सञ्जय़ उवाच:
वाक्षल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः |
१ क
सञ्जय़ उवाच:
दुःखेन महताविष्टो नोवाचाप्रिय़मण्वपि ||
१ ख
सञ्जय़ उवाच:
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः |
२ क
सञ्जय़ उवाच:
श्वसमानो यथा नागः प्रणुन्नो वै शलाकय़ा ||
२ ख
सञ्जय़ उवाच:
उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत |
३ क
सञ्जय़ उवाच:
सदेवासुरगन्धर्वं लोकं लोकविदां वरः |
३ ख
सञ्जय़ उवाच:
अव्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः ||
३ ग
सञ्जय़ उवाच:
किं नु दुर्योधनैवं मां वाक्षल्यैरुपविध्यसि |
४ क
सञ्जय़ उवाच:
घटमानं यथाशक्ति कुर्वाणं च तव प्रिय़म् |
४ ख
सञ्जय़ उवाच:
जुह्वानं समरे प्राणांस्तवैव हितकाम्यया ||
४ ग
सञ्जय़ उवाच:
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पय़त् |
५ क
सञ्जय़ उवाच:
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ||
५ ख
सञ्जय़ उवाच:
यदा च त्वां महावाहो गन्धर्वैर्हृतमोजसा |
६ क
सञ्जय़ उवाच:
अमोचय़त्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ||
६ ख
सञ्जय़ उवाच:
द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो |
७ क
सञ्जय़ उवाच:
सूतपुत्रे च राधेय़े पर्याप्तं तन्निदर्शनम् ||
७ ख
सञ्जय़ उवाच:
यच्च नः सहितान्सर्वान्विराटनगरे तदा |
८ क
सञ्जय़ उवाच:
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् ||
८ ख
सञ्जय़ उवाच:
द्रोणं च युधि संरव्धं मां च निर्जित्य संय़ुगे |
९ क
सञ्जय़ उवाच:
कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् |
९ ख
सञ्जय़ उवाच:
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ||
९ ग
सञ्जय़ उवाच:
निवातकवचान्युद्धे वासवेनापि दुर्जय़ान् |
१० क
सञ्जय़ उवाच:
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ||
१० ख
सञ्जय़ उवाच:
को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे |
११ क
सञ्जय़ उवाच:
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुय़ोधन ||
११ ख
सञ्जय़ उवाच:
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् |
१२ क
सञ्जय़ उवाच:
तथा त्वमपि गान्धारे विपरीतानि पश्यसि ||
१२ ख
सञ्जय़ उवाच:
स्वय़ं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जय़ैः |
१३ क
सञ्जय़ उवाच:
युध्यस्व तानद्य रणे पश्यामः पुरुषो भव ||
१३ ख
सञ्जय़ उवाच:
अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् |
१४ क
सञ्जय़ उवाच:
निहनिष्ये नरव्याघ्र वर्जय़ित्वा शिखण्डिनम् ||
१४ ख
सञ्जय़ उवाच:
तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम् |
१५ क
सञ्जय़ उवाच:
तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव ||
१५ ख
सञ्जय़ उवाच:
पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि |
१६ क
सञ्जय़ उवाच:
वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी ||
१६ ख
सञ्जय़ उवाच:
तामहं न हनिष्यामि प्राणत्यागेऽपि भारत |
१७ क
सञ्जय़ उवाच:
यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ||
१७ ख
सञ्जय़ उवाच:
सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् |
१८ क
सञ्जय़ उवाच:
यज्जनाः कथय़िष्यन्ति यावत्स्थास्यति मेदिनी ||
१८ ख
सञ्जय़ उवाच:
एवमुक्तस्तव सुतो निर्जगाम जनेश्वर |
१९ क
सञ्जय़ उवाच:
अभिवाद्य गुरुं मूर्ध्ना प्रय़यौ स्वं निवेशनम् ||
१९ ख
सञ्जय़ उवाच:
आगम्य तु ततो राजा विसृज्य च महाजनम् |
२० क
सञ्जय़ उवाच:
प्रविवेश ततस्तूर्णं क्षय़ं शत्रुक्षय़ङ्करः |
२० ख
सञ्जय़ उवाच:
प्रविष्टः स निशां तां च गमय़ामास पार्थिवः ||
२० ग