सञ्जय़ उवाच:
ततो दुर्योधनो राजा शकुनिश्चापि सौवलः |
१ क
सञ्जय़ उवाच:
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जय़ः ||
१ ख
सञ्जय़ उवाच:
समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् |
२ क
सञ्जय़ उवाच:
कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ||
२ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः |
३ क
सञ्जय़ उवाच:
सूतपुत्रं समाभाष्य सौवलं च महावलम् ||
३ ख
सञ्जय़ उवाच:
द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संय़ुगे |
४ क
सञ्जय़ उवाच:
न पार्थान्प्रतिवाधन्ते न जाने तत्र कारणम् ||
४ ख
सञ्जय़ उवाच:
अवध्यमानास्ते चापि क्षपय़न्ति वलं मम |
५ क
सञ्जय़ उवाच:
सोऽस्मि क्षीणवलः कर्ण क्षीणशस्त्रश्च संय़ुगे ||
५ ख
सञ्जय़ उवाच:
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि |
६ क
सञ्जय़ उवाच:
सोऽहं संशय़मापन्नः प्रकरिष्ये कथं रणम् ||
६ ख
सञ्जय़ उवाच:
तमव्रवीन्महाराज सूतपुत्रो नराधिपम् |
७ क
सञ्जय़ उवाच:
मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रिय़ं तव ||
७ ख
सञ्जय़ उवाच:
भीष्मः शान्तनवस्तूर्णमपय़ातु महारणात् |
८ क
सञ्जय़ उवाच:
निवृत्ते युधि गाङ्गेय़े न्यस्तशस्त्रे च भारत ||
८ ख
सञ्जय़ उवाच:
अहं पार्थान्हनिष्यामि सनितान्सर्वसोमकैः |
९ क
सञ्जय़ उवाच:
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ||
९ ख
सञ्जय़ उवाच:
पाण्डवेषु दय़ां राजन्सदा भीष्मः करोति वै |
१० क
सञ्जय़ उवाच:
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ||
१० ख
सञ्जय़ उवाच:
अभिमानी रणे भीष्मो नित्यं चापि रणप्रिय़ः |
११ क
सञ्जय़ उवाच:
स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् ||
११ ख
सञ्जय़ उवाच:
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिविरं प्रति |
१२ क
सञ्जय़ उवाच:
अनुमान्य रणे भीष्मं शस्त्रं न्यासय़ भारत ||
१२ ख
सञ्जय़ उवाच:
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् |
१३ क
सञ्जय़ उवाच:
मय़ैकेन रणे राजन्ससुहृद्गणवान्धवान् ||
१३ ख
सञ्जय़ उवाच:
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव |
१४ क
सञ्जय़ उवाच:
अव्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ||
१४ ख
सञ्जय़ उवाच:
अनुय़ात्रं यथा सज्जं सर्वं भवति सर्वतः |
१५ क
सञ्जय़ उवाच:
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय़ ||
१५ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः |
१६ क
सञ्जय़ उवाच:
अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् ||
१६ ख
सञ्जय़ उवाच:
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम |
१७ क
सञ्जय़ उवाच:
ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संय़ुगम् ||
१७ ख
सञ्जय़ उवाच:
निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते |
१८ क
सञ्जय़ उवाच:
सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः ||
१८ ख
सञ्जय़ उवाच:
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् |
१९ क
सञ्जय़ उवाच:
आरोहय़द्धय़ं तूर्णं भ्राता दुःशासनस्तदा ||
१९ ख
सञ्जय़ उवाच:
अङ्गदी वद्धमुकुटो हस्ताभरणवान्नृपः |
२० क
सञ्जय़ उवाच:
धार्तराष्ट्रो महाराज विवभौ स महेन्द्रवत् ||
२० ख
सञ्जय़ उवाच:
भाण्डीपुष्पनिकाशेन तपनीय़निभेन च |
२१ क
सञ्जय़ उवाच:
अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना ||
२१ ख
सञ्जय़ उवाच:
अरजोम्वरसंवीतः सिंहखेलगतिर्नृपः |
२२ क
सञ्जय़ उवाच:
शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः ||
२२ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं नरव्याघ्रं भीष्मस्य शिविरं प्रति |
२३ क
सञ्जय़ उवाच:
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः |
२३ ख
सञ्जय़ उवाच:
भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ||
२३ ग
सञ्जय़ उवाच:
हय़ानन्ये समारुह्य गजानन्ये च भारत |
२४ क
सञ्जय़ उवाच:
रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ||
२४ ख
सञ्जय़ उवाच:
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः |
२५ क
सञ्जय़ उवाच:
प्रादुर्वभूवुः सहिताः शक्रस्येवामरा दिवि ||
२५ ख
सञ्जय़ उवाच:
सम्पूज्यमानः कुरुभिः कौरवाणां महारथः |
२६ क
सञ्जय़ उवाच:
प्रय़यौ सदनं राजन्गाङ्गेय़स्य यशस्विनः |
२६ ख
सञ्जय़ उवाच:
अन्वीय़मानः सहितैः सोदरैः सर्वतो नृपः ||
२६ ग
सञ्जय़ उवाच:
दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा |
२७ क
सञ्जय़ उवाच:
हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिवर्हणम् ||
२७ ख
सञ्जय़ उवाच:
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् |
२८ क
सञ्जय़ उवाच:
शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ||
२८ ख
सञ्जय़ उवाच:
संस्तूय़मानः सूतैश्च मागधैश्च महाय़शाः |
२९ क
सञ्जय़ उवाच:
पूजय़ानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ||
२९ ख
सञ्जय़ उवाच:
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः |
३० क
सञ्जय़ उवाच:
परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः ||
३० ख
सञ्जय़ उवाच:
स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः |
३१ क
सञ्जय़ उवाच:
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ||
३१ ख
सञ्जय़ उवाच:
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणय़ः |
३२ क
सञ्जय़ उवाच:
प्रोत्सारय़न्तः शनकैस्तं जनं सर्वतोदिशम् ||
३२ ख
सञ्जय़ उवाच:
सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् |
३३ क
सञ्जय़ उवाच:
अवतीर्य हय़ाच्चापि भीष्मं प्राप्य जनेश्वरः ||
३३ ख
सञ्जय़ उवाच:
अभिवाद्य ततो भीष्मं निषण्णः परमासने |
३४ क
सञ्जय़ उवाच:
काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते |
३४ ख
सञ्जय़ उवाच:
उवाच प्राञ्जलिर्भीष्मं वाष्पकण्ठोऽश्रुलोचनः ||
३४ ग
सञ्जय़ उवाच:
त्वां वय़ं समुपाश्रित्य संय़ुगे शत्रुसूदन |
३५ क
सञ्जय़ उवाच:
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ||
३५ ख
सञ्जय़ उवाच:
किमु पाण्डुसुतान्वीरान्ससुहृद्गणवान्धवान् |
३६ क
सञ्जय़ उवाच:
तस्मादर्हसि गाङ्गेय़ कृपां कर्तुं मय़ि प्रभो |
३६ ख
सञ्जय़ उवाच:
जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् ||
३६ ग
सञ्जय़ उवाच:
पूर्वमुक्तं महावाहो निहनिष्यामि सोमकान् |
३७ क
सञ्जय़ उवाच:
पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत ||
३७ ख
सञ्जय़ उवाच:
तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् |
३८ क
सञ्जय़ उवाच:
सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ||
३८ ख
सञ्जय़ उवाच:
दय़या यदि वा राजन्द्वेष्यभावान्मम प्रभो |
३९ क
सञ्जय़ उवाच:
मन्दभाग्यतय़ा वापि मम रक्षसि पाण्डवान् ||
३९ ख
सञ्जय़ उवाच:
अनुजानीहि समरे कर्णमाहवशोभिनम् |
४० क
सञ्जय़ उवाच:
स जेष्यति रणे पार्थान्ससुहृद्गणवान्धवान् ||
४० ख
सञ्जय़ उवाच:
एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव |
४१ क
सञ्जय़ उवाच:
नोवाच वचनं किञ्चिद्भीष्मं भीमपराक्रमम् ||
४१ ख