सञ्जय़ उवाच:
काल्यमानेषु सैन्येषु शैनेय़ेन ततस्ततः |
१ क
सञ्जय़ उवाच:
भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ||
१ ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलो द्रोणसात्वतय़ोरभूत् |
२ क
सञ्जय़ उवाच:
पश्यतां सर्वसैन्यानां वलिवासवय़ोरिव ||
२ ख
सञ्जय़ उवाच:
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वाय़सैः शरैः |
३ क
सञ्जय़ उवाच:
त्रिभिराशीविषाकारैर्ललाटे समविध्यत ||
३ ख
सञ्जय़ उवाच:
तैर्ललाटार्पितैर्वाणैर्युय़ुधानस्त्वजिह्मगैः |
४ क
सञ्जय़ उवाच:
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ||
४ ख
सञ्जय़ उवाच:
ततोऽस्य वाणानपरानिन्द्राशनिसमस्वनान् |
५ क
सञ्जय़ उवाच:
भारद्वाजोऽन्तरप्रेक्षी प्रेषय़ामास संय़ुगे ||
५ ख
सञ्जय़ उवाच:
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् |
६ क
सञ्जय़ उवाच:
द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ||
६ ख
सञ्जय़ उवाच:
तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते |
७ क
सञ्जय़ उवाच:
प्रहस्य सहसाविध्यद्विंशत्या शिनिपुङ्गवम् ||
७ ख
सञ्जय़ उवाच:
पुनः पञ्चाशतेषूणां शतेन च समार्पय़त् |
८ क
सञ्जय़ उवाच:
लघुतां युय़ुधानस्य लाघवेन विशेषय़न् ||
८ ख
सञ्जय़ उवाच:
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः |
९ क
सञ्जय़ उवाच:
तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ||
९ ख
सञ्जय़ उवाच:
तथैव युय़ुधानेन सृष्टाः शतसहस्रशः |
१० क
सञ्जय़ उवाच:
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ||
१० ख
सञ्जय़ उवाच:
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष |
११ क
सञ्जय़ उवाच:
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ||
११ ख
सञ्जय़ उवाच:
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः |
१२ क
सञ्जय़ उवाच:
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः |
१२ ख
सञ्जय़ उवाच:
सारथिं च शतेनैव भारद्वाजस्य पश्यतः ||
१२ ग
सञ्जय़ उवाच:
लाघवं युय़ुधानस्य दृष्ट्वा द्रोणो महारथः |
१३ क
सञ्जय़ उवाच:
सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः |
१३ ख
सञ्जय़ उवाच:
ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ||
१३ ग
सञ्जय़ उवाच:
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा |
१४ क
सञ्जय़ उवाच:
धनुश्चिच्छेद समरे माधवस्य महात्मनः ||
१४ ख
सञ्जय़ उवाच:
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः |
१५ क
सञ्जय़ उवाच:
गदां जग्राह महतीं भारद्वाजाय़ चाक्षिपत् ||
१५ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा पट्टवद्धामय़स्मय़ीम् |
१६ क
सञ्जय़ उवाच:
न्यवारय़च्छरैर्द्रोणो वहुभिर्वहुरूपिभिः ||
१६ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सात्यकिः सत्यविक्रमः |
१७ क
सञ्जय़ उवाच:
विव्याध वहुभिर्वीरं भारद्वाजं शिलाशितैः ||
१७ ख
सञ्जय़ उवाच:
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत |
१८ क
सञ्जय़ उवाच:
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ||
१८ ख
सञ्जय़ उवाच:
तथः शक्तिं गृहीत्वा तु रुक्मदण्डामय़स्मय़ीम् |
१९ क
सञ्जय़ उवाच:
तरसा प्रेषय़ामास माधवस्य रथं प्रति ||
१९ ख
सञ्जय़ उवाच:
अनासाद्य तु शैनेय़ं सा शक्तिः कालसंनिभा |
२० क
सञ्जय़ उवाच:
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ||
२० ख
सञ्जय़ उवाच:
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा |
२१ क
सञ्जय़ उवाच:
दक्षिणं भुजमासाद्य पीडय़न्भरतर्षभ ||
२१ ख
सञ्जय़ उवाच:
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः |
२२ क
सञ्जय़ उवाच:
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ||
२२ ख
सञ्जय़ उवाच:
मुमोह सरथिस्तस्य रथशक्त्या समाहतः |
२३ क
सञ्जय़ उवाच:
स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ||
२३ ख
सञ्जय़ उवाच:
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् |
२४ क
सञ्जय़ उवाच:
अय़ोधय़च्च यद्द्रोणं रश्मीञ्जग्राह च स्वय़म् ||
२४ ख
सञ्जय़ उवाच:
ततः शरशतेनैव युय़ुधानो महारथः |
२५ क
सञ्जय़ उवाच:
अविध्यद्व्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते ||
२५ ख
सञ्जय़ उवाच:
तस्य द्रोणः शरान्पञ्च प्रेषय़ामास भारत |
२६ क
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||
२६ ख
सञ्जय़ उवाच:
निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् |
२७ क
सञ्जय़ उवाच:
साय़कान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ||
२७ ख
सञ्जय़ उवाच:
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि |
२८ क
सञ्जय़ उवाच:
अश्वान्व्यद्रावय़द्वाणैर्हतसूतान्महात्मनः ||
२८ ख
सञ्जय़ उवाच:
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः |
२९ क
सञ्जय़ उवाच:
चकार राजतो राजन्भ्राजमान इवांशुमान् ||
२९ ख
सञ्जय़ उवाच:
अभिद्रवत गृह्णीत हय़ान्द्रोणस्य धावत |
३० क
सञ्जय़ उवाच:
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ||
३० ख
सञ्जय़ उवाच:
ते सात्यकिमपास्याशु राजन्युधि महारथाः |
३१ क
सञ्जय़ उवाच:
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ||
३१ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् |
३२ क
सञ्जय़ उवाच:
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ||
३२ ख
सञ्जय़ उवाच:
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः |
३३ क
सञ्जय़ उवाच:
वाताय़मानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ||
३३ ख
सञ्जय़ उवाच:
पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान् |
३४ क
सञ्जय़ उवाच:
शैनेय़े नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ||
३४ ख
सञ्जय़ उवाच:
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव |
३५ क
सञ्जय़ उवाच:
तस्थौ क्रोधाग्निसन्दीप्तः कालसूर्य इवोदितः ||
३५ ख