वैशम्पाय़न उवाच:
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना |
१ क
वैशम्पाय़न उवाच:
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ||
१ ख
वैशम्पाय़न उवाच:
कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् |
२ क
वैशम्पाय़न उवाच:
इति सर्वे मनोभिस्ते चिन्तय़न्ति स्म पार्थिवाः ||
२ ख
वैशम्पाय़न उवाच:
तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु |
३ क
वैशम्पाय़न उवाच:
जामदग्न्य इदं वाक्यमव्रवीत्कुरुसंसदि ||
३ ख
वैशम्पाय़न उवाच:
इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः |
४ क
वैशम्पाय़न उवाच:
तां श्रुत्वा श्रेय़ आदत्स्व यदि साध्विति मन्यसे ||
४ ख
वैशम्पाय़न उवाच:
राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत् |
५ क
वैशम्पाय़न उवाच:
अखिलां वुभुजे सर्वां पृथिवीमिति नः श्रुतम् ||
५ ख
वैशम्पाय़न उवाच:
स स्म नित्यं निशापाय़े प्रातरुत्थाय़ वीर्यवान् |
६ क
वैशम्पाय़न उवाच:
व्राह्मणान्क्षत्रिय़ांश्चैव पृच्छन्नास्ते महारथः ||
६ ख
वैशम्पाय़न उवाच:
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि |
७ क
वैशम्पाय़न उवाच:
शूद्रो वैश्यः क्षत्रिय़ो वा व्राह्मणो वापि शस्त्रभृत् ||
७ ख
वैशम्पाय़न उवाच:
इति व्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् |
८ क
वैशम्पाय़न उवाच:
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तय़न् ||
८ ख
वैशम्पाय़न उवाच:
तं स्म वैद्या अकृपणा व्राह्मणाः सर्वतोऽभय़ाः |
९ क
वैशम्पाय़न उवाच:
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ||
९ ख
वैशम्पाय़न उवाच:
प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् |
१० क
वैशम्पाय़न उवाच:
अभिमानी श्रिय़ा मत्तस्तमूचुर्व्राह्मणास्तदा ||
१० ख
वैशम्पाय़न उवाच:
तपस्विनो महात्मानो वेदव्रतसमन्विताः |
११ क
वैशम्पाय़न उवाच:
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातय़ः ||
११ ख
वैशम्पाय़न उवाच:
अनेकजननं सख्यं यय़ोः पुरुषसिंहय़ोः |
१२ क
वैशम्पाय़न उवाच:
तय़ोस्त्वं न समो राजन्भवितासि कदाचन ||
१२ ख
वैशम्पाय़न उवाच:
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् |
१३ क
वैशम्पाय़न उवाच:
क्व तौ वीरौ क्वजन्मानौ किङ्कर्माणौ च कौ च तौ ||
१३ ख
व्राह्मणा ऊचुः:
नरो नाराय़णश्चैव तापसाविति नः श्रुतम् |
१४ क
व्राह्मणा ऊचुः:
आय़ातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ||
१४ ख
व्राह्मणा ऊचुः:
श्रूय़ते तौ महात्मानौ नरनाराय़णावुभौ |
१५ क
व्राह्मणा ऊचुः:
तपो घोरमनिर्देश्यं तप्येते गन्धमादने ||
१५ ख
राम उवाच:
स राजा महतीं सेनां योजय़ित्वा षडङ्गिनीम् |
१६ क
राम उवाच:
अमृष्यमाणः सम्प्राय़ाद्यत्र तावपराजितौ ||
१६ ख
राम उवाच:
स गत्वा विषमं घोरं पर्वतं गन्धमादनम् |
१७ क
राम उवाच:
मृगय़ाणोऽन्वगच्छत्तौ तापसावपराजितौ ||
१७ ख
राम उवाच:
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ |
१८ क
राम उवाच:
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ |
१८ ख
राम उवाच:
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामय़म् ||
१८ ग
राम उवाच:
तमर्चित्वा मूलफलैरासनेनोदकेन च |
१९ क
राम उवाच:
न्यमन्त्रय़ेतां राजानं किं कार्यं क्रिय़तामिति ||
१९ ख
दम्भोद्भव उवाच:
वाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः |
२० क
दम्भोद्भव उवाच:
भवद्भ्यां युद्धमाकाङ्क्षन्नुपय़ातोऽस्मि पर्वतम् |
२० ख
दम्भोद्भव उवाच:
आतिथ्यं दीय़तामेतत्काङ्क्षितं मे चिरं प्रति ||
२० ग
नरनाराय़णावू ऊचतुः:
अपेतक्रोधलोभोऽय़माश्रमो राजसत्तम |
२१ क
नरनाराय़णावू ऊचतुः:
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः |
२१ ख
नरनाराय़णावू ऊचतुः:
अन्यत्र युद्धमाकाङ्क्ष्व वहवः क्षत्रिय़ाः क्षितौ ||
२१ ग
राम उवाच:
उच्यमानस्तथापि स्म भूय़ एवाभ्यभाषत |
२२ क
राम उवाच:
पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत |
२२ ख
राम उवाच:
दम्भोद्भवो युद्धमिच्छन्नाह्वय़त्येव तापसौ ||
२२ ग
राम उवाच:
ततो नरस्त्विषीकाणां मुष्टिमादाय़ कौरव |
२३ क
राम उवाच:
अव्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय़ ||
२३ ख
राम उवाच:
सर्वशस्त्राणि चादत्स्व योजय़स्व च वाहिनीम् |
२४ क
राम उवाच:
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ||
२४ ख
दम्भोद्भव उवाच:
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे |
२५ क
दम्भोद्भव उवाच:
एतेनापि त्वय़ा योत्स्ये युद्धार्थी ह्यहमागतः ||
२५ ख
राम उवाच:
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् |
२६ क
राम उवाच:
दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ||
२६ ख
राम उवाच:
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः |
२७ क
राम उवाच:
कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् ||
२७ ख
राम उवाच:
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः |
२८ क
राम उवाच:
अस्त्रमप्रतिसन्धेय़ं तदद्भुतमिवाभवत् ||
२८ ख
राम उवाच:
तेषामक्षीणि कर्णांश्च नस्तकांश्चैव माय़या |
२९ क
राम उवाच:
निमित्तवेधी स मुनिरिषीकाभिः समर्पय़त् ||
२९ ख
राम उवाच:
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् |
३० क
राम उवाच:
पादय़ोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाव्रवीत् ||
३० ख
राम उवाच:
तमव्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् |
३१ क
राम उवाच:
व्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ||
३१ ख
राम उवाच:
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन |
३२ क
राम उवाच:
अल्पीय़ांसं विशिष्टं वा तत्ते राजन्परं हितम् ||
३२ ख
राम उवाच:
कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् |
३३ क
राम उवाच:
दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय़ पार्थिव ||
३३ ख
राम उवाच:
अनुज्ञातः स्वस्ति गच्छ मैवं भूय़ः समाचरेः |
३४ क
राम उवाच:
कुशलं व्राह्मणान्पृच्छेरावय़ोर्वचनाद्भृशम् ||
३४ ख
राम उवाच:
ततो राजा तय़ोः पादावभिवाद्य महात्मनोः |
३५ क
राम उवाच:
प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् ||
३५ ख
राम उवाच:
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा |
३६ क
राम उवाच:
ततो गुणैः सुवहुभिः श्रेष्ठो नाराय़णोऽभवत् ||
३६ ख
राम उवाच:
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते |
३७ क
राम उवाच:
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जय़म् ||
३७ ख
राम उवाच:
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा |
३८ क
राम उवाच:
सन्तानं नर्तनं घोरमास्यमोदकमष्टमम् ||
३८ ख
राम उवाच:
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः |
३९ क
राम उवाच:
उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः ||
३९ ख
राम उवाच:
स्वपन्ते च प्लवन्ते च छर्दय़न्ति च मानवाः |
४० क
राम उवाच:
मूत्रय़न्ते च सततं रुदन्ति च हसन्ति च ||
४० ख
राम उवाच:
असङ्ख्येय़ा गुणाः पार्थे तद्विशिष्टो जनार्दनः |
४१ क
राम उवाच:
त्वमेव भूय़ो जानासि कुन्तीपुत्रं धनञ्जय़म् ||
४१ ख
राम उवाच:
नरनाराय़णौ यौ तौ तावेवार्जुनकेशवौ |
४२ क
राम उवाच:
विजानीहि महाराज प्रवीरौ पुरुषर्षभौ ||
४२ ख
राम उवाच:
यद्येतदेवं जानासि न च मामतिशङ्कसे |
४३ क
राम उवाच:
आर्यां मतिं समास्थाय़ शाम्य भारत पाण्डवैः ||
४३ ख
राम उवाच:
अथ चेन्मन्यसे श्रेय़ो न मे भेदो भवेदिति |
४४ क
राम उवाच:
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ||
४४ ख
राम उवाच:
भवतां च कुरुश्रेष्ठ कुलं वहुमतं भुवि |
४५ क
राम उवाच:
तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय़ ||
४५ ख