वैशम्पाय़न उवाच:
तां शमीमुपसङ्गम्य पार्थो वैराटिमव्रवीत् |
१ क
वैशम्पाय़न उवाच:
सुकुमारं समाज्ञातं सङ्ग्रामे नातिकोविदम् ||
१ ख
वैशम्पाय़न उवाच:
समादिष्टो मय़ा क्षिप्रं धनूंष्यवहरोत्तर |
२ क
वैशम्पाय़न उवाच:
नेमानि हि त्वदीय़ानि सोढुं शक्ष्यन्ति मे वलम् ||
२ ख
वैशम्पाय़न उवाच:
भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् |
३ क
वैशम्पाय़न उवाच:
मम वा वाहुविक्षेपं शत्रूनिह विजेष्यतः ||
३ ख
वैशम्पाय़न उवाच:
तस्माद्भूमिञ्जय़ारोह शमीमेतां पलाशिनीम् |
४ क
वैशम्पाय़न उवाच:
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ||
४ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्य भीमस्य वीभत्सोर्यमय़ोस्तथा |
५ क
वैशम्पाय़न उवाच:
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ||
५ ख
वैशम्पाय़न उवाच:
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् |
६ क
वैशम्पाय़न उवाच:
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ||
६ ख
वैशम्पाय़न उवाच:
व्याय़ामसहमत्यर्थं तृणराजसमं महत् |
७ क
वैशम्पाय़न उवाच:
सर्वाय़ुधमहामात्रं शत्रुसम्वाधकारकम् ||
७ ख
वैशम्पाय़न उवाच:
सुवर्णविकृतं दिव्यं श्लक्ष्णमाय़तमव्रणम् |
८ क
वैशम्पाय़न उवाच:
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् |
८ ख
वैशम्पाय़न उवाच:
तादृशान्येव सर्वाणि वलवन्ति दृढानि च ||
८ ग
उत्तर उवाच:
अस्मिन्वृक्षे किलोद्वद्धं शरीरमिति नः श्रुतम् |
९ क
उत्तर उवाच:
तदहं राजपुत्रः सन्स्पृशेय़ं पाणिना कथम् ||
९ ख
उत्तर उवाच:
नैवंविधं मय़ा युक्तमालव्धुं क्षत्रय़ोनिना |
१० क
उत्तर उवाच:
महता राजपुत्रेण मन्त्रय़ज्ञविदा सता ||
१० ख
उत्तर उवाच:
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् |
११ क
उत्तर उवाच:
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं वृहन्नडे ||
११ ख
वृहन्नडो उवाच:
व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि |
१२ क
वृहन्नडो उवाच:
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ||
१२ ख
वृहन्नडो उवाच:
दाय़ादं मत्स्यराजस्य कुले जातं मनस्विनम् |
१३ क
वृहन्नडो उवाच:
कथं त्वा निन्दितं कर्म कारय़ेय़ं नृपात्मज ||
१३ ख
वैशम्पाय़न उवाच:
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली |
१४ क
वैशम्पाय़न उवाच:
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ||
१४ ख
वैशम्पाय़न उवाच:
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जय़ः |
१५ क
वैशम्पाय़न उवाच:
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ||
१५ ख
वैशम्पाय़न उवाच:
तथा संनहनान्येषां परिमुच्य समन्ततः |
१६ क
वैशम्पाय़न उवाच:
अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह ||
१६ ख
वैशम्पाय़न उवाच:
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् |
१७ क
वैशम्पाय़न उवाच:
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदय़ेष्विव ||
१७ ख
वैशम्पाय़न उवाच:
स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् |
१८ क
वैशम्पाय़न उवाच:
हृष्टरोमा भय़ोद्विग्नः क्षणेन समपद्यत ||
१८ ख
वैशम्पाय़न उवाच:
संस्पृश्य तानि चापानि भानुमन्ति वृहन्ति च |
१९ क
वैशम्पाय़न उवाच:
वैराटिरर्जुनं राजन्निदं वचनमव्रवीत् ||
१९ ख
उत्तर उवाच:
विन्दवो जातरूपस्य शतं यस्मिन्निपातिताः |
२० क
उत्तर उवाच:
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ||
२० ख
उत्तर उवाच:
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः |
२१ क
उत्तर उवाच:
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ||
२१ ख
उत्तर उवाच:
तपनीय़स्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः |
२२ क
उत्तर उवाच:
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ||
२२ ख
उत्तर उवाच:
सूर्या यत्र च सौवर्णास्त्रय़ो भासन्ति दंशिताः |
२३ क
उत्तर उवाच:
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ||
२३ ख
उत्तर उवाच:
शालभा यत्र सौवर्णास्तपनीय़विचित्रिताः |
२४ क
उत्तर उवाच:
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ||
२४ ख
उत्तर उवाच:
इमे च कस्य नाराचाः सहस्रा लोमवाहिनः |
२५ क
उत्तर उवाच:
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मय़े ||
२५ ख
उत्तर उवाच:
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः |
२६ क
उत्तर उवाच:
हारिद्रवर्णाः सुनसाः पीताः सर्वाय़साः शराः ||
२६ ख
उत्तर उवाच:
कस्याय़मसितावापः पञ्चशार्दूललक्षणः |
२७ क
उत्तर उवाच:
वराहकर्णव्यामिश्रः शरान्धारय़ते दश ||
२७ ख
उत्तर उवाच:
कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः |
२८ क
उत्तर उवाच:
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ||
२८ ख
उत्तर उवाच:
कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः |
२९ क
उत्तर उवाच:
उत्तरैराय़सैः पीतैर्हेमपुङ्खैः शिलाशितैः ||
२९ ख
उत्तर उवाच:
कस्याय़ं साय़को दीर्घः शिलीपृष्ठः शिलीमुखः |
३० क
उत्तर उवाच:
वैय़ाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ||
३० ख
उत्तर उवाच:
सुफलश्चित्रकोशश्च किङ्किणीसाय़को महान् |
३१ क
उत्तर उवाच:
कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः ||
३१ ख
उत्तर उवाच:
कस्याय़ं विमलः खड्गो गव्ये कोशे समर्पितः |
३२ क
उत्तर उवाच:
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ||
३२ ख
उत्तर उवाच:
कस्य पाञ्चनखे कोशे साय़को हेमविग्रहः |
३३ क
उत्तर उवाच:
प्रमाणरूपसम्पन्नः पीत आकाशसंनिभः ||
३३ ख
उत्तर उवाच:
कस्य हेममय़े कोशे सुतप्ते पावकप्रभे |
३४ क
उत्तर उवाच:
निस्त्रिंशोऽय़ं गुरुः पीतः सैक्यः परमनिर्व्रणः ||
३४ ख
उत्तर उवाच:
निर्दिशस्व यथातत्त्वं मय़ा पृष्टा वृहन्नडे |
३५ क
उत्तर उवाच:
विस्मय़ो मे परो जातो दृष्ट्वा सर्वमिदं महत् ||
३५ ख
वृहन्नडो उवाच:
यन्मां पूर्वमिहापृच्छः शत्रुसेनानिवर्हणम् |
३६ क
वृहन्नडो उवाच:
गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः ||
३६ ख
वृहन्नडो उवाच:
सर्वाय़ुधमहामात्रं शातकुम्भपरिष्कृतम् |
३७ क
वृहन्नडो उवाच:
एतत्तदर्जुनस्यासीद्गाण्डीवं परमाय़ुधम् ||
३७ ख
वृहन्नडो उवाच:
यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् |
३८ क
वृहन्नडो उवाच:
येन देवान्मनुष्यांश्च पार्थो विषहते मृधे ||
३८ ख
वृहन्नडो उवाच:
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः |
३९ क
वृहन्नडो उवाच:
एतद्वर्षसहस्रं तु व्रह्मा पूर्वमधारय़त् ||
३९ ख
वृहन्नडो उवाच:
ततोऽनन्तरमेवाथ प्रजापतिरधारय़त् |
४० क
वृहन्नडो उवाच:
त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च ||
४० ख
वृहन्नडो उवाच:
सोमः पञ्चशतं राजा तथैव वरुणः शतम् |
४१ क
वृहन्नडो उवाच:
पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः ||
४१ ख
वृहन्नडो उवाच:
महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् |
४२ क
वृहन्नडो उवाच:
पूजितं सुरमर्त्येषु विभर्ति परमं वपुः ||
४२ ख
वृहन्नडो उवाच:
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः |
४३ क
वृहन्नडो उवाच:
येन पार्थोऽजय़त्कृत्स्नां दिशं प्राचीं परन्तपः ||
४३ ख
वृहन्नडो उवाच:
इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् |
४४ क
वृहन्नडो उवाच:
राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् ||
४४ ख
वृहन्नडो उवाच:
सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः |
४५ क
वृहन्नडो उवाच:
तेजसा प्रज्वलन्तो वै नकुलस्यैतदाय़ुधम् ||
४५ ख
वृहन्नडो उवाच:
शलभा यत्र सौवर्णास्तपनीय़विचित्रिताः |
४६ क
वृहन्नडो उवाच:
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् ||
४६ ख
वृहन्नडो उवाच:
ये त्विमे क्षुरसङ्काशाः सहस्रा लोमवाहिनः |
४७ क
वृहन्नडो उवाच:
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः ||
४७ ख
वृहन्नडो उवाच:
एते ज्वलन्तः सङ्ग्रामे तेजसा शीघ्रगामिनः |
४८ क
वृहन्नडो उवाच:
भवन्ति वीरस्याक्षय़्या व्यूहतः समरे रिपून् ||
४८ ख
वृहन्नडो उवाच:
ये चेमे पृथवो दीर्घाश्चन्द्रविम्वार्धदर्शनाः |
४९ क
वृहन्नडो उवाच:
एते भीमस्य निशिता रिपुक्षय़कराः शराः ||
४९ ख
वृहन्नडो उवाच:
हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः |
५० क