chevron_left द्रोण पर्व अध्याय ९४
सञ्जय़ उवाच:
द्रोणं स जित्वा पुरुषप्रवीर; स्तथैव हार्दिक्यमुखांस्त्वदीय़ान् |
१ क
सञ्जय़ उवाच:
प्रहस्य सूतं वचनं वभाषे; शिनिप्रवीरः कुरुपुङ्गवाग्र्य ||
१ ख
सञ्जय़ उवाच:
निमित्तमात्रं वय़मत्र सूत; दग्धारय़ः केशवफल्गुनाभ्याम् |
२ क
सञ्जय़ उवाच:
हतान्निहन्मेह नरर्षभेण; वय़ं सुरेशात्मसमुद्भवेन ||
२ ख
सञ्जय़ उवाच:
तमेवमुक्त्वा शिनिपुङ्गवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा |
३ क
सञ्जय़ उवाच:
किरन्समन्तात्सहसा शरान्वली; समापतच्छ्येन इवामिषं यथा ||
३ ख
सञ्जय़ उवाच:
तं यान्तमश्वैः शशिशङ्खवर्णै; र्विगाह्य सैन्यं पुरुषप्रवीरम् |
४ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं समन्ता; दादित्यरश्मिप्रतिमं नराग्र्यम् ||
४ ख
सञ्जय़ उवाच:
असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम् |
५ क
सञ्जय़ उवाच:
सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाय़े ||
५ ख
सञ्जय़ उवाच:
अमर्षपूर्णस्त्वतिचित्रय़ोधी; शरासनी काञ्चनवर्मधारी |
६ क
सञ्जय़ उवाच:
सुदर्शनः सात्यकिमापतन्तं; न्यवारय़द्राजवरः प्रसह्य ||
६ ख
सञ्जय़ उवाच:
तय़ोरभूद्भरत सम्प्रहारः; सुदारुणस्तं समभिप्रशंसन् |
७ क
सञ्जय़ उवाच:
योधास्त्वदीय़ाश्च हि सोमकाश्च; वृत्रेन्द्रय़ोर्युद्धमिवामरौघाः ||
७ ख
सञ्जय़ उवाच:
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य; त्सुदर्शनः सात्वतमुख्यमाजौ |
८ क
सञ्जय़ उवाच:
अनागतानेव तु तान्पृषत्कां; श्चिच्छेद वाणैः शिनिपुङ्गवोऽपि ||
८ ख
सञ्जय़ उवाच:
तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म साय़कान् |
९ क
सञ्जय़ उवाच:
द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः ||
९ ख
सञ्जय़ उवाच:
सम्प्रेक्ष्य वाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिवाणवेगैः |
१० क
सञ्जय़ उवाच:
क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीय़चित्रान् ||
१० ख
सञ्जय़ उवाच:
पुनः स वाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः |
११ क
सञ्जय़ उवाच:
विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम् ||
११ ख
सञ्जय़ उवाच:
तथैव तस्यावनिपालपुत्रः; सन्धाय़ वाणैरपरैर्ज्वलद्भिः |
१२ क
सञ्जय़ उवाच:
आजघ्निवांस्तान्रजतप्रकाशां; श्चतुर्भिरश्वांश्चतुरः प्रसह्य ||
१२ ख
सञ्जय़ उवाच:
तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः |
१३ क
सञ्जय़ उवाच:
सुदर्शनस्येषुगणैः सुतीक्ष्णै; र्हय़ान्निहत्याशु ननाद नादम् ||
१३ ख
सञ्जय़ उवाच:
अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन |
१४ क
सञ्जय़ उवाच:
सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य ||
१४ ख
सञ्जय़ उवाच:
सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् |
१५ क
सञ्जय़ उवाच:
यथा पुरा वज्रधरः प्रसह्य; वलस्य सङ्ख्येऽतिवलस्य राजन् ||
१५ ख
सञ्जय़ उवाच:
निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी |
१६ क
सञ्जय़ उवाच:
मुदा समेतः परय़ा महात्मा; रराज राजन्सुरराजकल्पः ||
१६ ख
सञ्जय़ उवाच:
ततो यय़ावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः |
१७ क
सञ्जय़ उवाच:
सदश्वय़ुक्तेन रथेन निर्या; ल्लोकान्विसिस्मापय़िषुर्नृवीरः ||
१७ ख
सञ्जय़ उवाच:
तत्तस्य विस्मापय़नीय़मग्र्य; मपूजय़न्योधवराः समेताः |
१८ क
सञ्जय़ उवाच:
यद्वर्तमानानिषुगोचरेऽरी; न्ददाह वाणैर्हुतभुग्यथैव ||
१८ ख