chevron_left आश्वमेधिक पर्व अध्याय ९४
जनमेजय़ उवाच:
यज्ञे सक्ता नृपतय़स्तपःसक्ता महर्षय़ः |
१ क
जनमेजय़ उवाच:
शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ||
१ ख
जनमेजय़ उवाच:
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते |
२ क
जनमेजय़ उवाच:
इति मे वर्तते वुद्धिस्तथा चैतदसंशय़म् ||
२ ख
जनमेजय़ उवाच:
यज्ञैरिष्ट्वा हि वहवो राजानो द्विजसत्तम |
३ क
जनमेजय़ उवाच:
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ||
३ ख
जनमेजय़ उवाच:
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः |
४ क
जनमेजय़ उवाच:
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ||
४ ख
जनमेजय़ उवाच:
यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः |
५ क
जनमेजय़ उवाच:
सदृशो देवराजेन समृद्ध्या विक्रमेण च ||
५ ख
जनमेजय़ उवाच:
अथ कस्मात्स नकुलो गर्हय़ामास तं क्रतुम् |
६ क
जनमेजय़ उवाच:
अश्वमेधं महाय़ज्ञं राज्ञस्तस्य महात्मनः ||
६ ख
वैशम्पाय़न उवाच:
यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ |
७ क
वैशम्पाय़न उवाच:
गदतः शृणु मे राजन्यथावदिह भारत ||
७ ख
वैशम्पाय़न उवाच:
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षय़ः |
८ क
वैशम्पाय़न उवाच:
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ||
८ ख
वैशम्पाय़न उवाच:
हूय़माने तथा वह्नौ होत्रे वहुगुणान्विते |
९ क
वैशम्पाय़न उवाच:
देवेष्वाहूय़मानेषु स्थितेषु परमर्षिषु ||
९ ख
वैशम्पाय़न उवाच:
सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप |
१० क
वैशम्पाय़न उवाच:
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ||
१० ख
वैशम्पाय़न उवाच:
आलम्भसमय़े तस्मिन्गृहीतेषु पशुष्वथ |
११ क
वैशम्पाय़न उवाच:
महर्षय़ो महाराज सम्वभूवुः कृपान्विताः ||
११ ख
वैशम्पाय़न उवाच:
ततो दीनान्पशून्दृष्ट्वा ऋषय़स्ते तपोधनाः |
१२ क
वैशम्पाय़न उवाच:
ऊचुः शक्रं समागम्य नाय़ं यज्ञविधिः शुभः ||
१२ ख
वैशम्पाय़न उवाच:
अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः |
१३ क
वैशम्पाय़न उवाच:
न हि यज्ञे पशुगणा विधिदृष्टाः पुरन्दर ||
१३ ख
वैशम्पाय़न उवाच:
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो |
१४ क
वैशम्पाय़न उवाच:
नाय़ं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ||
१४ ख
वैशम्पाय़न उवाच:
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि |
१५ क
वैशम्पाय़न उवाच:
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ||
१५ ख
वैशम्पाय़न उवाच:
यज वीजैः सहस्राक्ष त्रिवर्षपरमोषितैः |
१६ क
वैशम्पाय़न उवाच:
एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते ||
१६ ख
वैशम्पाय़न उवाच:
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः |
१७ क
वैशम्पाय़न उवाच:
उक्तं न प्रतिजग्राह मानमोहवशानुगः ||
१७ ख
वैशम्पाय़न उवाच:
तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् |
१८ क
वैशम्पाय़न उवाच:
जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ||
१८ ख
वैशम्पाय़न उवाच:
ते तु खिन्ना विवादेन ऋषय़स्तत्त्वदर्शिनः |
१९ क
वैशम्पाय़न उवाच:
ततः सन्धाय़ शक्रेण पप्रच्छुर्नृपतिं वसुम् ||
१९ ख
वैशम्पाय़न उवाच:
महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः |
२० क
वैशम्पाय़न उवाच:
यष्टव्यं पशुभिर्मेध्यैरथो वीजैरजैरपि ||
२० ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा तु वचस्तेषामविचार्य वलावलम् |
२१ क
वैशम्पाय़न उवाच:
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ||
२१ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् |
२२ क
वैशम्पाय़न उवाच:
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ||
२२ ख
वैशम्पाय़न उवाच:
अन्याय़ोपगतं द्रव्यमतीतं यो ह्यपण्डितः |
२३ क
वैशम्पाय़न उवाच:
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ||
२३ ख
वैशम्पाय़न उवाच:
धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा |
२४ क
वैशम्पाय़न उवाच:
ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ||
२४ ख
वैशम्पाय़न उवाच:
पापेन कर्मणा विप्रो धनं लव्ध्वा निरङ्कुशः |
२५ क
वैशम्पाय़न उवाच:
रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ||
२५ ख
वैशम्पाय़न उवाच:
तेन दत्तानि दानानि पापेन हतवुद्धिना |
२६ क
वैशम्पाय़न उवाच:
तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ||
२६ ख
वैशम्पाय़न उवाच:
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः |
२७ क
वैशम्पाय़न उवाच:
दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ||
२७ ख
वैशम्पाय़न उवाच:
अपि सञ्चय़वुद्धिर्हि लोभमोहवशङ्गतः |
२८ क
वैशम्पाय़न उवाच:
उद्वेजय़ति भूतानि हिंसय़ा पापचेतनः ||
२८ ख
वैशम्पाय़न उवाच:
एवं लव्ध्वा धनं लोभाद्यजते यो ददाति च |
२९ क
वैशम्पाय़न उवाच:
स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ||
२९ ख
वैशम्पाय़न उवाच:
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः |
३० क
वैशम्पाय़न उवाच:
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ||
३० ख
वैशम्पाय़न उवाच:
एष धर्मो महांस्त्यागो दानं भूतदय़ा तथा |
३१ क
वैशम्पाय़न उवाच:
व्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा |
३१ ख
वैशम्पाय़न उवाच:
सनातनस्य धर्मस्य मूलमेतत्सनातनम् ||
३१ ग
वैशम्पाय़न उवाच:
श्रूय़न्ते हि पुरा विप्रा विश्वामित्रादय़ो नृपाः |
३२ क
वैशम्पाय़न उवाच:
विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः |
३२ ख
वैशम्पाय़न उवाच:
कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ||
३२ ग
वैशम्पाय़न उवाच:
एते चान्ये च वहवः सिद्धिं परमिकां गताः |
३३ क
वैशम्पाय़न उवाच:
नृपाः सत्यैश्च दानैश्च न्याय़लव्धैस्तपोधनाः ||
३३ ख
वैशम्पाय़न उवाच:
व्राह्मणाः क्षत्रिय़ा वैश्याः शूद्रा ये चाश्रितास्तपः |
३४ क
वैशम्पाय़न उवाच:
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ||
३४ ख