chevron_left आदि पर्व अध्याय ९४
वैशम्पाय़न उवाच:
समय़ेन प्रदद्यां ते कन्यामहमिमां नृप |
४९ क
वैशम्पाय़न उवाच:
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ||
४९ ख
शन्तनुरु उवाच:
श्रुत्वा तव वरं दाश व्यवस्येय़महं न वा |
५० क
शन्तनुरु उवाच:
दातव्यं चेत्प्रदास्यामि न त्वदेय़ं कथञ्चन ||
५० ख
दाश उवाच:
अस्यां जाय़ेत यः पुत्रः स राजा पृथिवीपतिः |
५१ क
दाश उवाच:
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ||
५१ ख
वैशम्पाय़न उवाच:
नाकामय़त तं दातुं वरं दाशाय़ शन्तनुः |
५२ क
वैशम्पाय़न उवाच:
शरीरजेन तीव्रेण दह्यमानोऽपि भारत ||
५२ ख
वैशम्पाय़न उवाच:
स चिन्तय़न्नेव तदा दाशकन्यां महीपतिः |
५३ क
वैशम्पाय़न उवाच:
प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ||
५३ ख
वैशम्पाय़न उवाच:
ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् |
५४ क
वैशम्पाय़न उवाच:
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमव्रवीत् ||
५४ ख
वैशम्पाय़न उवाच:
सर्वतो भवतः क्षेमं विधेय़ाः सर्वपार्थिवाः |
५५ क
वैशम्पाय़न उवाच:
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः |
५५ ख
वैशम्पाय़न उवाच:
ध्याय़न्निव च किं राजन्नाभिभाषसि किञ्चन ||
५५ ग
वैशम्पाय़न उवाच:
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत |
५६ क
वैशम्पाय़न उवाच:
असंशय़ं ध्यानपरं यथा मात्थ तथास्म्युत ||
५६ ख
वैशम्पाय़न उवाच:
अपत्यं नस्त्वमेवैकः कुले महति भारत |
५७ क
वैशम्पाय़न उवाच:
अनित्यता च मर्त्यानामतः शोचामि पुत्रक ||
५७ ख
वैशम्पाय़न उवाच:
कथञ्चित्तव गाङ्गेय़ विपत्तौ नास्ति नः कुलम् |
५८ क
वैशम्पाय़न उवाच:
असंशय़ं त्वमेवैकः शतादपि वरः सुतः ||
५८ ख
वैशम्पाय़न उवाच:
न चाप्यहं वृथा भूय़ो दारान्कर्तुमिहोत्सहे |
५९ क
वैशम्पाय़न उवाच:
सन्तानस्याविनाशाय़ कामय़े भद्रमस्तु ते |
५९ ख
वैशम्पाय़न उवाच:
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ||
५९ ग
वैशम्पाय़न उवाच:
अग्निहोत्रं त्रय़ो वेदा यज्ञाश्च सहदक्षिणाः |
६० क
वैशम्पाय़न उवाच:
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ||
६० ख
वैशम्पाय़न उवाच:
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि |
६१ क
वैशम्पाय़न उवाच:
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशय़ः |
६१ ख
वैशम्पाय़न उवाच:
एषा त्रय़ी पुराणानामुत्तमानां च शाश्वती ||
६१ ग
वैशम्पाय़न उवाच:
त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत |
६२ क
वैशम्पाय़न उवाच:
नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ||
६२ ख
वैशम्पाय़न उवाच:
सोऽस्मि संशय़मापन्नस्त्वय़ि शान्ते कथं भवेत् |
६३ क
वैशम्पाय़न उवाच:
इति ते कारणं तात दुःखस्योक्तमशेषतः ||
६३ ख
वैशम्पाय़न उवाच:
ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः |
६४ क
वैशम्पाय़न उवाच:
देवव्रतो महावुद्धिः प्रय़यावनुचिन्तय़न् ||
६४ ख
वैशम्पाय़न उवाच:
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् |
६५ क
वैशम्पाय़न उवाच:
तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ||
६५ ख
वैशम्पाय़न उवाच:
तस्मै स कुरुमुख्याय़ यथावत्परिपृच्छते |
६६ क
वैशम्पाय़न उवाच:
वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ||
६६ ख
वैशम्पाय़न उवाच:
ततो देवव्रतो वृद्धैः क्षत्रिय़ैः सहितस्तदा |
६७ क
वैशम्पाय़न उवाच:
अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वय़म् ||
६७ ख
वैशम्पाय़न उवाच:
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च |
६८ क
वैशम्पाय़न उवाच:
अव्रवीच्चैनमासीनं राजसंसदि भारत ||
६८ ख
वैशम्पाय़न उवाच:
त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ |
६९ क
वैशम्पाय़न उवाच:
पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ||
६९ ख
वैशम्पाय़न उवाच:
को हि सम्वन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् |
७० क
वैशम्पाय़न उवाच:
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ||
७० ख
वैशम्पाय़न उवाच:
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः |
७१ क
वैशम्पाय़न उवाच:
यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ||
७१ ख
वैशम्पाय़न उवाच:
तेन मे वहुशस्तात पिता ते परिकीर्तितः |
७२ क
वैशम्पाय़न उवाच:
अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ||
७२ ख
वैशम्पाय़न उवाच:
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मय़ा |
७३ क
वैशम्पाय़न उवाच:
सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ||
७३ ख
वैशम्पाय़न उवाच:
कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ |
७४ क
वैशम्पाय़न उवाच:
वलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ||
७४ ख
वैशम्पाय़न उवाच:
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा |
७५ क
वैशम्पाय़न उवाच:
न स जातु सुखं जीवेत्त्वय़ि क्रुद्धे परन्तप ||
७५ ख
वैशम्पाय़न उवाच:
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव |
७६ क
वैशम्पाय़न उवाच:
एतज्जानीहि भद्रं ते दानादाने परन्तप ||
७६ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु गाङ्गेय़स्तद्युक्तं प्रत्यभाषत |
७७ क
वैशम्पाय़न उवाच:
शृण्वतां भूमिपालानां पितुरर्थाय़ भारत ||
७७ ख
वैशम्पाय़न उवाच:
इदं मे मतमादत्स्व सत्यं सत्यवतां वर |
७८ क
वैशम्पाय़न उवाच:
नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ||
७८ ख
वैशम्पाय़न उवाच:
एवमेतत्करिष्यामि यथा त्वमनुभाषसे |
७९ क
वैशम्पाय़न उवाच:
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ||
७९ ख
वैशम्पाय़न उवाच:
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत |
८० क
वैशम्पाय़न उवाच:
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ||
८० ख
वैशम्पाय़न उवाच:
त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः |
८१ क
वैशम्पाय़न उवाच:
कन्याय़ाश्चैव धर्मात्मन्प्रभुर्दानाय़ चेश्वरः ||
८१ ख
वैशम्पाय़न उवाच:
इदं तु वचनं सौम्य कार्यं चैव निवोध मे |
८२ क
वैशम्पाय़न उवाच:
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम ||
८२ ख
वैशम्पाय़न उवाच:
यत्त्वय़ा सत्यवत्यर्थे सत्यधर्मपराय़ण |
८३ क
वैशम्पाय़न उवाच:
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ||
८३ ख
वैशम्पाय़न उवाच:
नान्यथा तन्महावाहो संशय़ोऽत्र न कश्चन |
८४ क
वैशम्पाय़न उवाच:
तवापत्यं भवेद्यत्तु तत्र नः संशय़ो महान् ||
८४ ख
वैशम्पाय़न उवाच:
तस्य तन्मतमाज्ञाय़ सत्यधर्मपराय़णः |
८५ क
वैशम्पाय़न उवाच:
प्रत्यजानात्तदा राजन्पितुः प्रिय़चिकीर्षय़ा ||
८५ ख
देवव्रत उवाच:
दाशराज निवोधेदं वचनं मे नृपोत्तम |
८६ क
देवव्रत उवाच:
शृण्वतां भूमिपालानां यद्व्रवीमि पितुः कृते ||
८६ ख
देवव्रत उवाच:
राज्यं तावत्पूर्वमेव मय़ा त्यक्तं नराधिप |
८७ क
देवव्रत उवाच:
अपत्यहेतोरपि च करोम्येष विनिश्चय़म् ||
८७ ख
देवव्रत उवाच:
अद्य प्रभृति मे दाश व्रह्मचर्यं भविष्यति |
८८ क
देवव्रत उवाच:
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षय़ा दिवि ||
८८ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः |
८९ क
वैशम्पाय़न उवाच:
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ||
८९ ख
वैशम्पाय़न उवाच:
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा |
९० क
वैशम्पाय़न उवाच:
अभ्यवर्षन्त कुसुमैर्भीष्मोऽय़मिति चाव्रुवन् ||
९० ख
वैशम्पाय़न उवाच:
ततः स पितुरर्थाय़ तामुवाच यशस्विनीम् |
९१ क
वैशम्पाय़न उवाच:
अधिरोह रथं मातर्गच्छावः स्वगृहानिति ||
९१ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् |
९२ क
वैशम्पाय़न उवाच:
आगम्य हास्तिनपुरं शन्तनोः संन्यवेदय़त् ||
९२ ख
वैशम्पाय़न उवाच:
तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः |
९३ क
वैशम्पाय़न उवाच:
समेताश्च पृथक्चैव भीष्मोऽय़मिति चाव्रुवन् ||
९३ ख
वैशम्पाय़न उवाच:
तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः |
९४ क
वैशम्पाय़न उवाच:
स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वय़म् ||
९४ ख