वैशम्पाय़न उवाच:
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः |
१ क
वैशम्पाय़न उवाच:
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ||
१ ख
वैशम्पाय़न उवाच:
दमो दानं क्षमा वुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् |
२ क
वैशम्पाय़न उवाच:
नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ||
२ ख
वैशम्पाय़न उवाच:
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः |
३ क
वैशम्पाय़न उवाच:
आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ||
३ ख
वैशम्पाय़न उवाच:
कम्वुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः |
४ क
वैशम्पाय़न उवाच:
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ||
४ ख
वैशम्पाय़न उवाच:
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ |
५ क
वैशम्पाय़न उवाच:
न चास्य सदृशः कश्चित्क्षत्रिय़ो धर्मतोऽभवत् ||
५ ख
वैशम्पाय़न उवाच:
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् |
६ क
वैशम्पाय़न उवाच:
तं महीपा महीपालं राजराज्येऽभ्यषेचय़न् ||
६ ख
वैशम्पाय़न उवाच:
वीतशोकभय़ावाधाः सुखस्वप्नविवोधनाः |
७ क
वैशम्पाय़न उवाच:
प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ||
७ ख
वैशम्पाय़न उवाच:
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा |
८ क
वैशम्पाय़न उवाच:
निय़मात्सर्ववर्णानां व्रह्मोत्तरमवर्तत ||
८ ख
वैशम्पाय़न उवाच:
व्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः |
९ क
वैशम्पाय़न उवाच:
व्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ||
९ ख
वैशम्पाय़न उवाच:
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने |
१० क
वैशम्पाय़न उवाच:
वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ||
१० ख
वैशम्पाय़न उवाच:
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः |
११ क
वैशम्पाय़न उवाच:
दानधर्मतपोय़ोगाच्छ्रिय़ा परमय़ा युतः ||
११ ख
वैशम्पाय़न उवाच:
अरागद्वेषसंय़ुक्तः सोमवत्प्रिय़दर्शनः |
१२ क
वैशम्पाय़न उवाच:
तेजसा सूर्यसङ्काशो वाय़ुवेगसमो जवे |
१२ ख
वैशम्पाय़न उवाच:
अन्तकप्रतिमः कोपे क्षमय़ा पृथिवीसमः ||
१२ ग
वैशम्पाय़न उवाच:
वधः पशुवराहाणां तथैव मृगपक्षिणाम् |
१३ क
वैशम्पाय़न उवाच:
शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ||
१३ ख
वैशम्पाय़न उवाच:
धर्मव्रह्मोत्तरे राज्ये शन्तनुर्विनय़ात्मवान् |
१४ क
वैशम्पाय़न उवाच:
समं शशास भूतानि कामरागविवर्जितः ||
१४ ख
वैशम्पाय़न उवाच:
देवर्षिपितृय़ज्ञार्थमारभ्यन्त तदा क्रिय़ाः |
१५ क
वैशम्पाय़न उवाच:
न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ||
१५ ख
वैशम्पाय़न उवाच:
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् |
१६ क
वैशम्पाय़न उवाच:
स एव राजा भूतानां सर्वेषामभवत्पिता ||
१६ ख
वैशम्पाय़न उवाच:
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति |
१७ क
वैशम्पाय़न उवाच:
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ||
१७ ख
वैशम्पाय़न उवाच:
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः |
१८ क
वैशम्पाय़न उवाच:
रतिमप्राप्नुवन्स्त्रीषु वभूव वनगोचरः ||
१८ ख
वैशम्पाय़न उवाच:
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः |
१९ क
वैशम्पाय़न उवाच:
गाङ्गेय़स्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ||
१९ ख
वैशम्पाय़न उवाच:
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च |
२० क
वैशम्पाय़न उवाच:
महावलो महासत्त्वो महावीर्यो महारथः ||
२० ख
वैशम्पाय़न उवाच:
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् |
२१ क
वैशम्पाय़न उवाच:
भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ||
२१ ख
वैशम्पाय़न उवाच:
तां दृष्ट्वा चिन्तय़ामास शन्तनुः पुरुषर्षभः |
२२ क
वैशम्पाय़न उवाच:
स्यन्दते किं न्विय़ं नाद्य सरिच्छ्रेष्ठा यथा पुरा ||
२२ ख
वैशम्पाय़न उवाच:
ततो निमित्तमन्विच्छन्ददर्श स महामनाः |
२३ क
वैशम्पाय़न उवाच:
कुमारं रूपसम्पन्नं वृहन्तं चारुदर्शनम् ||
२३ ख
वैशम्पाय़न उवाच:
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् |
२४ क
वैशम्पाय़न उवाच:
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ||
२४ ख
वैशम्पाय़न उवाच:
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके |
२५ क
वैशम्पाय़न उवाच:
अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ||
२५ ख
वैशम्पाय़न उवाच:
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा |
२६ क
वैशम्पाय़न उवाच:
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ||
२६ ख
वैशम्पाय़न उवाच:
स तु तं पितरं दृष्ट्वा मोहय़ामास माय़या |
२७ क
वैशम्पाय़न उवाच:
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीय़त ||
२७ ख
वैशम्पाय़न उवाच:
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः |
२८ क
वैशम्पाय़न उवाच:
शङ्कमानः सुतं गङ्गामव्रवीद्दर्शय़ेति ह ||
२८ ख
वैशम्पाय़न उवाच:
दर्शय़ामास तं गङ्गा विभ्रती रूपमुत्तमम् |
२९ क
वैशम्पाय़न उवाच:
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ||
२९ ख
वैशम्पाय़न उवाच:
अलङ्कृतामाभरणैररजोम्वरधारिणीम् |
३० क
वैशम्पाय़न उवाच:
दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ||
३० ख
गङ्गो उवाच:
यं पुत्रमष्टमं राजंस्त्वं पुरा मय़्यजाय़िथाः |
३१ क
गङ्गो उवाच:
स तेऽय़ं पुरुषव्याघ्र नय़स्वैनं गृहान्तिकम् ||
३१ ख
गङ्गो उवाच:
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् |
३२ क
गङ्गो उवाच:
कृतास्त्रः परमेष्वासो देवराजसमो युधि ||
३२ ख
गङ्गो उवाच:
सुराणां संमतो नित्यमसुराणां च भारत |
३३ क
गङ्गो उवाच:
उशना वेद यच्छास्त्रमय़ं तद्वेद सर्वशः ||
३३ ख
गङ्गो उवाच:
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः |
३४ क
गङ्गो उवाच:
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् |
३४ ख
गङ्गो उवाच:
तव पुत्रे महावाहौ साङ्गोपाङ्गं महात्मनि ||
३४ ग
गङ्गो उवाच:
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् |
३५ क
गङ्गो उवाच:
यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ||
३५ ख
गङ्गो उवाच:
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् |
३६ क
गङ्गो उवाच:
मय़ा दत्तं निजं पुत्रं वीरं वीर गृहान्नय़ ||
३६ ख
वैशम्पाय़न उवाच:
तय़ैवं समनुज्ञातः पुत्रमादाय़ शन्तनुः |
३७ क
वैशम्पाय़न उवाच:
भ्राजमानं यथादित्यमाय़यौ स्वपुरं प्रति ||
३७ ख
वैशम्पाय़न उवाच:
पौरवः स्वपुरं गत्वा पुरन्दरपुरोपमम् |
३८ क
वैशम्पाय़न उवाच:
सर्वकामसमृद्धार्थं मेने आत्मानमात्मना |
३८ ख
वैशम्पाय़न उवाच:
पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचय़त् ||
३८ ग
वैशम्पाय़न उवाच:
पौरवाञ्शन्तनोः पुत्रः पितरं च महाय़शाः |
३९ क
वैशम्पाय़न उवाच:
राष्ट्रं च रञ्जय़ामास वृत्तेन भरतर्षभ ||
३९ ख
वैशम्पाय़न उवाच:
स तथा सह पुत्रेण रममाणो महीपतिः |
४० क
वैशम्पाय़न उवाच:
वर्तय़ामास वर्षाणि चत्वार्यमितविक्रमः ||
४० ख
वैशम्पाय़न उवाच:
स कदाचिद्वनं यातो यमुनामभितो नदीम् |
४१ क
वैशम्पाय़न उवाच:
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ||
४१ ख
वैशम्पाय़न उवाच:
तस्य प्रभवमन्विच्छन्विचचार समन्ततः |
४२ क
वैशम्पाय़न उवाच:
स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ||
४२ ख
वैशम्पाय़न उवाच:
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् |
४३ क
वैशम्पाय़न उवाच:
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ||
४३ ख
वैशम्पाय़न उवाच:
साव्रवीद्दाशकन्यास्मि धर्मार्थं वाहय़े तरीम् |
४४ क
वैशम्पाय़न उवाच:
पितुर्निय़ोगाद्भद्रं ते दाशराज्ञो महात्मनः ||
४४ ख
वैशम्पाय़न उवाच:
रूपमाधुर्यगन्धैस्तां संय़ुक्तां देवरूपिणीम् |
४५ क
वैशम्पाय़न उवाच:
समीक्ष्य राजा दाशेय़ीं कामय़ामास शन्तनुः ||
४५ ख
वैशम्पाय़न उवाच:
स गत्वा पितरं तस्या वरय़ामास तां तदा |
४६ क
वैशम्पाय़न उवाच:
पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ||
४६ ख
वैशम्पाय़न उवाच:
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् |
४७ क
वैशम्पाय़न उवाच:
जातमात्रैव मे देय़ा वराय़ वरवर्णिनी |
४७ ख
वैशम्पाय़न उवाच:
हृदि कामस्तु मे कश्चित्तं निवोध जनेश्वर ||
४७ ग
वैशम्पाय़न उवाच:
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थय़सेऽनघ |
४८ क
वैशम्पाय़न उवाच:
सत्यवागसि सत्येन समय़ं कुरु मे ततः ||
४८ ख