chevron_left अनुशासन पर्व अध्याय ९४
युधिष्ठिर उवाच:
व्राह्मणेभ्यः प्रय़च्छन्ति दानानि विविधानि च |
१ क
युधिष्ठिर उवाच:
दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ||
१ ख
भीष्म उवाच:
साधोर्यः प्रतिगृह्णीय़ात्तथैवासाधुतो द्विजः |
२ क
भीष्म उवाच:
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ||
३ ख
भीष्म उवाच:
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः |
४ क
भीष्म उवाच:
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ||
४ ख
भीष्म उवाच:
सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका |
५ क
भीष्म उवाच:
शूद्रः पशुसखश्चैव भर्ता चास्या वभूव ह ||
५ ख
भीष्म उवाच:
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् |
६ क
भीष्म उवाच:
समाधिनोपशिक्षन्तो व्रह्मलोकं सनातनम् ||
६ ख
भीष्म उवाच:
अथाभवदनावृष्टिर्महती कुरुनन्दन |
७ क
भीष्म उवाच:
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽय़ं वै क्षुधान्वितः ||
७ ख
भीष्म उवाच:
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिविसूनुना |
८ क
भीष्म उवाच:
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ||
८ ख
भीष्म उवाच:
तस्मिन्कालेऽथ सोऽल्पाय़ुर्दिष्टान्तमगमत्प्रभो |
९ क
भीष्म उवाच:
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ||
९ ख
भीष्म उवाच:
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः |
१० क
भीष्म उवाच:
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ||
१० ख
भीष्म उवाच:
निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः |
११ क
भीष्म उवाच:
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ||
११ ख
भीष्म उवाच:
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः |
१२ क
भीष्म उवाच:
राजा शैव्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ||
१२ ख
वृषादर्भिरु उवाच:
प्रतिग्रहस्तारय़ति पुष्टिर्वै प्रतिगृह्णताम् |
१३ क
वृषादर्भिरु उवाच:
मय़ि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ||
१३ ख
वृषादर्भिरु उवाच:
प्रिय़ो हि मे व्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम् |
१४ क
वृषादर्भिरु उवाच:
एकैकशः सवृषाः सम्प्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः ||
१४ ख
वृषादर्भिरु उवाच:
कुलम्भराननडुहः शतंशता; न्धुर्याञ्शुभान्सर्वशोऽहं ददानि |
१५ क
वृषादर्भिरु उवाच:
पृथ्वीवाहान्पीवरांश्चैव ताव; दग्र्या गृष्ट्यो धेनवः सुव्रताश्च ||
१५ ख
वृषादर्भिरु उवाच:
वरान्ग्रामान्व्रीहिय़वं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि |
१६ क
वृषादर्भिरु उवाच:
मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रय़च्छाम्यहं वः ||
१६ ख
ऋषय़ ऊचुः:
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः |
१७ क
ऋषय़ ऊचुः:
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ||
१७ ख
ऋषय़ ऊचुः:
क्षत्रं हि दैवतमिव व्राह्मणं समुपाश्रितम् |
१८ क
ऋषय़ ऊचुः:
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ||
१८ ख
ऋषय़ ऊचुः:
अह्नापीह तपो जातु व्राह्मणस्योपजाय़ते |
१९ क
ऋषय़ ऊचुः:
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ||
१९ ख
ऋषय़ ऊचुः:
कुशलं सह दानेन राजन्नस्तु सदा तव |
२० क
ऋषय़ ऊचुः:
अर्थिभ्यो दीय़तां सर्वमित्युक्त्वा ते ततो यय़ुः ||
२० ख
ऋषय़ ऊचुः:
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् |
२१ क
ऋषय़ ऊचुः:
अथ हित्वा यय़ुः सर्वे वनमाहारकाङ्क्षिणः ||
२१ ख
ऋषय़ ऊचुः:
ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः |
२२ क
ऋषय़ ऊचुः:
प्रचीय़ोदुम्वराणि स्म दानं दातुं प्रचक्रमुः ||
२२ ख
ऋषय़ ऊचुः:
उदुम्वराण्यथान्यानि हेमगर्भाण्युपाहरन् |
२३ क
ऋषय़ ऊचुः:
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ||
२३ ख
ऋषय़ ऊचुः:
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरव्रवीत् |
२४ क
ऋषय़ ऊचुः:
न स्म हे मूढविज्ञाना न स्म हे मन्दवुद्धय़ः |
२४ ख
ऋषय़ ऊचुः:
हैमानीमानि जानीमः प्रतिवुद्धाः स्म जागृमः ||
२४ ग
ऋषय़ ऊचुः:
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदय़म् |
२५ क
ऋषय़ ऊचुः:
अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ||
२५ ख
वसिष्ठ उवाच:
शतेन निष्कं गणितं सहस्रेण च संमितम् |
२६ क
वसिष्ठ उवाच:
यथा वहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ||
२६ ख
कश्यप उवाच:
यत्पृथिव्यां व्रीहिय़वं हिरण्यं पशवः स्त्रिय़ः |
२७ क
कश्यप उवाच:
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ||
२७ ख
भरद्वाज उवाच:
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते |
२८ क
भरद्वाज उवाच:
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ||
२८ ख
गौतम उवाच:
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरय़ेत् |
२९ क
गौतम उवाच:
समुद्रकल्पः पुरुषो न कदाचन पूर्यते ||
२९ ख
विश्वामित्र उवाच:
कामं कामय़मानस्य यदा कामः समृध्यते |
३० क
विश्वामित्र उवाच:
अथैनमपरः कामस्तृष्णा विध्यति वाणवत् ||
३० ख
जमदग्निरु उवाच:
प्रतिग्रहे संय़मो वै तपो धारय़ते ध्रुवम् |
३१ क
जमदग्निरु उवाच:
तद्धनं व्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ||
३१ ख
अरुन्धत्यु उवाच:
धर्मार्थं सञ्चय़ो यो वै द्रव्याणां पक्षसंमतः |
३२ क
अरुन्धत्यु उवाच:
तपःसञ्चय़ एवेह विशिष्टो द्रव्यसञ्चय़ात् ||
३२ ख
गण्डो उवाच:
उग्रादितो भय़ाद्यस्माद्विभ्यतीमे ममेश्वराः |
३३ क
गण्डो उवाच:
वलीय़ांसो दुर्वलवद्विभेम्यहमतः परम् ||
३३ ख
पशुसख उवाच:
यद्वै धर्मे परं नास्ति व्राह्मणास्तद्धनं विदुः |
३४ क
पशुसख उवाच:
विनय़ार्थं सुविद्वांसमुपासेय़ं यथातथम् ||
३४ ख
ऋषय़ ऊचुः:
कुशलं सह दानाय़ तस्मै यस्य प्रजा इमाः |
३५ क
ऋषय़ ऊचुः:
फलान्युपधिय़ुक्तानि य एवं नः प्रय़च्छसि ||
३५ ख
भीष्म उवाच:
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते |
३६ क
भीष्म उवाच:
ऋषय़ो जग्मुरन्यत्र सर्व एव धृतव्रताः ||
३६ ख
मन्त्रिणः ऊचुः:
उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै |
३७ क
मन्त्रिणः ऊचुः:
ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ||
३७ ख
मन्त्रिणः ऊचुः:
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह |
३८ क
मन्त्रिणः ऊचुः:
तेषां सम्प्रतिकर्तुं च सर्वेषामगमद्गृहम् ||
३८ ख
मन्त्रिणः ऊचुः:
स गत्वाहवनीय़ेऽग्नौ तीव्रं निय़ममास्थितः |
३९ क
मन्त्रिणः ऊचुः:
जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ||
३९ ख
मन्त्रिणः ऊचुः:
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभय़ङ्करी |
४० क
मन्त्रिणः ऊचुः:
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ||
४० ख
मन्त्रिणः ऊचुः:
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता |
४१ क
मन्त्रिणः ऊचुः:
वृषादर्भिं नरपतिं किं करोमीति चाव्रवीत् ||
४१ ख
वृषादर्भिरु उवाच:
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च |
४२ क
वृषादर्भिरु उवाच:
दासीभर्तुश्च दास्याश्च मनसा नाम धारय़ ||
४२ ख
वृषादर्भिरु उवाच:
ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय़ |
४३ क
वृषादर्भिरु उवाच:
विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ||
४३ ख
वृषादर्भिरु उवाच:
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी |
४४ क
वृषादर्भिरु उवाच:
जगाम तद्वनं यत्र विचेरुस्ते महर्षय़ः ||
४४ ख