वृद्धोऽहं धारय़िष्यामि त्वं वली भव पुत्रक ||
३५ ख
पितो उवाच:
जीर्णेन वय़सा पुत्र न मा क्षुद्वाधतेऽपि च |
३६ क
पितो उवाच:
दीर्घकालं तपस्तप्तं न मे मरणतो भय़म् ||
३६ ख
पुत्र उवाच:
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः |
३७ क
पुत्र उवाच:
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ||
३७ ख
पितो उवाच:
रूपेण सदृशस्त्वं मे शीलेन च दमेन च |
३८ क
पितो उवाच:
परीक्षितश्च वहुधा सक्तूनादद्मि ते ततः ||
३८ ख
पितो उवाच:
इत्युक्त्वादाय़ तान्सक्तून्प्रीतात्मा द्विजसत्तमः |
३९ क
पितो उवाच:
प्रहसन्निव विप्राय़ स तस्मै प्रददौ तदा ||
३९ ख
पितो उवाच:
भुक्त्वा तानपि सक्तून्स नैव तुष्टो वभूव ह |
४० क
पितो उवाच:
उञ्छवृत्तिस्तु सव्रीडो वभूव द्विजसत्तमः ||
४० ख
पितो उवाच:
तं वै वधूः स्थिता साध्वी व्राह्मणप्रिय़काम्यया |
४१ क
पितो उवाच:
सक्तूनादाय़ संहृष्टा गुरुं तं वाक्यमव्रवीत् ||
४१ ख
पितो उवाच:
सन्तानात्तव सन्तानं मम विप्र भविष्यति |
४२ क
पितो उवाच:
सक्तूनिमानतिथय़े गृहीत्वा त्वं प्रय़च्छ मे ||
४२ ख
पितो उवाच:
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षय़ाः |
४३ क
पितो उवाच:
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ||
४३ ख
पितो उवाच:
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च |
४४ क
पितो उवाच:
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षय़ा ||
४४ ख
पितो उवाच:
पितॄंस्त्राणात्तारय़ति पुत्र इत्यनुशुश्रुम |
४५ क
पितो उवाच:
पुत्रपौत्रैश्च निय़तं साधुलोकानुपाश्नुते ||
४५ ख
श्वशुर उवाच:
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै |
४६ क
श्वशुर उवाच:
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ||
४६ ख
श्वशुर उवाच:
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः |
४७ क
श्वशुर उवाच:
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ||
४७ ख
श्वशुर उवाच:
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् |
४८ क
श्वशुर उवाच:
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ||
४८ ख