भीष्म उवाच:
श्रमेण महता युक्तास्ते विसानि कलापशः |
५१ क
भीष्म उवाच:
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ||
५१ ख
भीष्म उवाच:
अथोत्थाय़ जलात्तस्मात्सर्वे ते वै समागमन् |
५२ क
भीष्म उवाच:
नापश्यंश्चापि ते तानि विसानि पुरुषर्षभ ||
५२ ख
ऋषय़ ऊचुः:
केन क्षुधाभिभूतानामस्माकं पापकर्मणा |
५३ क
ऋषय़ ऊचुः:
नृशंसेनापनीतानि विसान्याहारकाङ्क्षिणाम् ||
५३ ख
ऋषय़ ऊचुः:
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः |
५४ क
ऋषय़ ऊचुः:
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ||
५४ ख
ऋषय़ ऊचुः:
त उक्त्वा वाढमित्येव सर्व एव शुनःसखम् |
५५ क
ऋषय़ ऊचुः:
क्षुधार्ताः सुपरिश्रान्ताः शपथाय़ोपचक्रमुः ||
५५ ख
अत्रिरु उवाच:
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु |
५६ क
अत्रिरु उवाच:
अनध्याय़ेष्वधीय़ीत विसस्तैन्यं करोति यः ||
५६ ख
वसिष्ठ उवाच:
अनध्याय़परो लोके शुनः स परिकर्षतु |
५७ क
वसिष्ठ उवाच:
परिव्राट्कामवृत्तोऽस्तु विसस्तैन्यं करोति यः ||
५७ ख
वसिष्ठ उवाच:
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु |
५८ क
वसिष्ठ उवाच:
अर्थान्काङ्क्षतु कीनाशाद्विसस्तैन्यं करोति यः ||
५८ ख
कश्यप उवाच:
सर्वत्र सर्वं पणतु न्यासलोपं करोतु च |
५९ क
कश्यप उवाच:
कूटसाक्षित्वमभ्येतु विसस्तैन्यं करोति यः ||
५९ ख
कश्यप उवाच:
वृथामांसं समश्नातु वृथादानं करोतु च |
६० क
कश्यप उवाच:
यातु स्त्रिय़ं दिवा चैव विसस्तैन्यं करोति यः ||
६० ख
भरद्वाज उवाच:
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च |
६१ क
भरद्वाज उवाच:
व्राह्मणं चापि जय़तां विसस्तैन्यं करोति यः ||
६१ ख
भरद्वाज उवाच:
उपाध्याय़मधः कृत्वा ऋचोऽध्येतु यजूंषि च |
६२ क
भरद्वाज उवाच:
जुहोतु च स कक्षाग्नौ विसस्तैन्यं करोति यः ||
६२ ख
जमदग्निरु उवाच:
पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् |
६३ क
जमदग्निरु उवाच:
अनृतौ मैथुनं यातु विसस्तैन्यं करोति यः ||
६३ ख
जमदग्निरु उवाच:
द्वेष्यो भार्योपजीवी स्याद्दूरवन्धुश्च वैरवान् |
६४ क
जमदग्निरु उवाच:
अन्योन्यस्यातिथिश्चास्तु विसस्तैन्यं करोति यः ||
६४ ख
गौतम उवाच:
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु |
६५ क
गौतम उवाच:
विक्रीणातु तथा सोमं विसस्तैन्यं करोति यः ||
६५ ख
गौतम उवाच:
उदपानप्लवे ग्रामे व्राह्मणो वृषलीपतिः |
६६ क
गौतम उवाच:
तस्य सालोक्यतां यातु विसस्तैन्यं करोति यः ||
६६ ख
विश्वामित्र उवाच:
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः |
६७ क
विश्वामित्र उवाच:
अगतिर्वहुपुत्रः स्याद्विसस्तैन्यं करोति यः ||
६७ ख
विश्वामित्र उवाच:
अशुचिर्व्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहङ्कृतः |
६८ क
विश्वामित्र उवाच:
कर्षको मत्सरी चास्तु विसस्तैन्यं करोति यः ||
६८ ख
विश्वामित्र उवाच:
वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः |
६९ क
विश्वामित्र उवाच:
अय़ाज्यस्य भवेदृत्विग्विसस्तैन्यं करोति यः ||
६९ ख
अरुन्धत्यु उवाच:
नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः |
७० क
अरुन्धत्यु उवाच:
एका स्वादु समश्नातु विसस्तैन्यं करोति या ||
७० ख
अरुन्धत्यु उवाच:
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षय़े |
७१ क
अरुन्धत्यु उवाच:
अभाग्यावीरसूरस्तु विसस्तैन्यं करोति या ||
७१ ख
गण्डो उवाच:
अनृतं भाषतु सदा साधुभिश्च विरुध्यतु |
७२ क
गण्डो उवाच:
ददातु कन्यां शुल्केन विसस्तैन्यं करोति या ||
७२ ख
गण्डो उवाच:
साधय़ित्वा स्वय़ं प्राशेद्दास्ये जीवतु चैव ह |
७३ क
गण्डो उवाच:
विकर्मणा प्रमीय़ेत विसस्तैन्यं करोति या ||
७३ ख
पशुसख उवाच:
दास्य एव प्रजाय़ेत सोऽप्रसूतिरकिञ्चनः |
७४ क
पशुसख उवाच:
दैवतेष्वनमस्कारो विसस्तैन्यं करोति यः ||
७४ ख
शुनःसख उवाच:
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितव्रह्मचर्ये |
७५ क
शुनःसख उवाच:
आथर्वणं वेदमधीत्य विप्रः; स्नाय़ीत यो वै हरते विसानि ||
७५ ख
ऋषय़ ऊचुः:
इष्टमेतद्द्विजातीनां योऽय़ं ते शपथः कृतः |
७६ क
ऋषय़ ऊचुः:
त्वय़ा कृतं विसस्तैन्यं सर्वेषां नः शुनःसख ||
७६ ख
शुनःसख उवाच:
न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः |
७७ क
शुनःसख उवाच:
सत्यमेतन्न मिथ्यैतद्विसस्तैन्यं कृतं मय़ा ||
७७ ख
शुनःसख उवाच:
मय़ा ह्यन्तर्हितानीह विसानीमानि पश्यत |
७८ क
शुनःसख उवाच:
परीक्षार्थं भगवतां कृतमेतन्मय़ानघाः |
७८ ख
शुनःसख उवाच:
रक्षणार्थं च सर्वेषां भवतामहमागतः ||
७८ ग
शुनःसख उवाच:
यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी |
७९ क
शुनःसख उवाच:
वृषादर्भिप्रय़ुक्तैषा निहता मे तपोधनाः ||
७९ ख
शुनःसख उवाच:
दुष्टा हिंस्यादिय़ं पापा युष्मान्प्रत्यग्निसम्भवा |
८० क
शुनःसख उवाच:
तस्मादस्म्यागतो विप्रा वासवं मां निवोधत ||
८० ख
शुनःसख उवाच:
अलोभादक्षय़ा लोकाः प्राप्ता वः सार्वकामिकाः |
८१ क
शुनःसख उवाच:
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ||
८१ ख
भीष्म उवाच:
ततो महर्षय़ः प्रीतास्तथेत्युक्त्वा पुरन्दरम् |
८२ क
भीष्म उवाच:
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ||
८२ ख
भीष्म उवाच:
एवमेते महात्मानो भोगैर्वहुविधैरपि |
८३ क
भीष्म उवाच:
क्षुधा परमय़ा युक्ताश्छन्द्यमाना महात्मभिः |
८३ ख
भीष्म उवाच:
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ||
८३ ग
भीष्म उवाच:
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जय़ेत् |
८४ क
भीष्म उवाच:
एष धर्मः परो राजन्नलोभ इति विश्रुतः ||
८४ ख
भीष्म उवाच:
इदं नरः सच्चरितं समवाय़ेषु कीर्तय़ेत् |
८५ क
भीष्म उवाच:
सुखभागी च भवति न च दुर्गाण्यवाप्नुते ||
८५ ख
भीष्म उवाच:
प्रीय़न्ते पितरश्चास्य ऋषय़ो देवतास्तथा |
८६ क
भीष्म उवाच:
यशोधर्मार्थभागी च भवति प्रेत्य मानवः ||
८६ ख