chevron_left शान्ति पर्व अध्याय ९४
वामदेव उवाच:
यत्राधर्मं प्रणय़ते दुर्वले वलवत्तरः |
१ क
वामदेव उवाच:
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वय़ाः ||
१ ख
वामदेव उवाच:
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् |
२ क
वामदेव उवाच:
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ||
२ ख
वामदेव उवाच:
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः |
३ क
वामदेव उवाच:
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ||
३ ख
वामदेव उवाच:
साहसप्रकृतिर्यत्र कुरुते किञ्चिदुल्वणम् |
४ क
वामदेव उवाच:
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ||
४ ख
वामदेव उवाच:
योऽत्यन्ताचरितां वृत्तिं क्षत्रिय़ो नानुवर्तते |
५ क
वामदेव उवाच:
जितानामजितानां च क्षत्रधर्मादपैति सः ||
५ ख
वामदेव उवाच:
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे |
६ क
वामदेव उवाच:
यो न मानय़ते द्वेषात्क्षत्रधर्मादपैति सः ||
६ ख
वामदेव उवाच:
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि |
७ क
वामदेव उवाच:
प्रिय़ो भवति भूतानां न च विभ्रश्यते श्रिय़ः ||
७ ख
वामदेव उवाच:
अप्रिय़ं यस्य कुर्वीत भूय़स्तस्य प्रिय़ं चरेत् |
८ क
वामदेव उवाच:
नचिरेण प्रिय़ः स स्याद्योऽप्रिय़ः प्रिय़माचरेत् ||
८ ख
वामदेव उवाच:
मृषावादं परिहरेत्कुर्यात्प्रिय़मय़ाचितः |
९ क
वामदेव उवाच:
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ||
९ ख
वामदेव उवाच:
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् |
१० क
वामदेव उवाच:
न त्वरेत न चासूय़ेत्तथा सङ्गृह्यते परः ||
१० ख
वामदेव उवाच:
प्रिय़े नातिभृशं हृष्येदप्रिय़े न च सञ्ज्वरेत् |
११ क
वामदेव उवाच:
न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ||
११ ख
वामदेव उवाच:
यः प्रिय़ं कुरुते नित्यं गुणतो वसुधाधिपः |
१२ क
वामदेव उवाच:
तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिय़ा ||
१२ ख
वामदेव उवाच:
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिय़े |
१३ क
वामदेव उवाच:
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ||
१३ ख
वामदेव उवाच:
अप्रकीर्णेन्द्रिय़ं प्राज्ञमत्यन्तानुगतं शुचिम् |
१४ क
वामदेव उवाच:
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ||
१४ ख
वामदेव उवाच:
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् |
१५ क
वामदेव उवाच:
भर्तुरर्थेष्वसूय़न्तं न तं युञ्जीत कर्मणि ||
१५ ख
वामदेव उवाच:
मूढमैन्द्रिय़कं लुव्धमनार्यचरितं शठम् |
१६ क
वामदेव उवाच:
अनतीतोपधं हिंस्रं दुर्वुद्धिमवहुश्रुतम् ||
१६ ख
वामदेव उवाच:
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगय़ापरम् |
१७ क
वामदेव उवाच:
कार्ये महति यो युञ्ज्याद्धीय़ते स नृपः श्रिय़ः ||
१७ ख
वामदेव उवाच:
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति |
१८ क
वामदेव उवाच:
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ||
१८ ख
वामदेव उवाच:
ये केचिद्भूमिपतय़स्तान्सर्वानन्ववेक्षय़ेत् |
१९ क
वामदेव उवाच:
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ||
१९ ख
वामदेव उवाच:
अपकृत्य वलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् |
२० क
वामदेव उवाच:
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ||
२० ख
वामदेव उवाच:
दृढमूलस्त्वदुष्टात्मा विदित्वा वलमात्मनः |
२१ क
वामदेव उवाच:
अवलानभिय़ुञ्जीत न तु ये वलवत्तराः ||
२१ ख
वामदेव उवाच:
विक्रमेण महीं लव्ध्वा प्रजा धर्मेण पालय़न् |
२२ क
वामदेव उवाच:
आहवे निधनं कुर्याद्राजा धर्मपराय़णः ||
२२ ख
वामदेव उवाच:
मरणान्तमिदं सर्वं नेह किञ्चिदनामय़म् |
२३ क
वामदेव उवाच:
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालय़ेत् ||
२३ ख
वामदेव उवाच:
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् |
२४ क
वामदेव उवाच:
मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ||
२४ ख
वामदेव उवाच:
एतानि यस्य गुप्तानि स राजा राजसत्तम |
२५ क
वामदेव उवाच:
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ||
२५ ख
वामदेव उवाच:
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् |
२६ क
वामदेव उवाच:
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ||
२६ ख
वामदेव उवाच:
दातारं संविभक्तारं मार्दवोपगतं शुचिम् |
२७ क
वामदेव उवाच:
असन्त्यक्तमनुष्यं च तं जनाः कुर्वते प्रिय़म् ||
२७ ख
वामदेव उवाच:
यस्तु निःश्रेय़सं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते |
२८ क
वामदेव उवाच:
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीय़ते ||
२८ ख
वामदेव उवाच:
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते |
२९ क
वामदेव उवाच:
शृणोति प्रतिकूलानि विमना नचिरादिव ||
२९ ख
वामदेव उवाच:
अग्राम्यचरितां वुद्धिमत्यन्तं यो न वुध्यते |
३० क
वामदेव उवाच:
जितानामजितानां च क्षत्रधर्मादपैति सः ||
३० ख
वामदेव उवाच:
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रिय़ान् |
३१ क
वामदेव उवाच:
स वै व्यसनमासाद्य गाधमार्तो न विन्दति ||
३१ ख
वामदेव उवाच:
यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते |
३२ क
वामदेव उवाच:
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ||
३२ ख
वामदेव उवाच:
अथ यो गुणसम्पन्नान्हृदय़स्याप्रिय़ानपि |
३३ क
वामदेव उवाच:
प्रिय़ेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ||
३३ ख
वामदेव उवाच:
नाकाले प्रणय़ेदर्थान्नाप्रिय़े जातु सञ्ज्वरेत् |
३४ क
वामदेव उवाच:
प्रिय़े नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि ||
३४ ख
वामदेव उवाच:
के मानुरक्ता राजानः के भय़ात्समुपाश्रिताः |
३५ क
वामदेव उवाच:
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तय़ेत् ||
३५ ख
वामदेव उवाच:
न जातु वलवान्भूत्वा दुर्वले विश्वसेत्क्वचित् |
३६ क
वामदेव उवाच:
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ||
३६ ख
वामदेव उवाच:
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रिय़वादिनम् |
३७ क
वामदेव उवाच:
अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ||
३७ ख
वामदेव उवाच:
एतां राजोपनिषदं यय़ातिः स्माह नाहुषः |
३८ क
वामदेव उवाच:
मनुष्यविजय़े युक्तो हन्ति शत्रूननुत्तमान् ||
३८ ख