chevron_left भीष्म पर्व अध्याय ९५
सञ्जय़ उवाच:
प्रभाताय़ां तु शर्वर्यां प्रातरुत्थाय़ वै नृपः |
१ क
सञ्जय़ उवाच:
राज्ञः समाज्ञापय़त सेनां योजय़तेति ह |
१ ख
सञ्जय़ उवाच:
अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ||
१ ग
सञ्जय़ उवाच:
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं वहु |
२ क
सञ्जय़ उवाच:
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ||
२ ख
सञ्जय़ उवाच:
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् |
३ क
सञ्जय़ उवाच:
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ||
३ ख
सञ्जय़ उवाच:
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेय़ेन विचिन्तितम् |
४ क
सञ्जय़ उवाच:
दुर्योधनो महाराज दुःशासनमचोदय़त् ||
४ ख
सञ्जय़ उवाच:
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः |
५ क
सञ्जय़ उवाच:
द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय़ ||
५ ख
सञ्जय़ उवाच:
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् |
६ क
सञ्जय़ उवाच:
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ||
६ ख
सञ्जय़ उवाच:
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् |
७ क
सञ्जय़ उवाच:
स नो गुप्तः सुखाय़ स्याद्धन्यात्पार्थांश्च संय़ुगे ||
७ ख
सञ्जय़ उवाच:
अव्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् |
८ क
सञ्जय़ उवाच:
स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मय़ा ||
८ ख
सञ्जय़ उवाच:
लोकस्तद्वेद यदहं पितुः प्रिय़चिकीर्षय़ा |
९ क
सञ्जय़ उवाच:
राज्यं स्फीतं महावाहो स्त्रिय़श्च त्यक्तवान्पुरा ||
९ ख
सञ्जय़ उवाच:
नैव चाहं स्त्रिय़ं जातु न स्त्रीपूर्वं कथञ्चन |
१० क
सञ्जय़ उवाच:
हन्यां युधि नरश्रेष्ठ सत्यमेतद्व्रवीमि ते ||
१० ख
सञ्जय़ उवाच:
अय़ं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः |
११ क
सञ्जय़ उवाच:
उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ||
११ ख
सञ्जय़ उवाच:
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत |
१२ क
सञ्जय़ उवाच:
तस्याहं प्रमुखे वाणान्न मुञ्चेय़ं कथञ्चन ||
१२ ख
सञ्जय़ उवाच:
युद्धे तु क्षत्रिय़ांस्तात पाण्डवानां जय़ैषिणः |
१३ क
सञ्जय़ उवाच:
सर्वानन्यान्हनिष्यामि सम्प्राप्तान्वाणगोचरान् ||
१३ ख
सञ्जय़ उवाच:
एवं मां भरतश्रेष्ठो गाङ्गेय़ः प्राह शास्त्रवित् |
१४ क
सञ्जय़ उवाच:
तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ||
१४ ख
सञ्जय़ उवाच:
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने |
१५ क
सञ्जय़ उवाच:
मा वृकेणेव शार्दूलं घातय़ेम शिखण्डिना ||
१५ ख
सञ्जय़ उवाच:
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः |
१६ क
सञ्जय़ उवाच:
यत्ता रक्षन्तु गाङ्गेय़ं तस्मिन्गुप्ते ध्रुवो जय़ः ||
१६ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा |
१७ क
सञ्जय़ उवाच:
सर्वतो रथवंशेन गाङ्गेय़ं पर्यवारय़न् ||
१७ ख
सञ्जय़ उवाच:
पुत्राश्च तव गाङ्गेय़ं परिवार्य यय़ुर्मुदा |
१८ क
सञ्जय़ उवाच:
कम्पय़न्तो भुवं द्यां च क्षोभय़न्तश्च पाण्डवान् ||
१८ ख
सञ्जय़ उवाच:
तै रथैश्च सुसंय़ुक्तैर्दन्तिभिश्च महारथाः |
१९ क
सञ्जय़ उवाच:
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ||
१९ ख
सञ्जय़ उवाच:
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् |
२० क
सञ्जय़ उवाच:
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ||
२० ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा पुनर्भ्रातरमव्रवीत् |
२१ क
सञ्जय़ उवाच:
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् |
२१ ख
सञ्जय़ उवाच:
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ||
२१ ग
सञ्जय़ उवाच:
स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः |
२२ क
सञ्जय़ उवाच:
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ||
२२ ख
सञ्जय़ उवाच:
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव |
२३ क
सञ्जय़ उवाच:
भीष्मं प्रमुखतः कृत्वा प्रय़यौ सेनय़ा सह ||
२३ ख
सञ्जय़ उवाच:
भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् |
२४ क
सञ्जय़ उवाच:
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ||
२४ ख
सञ्जय़ उवाच:
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ |
२५ क
सञ्जय़ उवाच:
स्थापय़स्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ||
२५ ख
सञ्जय़ उवाच:
ततः शान्तनवो भीष्मो निर्ययौ सेनय़ा सह |
२६ क
सञ्जय़ उवाच:
व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ||
२६ ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च शैव्यश्चैव महारथः |
२७ क
सञ्जय़ उवाच:
शकुनिः सैन्धवश्चैव काम्वोजश्च सुदक्षिणः ||
२७ ख
सञ्जय़ उवाच:
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत |
२८ क
सञ्जय़ उवाच:
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ||
२८ ख
सञ्जय़ उवाच:
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष |
२९ क
सञ्जय़ उवाच:
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ||
२९ ख
सञ्जय़ उवाच:
अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ |
३० क
सञ्जय़ उवाच:
महत्या सेनय़ा युक्ता वामं पक्षमपालय़न् ||
३० ख
सञ्जय़ उवाच:
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः |
३१ क
सञ्जय़ उवाच:
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ||
३१ ख
सञ्जय़ उवाच:
अलम्वुसो रथश्रेष्ठः श्रुताय़ुश्च महारथः |
३२ क
सञ्जय़ उवाच:
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ||
३२ ख
सञ्जय़ उवाच:
एवमेते तदा व्यूहं कृत्वा भारत तावकाः |
३३ क
सञ्जय़ उवाच:
संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नय़ः ||
३३ ख
सञ्जय़ उवाच:
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः |
३४ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि |
३४ ख
सञ्जय़ उवाच:
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ||
३४ ग
सञ्जय़ उवाच:
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः |
३५ क
सञ्जय़ उवाच:
स्थिताः सैन्येन महता परानीकविनाशनाः ||
३५ ख
सञ्जय़ उवाच:
शिखण्डी विजय़श्चैव राक्षसश्च घटोत्कचः |
३६ क
सञ्जय़ उवाच:
चेकितानो महावाहुः कुन्तिभोजश्च वीर्यवान् |
३६ ख
सञ्जय़ उवाच:
स्थिता रणे महाराज महत्या सेनय़ा वृताः ||
३६ ग
सञ्जय़ उवाच:
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः |
३७ क
सञ्जय़ उवाच:
केकय़ा भ्रातरः पञ्च स्थिता युद्धाय़ दंशिताः ||
३७ ख
सञ्जय़ उवाच:
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जय़म् |
३८ क
सञ्जय़ उवाच:
पाण्डवाः समरे शूराः स्थिता युद्धाय़ मारिष ||
३८ ख
सञ्जय़ उवाच:
तावकास्तु रणे यत्ताः सहसेना नराधिपाः |
३९ क
सञ्जय़ उवाच:
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ||
३९ ख
सञ्जय़ उवाच:
तथैव पाण्डवा राजन्भीमसेनपुरोगमाः |
४० क
सञ्जय़ उवाच:
भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः ||
४० ख
सञ्जय़ उवाच:
क्ष्वेडाः किलिकिलाशव्दान्क्रकचान्गोविषाणिकाः |
४१ क
सञ्जय़ उवाच:
भेरीमृदङ्गपणवान्नादय़न्तश्च पुष्करान् |
४१ ख
सञ्जय़ उवाच:
पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ||
४१ ग
सञ्जय़ उवाच:
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः |
४२ क
सञ्जय़ उवाच:
उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ||
४२ ख
सञ्जय़ उवाच:
वय़ं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः |
४३ क
सञ्जय़ उवाच:
सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् ||
४३ ख
सञ्जय़ उवाच:
ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे |
४४ क
सञ्जय़ उवाच:
ततः शव्देन महता प्रचकम्पे वसुन्धरा ||
४४ ख
सञ्जय़ उवाच:
पक्षिणश्च महाघोरं व्याहरन्तो विवभ्रमुः |
४५ क
सञ्जय़ उवाच:
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ||
४५ ख
सञ्जय़ उवाच:
ववुश्च तुमुला वाताः शंसन्तः सुमहद्भय़म् |
४६ क
सञ्जय़ उवाच:
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे |
४६ ख
सञ्जय़ उवाच:
वेदय़न्त्यो महाराज महद्वैशसमागतम् ||
४६ ग
सञ्जय़ उवाच:
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च |
४७ क
सञ्जय़ उवाच:
रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ||
४७ ख