वामदेव उवाच:
अय़ुद्धेनैव विजय़ं वर्धय़ेद्वसुधाधिपः |
१ क
वामदेव उवाच:
जघन्यमाहुर्विजय़ं यो युद्धेन नराधिप ||
१ ख
वामदेव उवाच:
न चाप्यलव्धं लिप्सेत मूले नातिदृढे सति |
२ क
वामदेव उवाच:
न हि दुर्वलमूलस्य राज्ञो लाभो विधीय़ते ||
२ ख
वामदेव उवाच:
यस्य स्फीतो जनपदः सम्पन्नः प्रिय़राजकः |
३ क
वामदेव उवाच:
सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ||
३ ख
वामदेव उवाच:
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः |
४ क
वामदेव उवाच:
अल्पेनापि स दण्डेन महीं जय़ति भूमिपः ||
४ ख
वामदेव उवाच:
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः |
५ क
वामदेव उवाच:
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ||
५ ख
वामदेव उवाच:
प्रभावकालावधिकौ यदा मन्येत चात्मनः |
६ क
वामदेव उवाच:
तदा लिप्सेत मेधावी परभूमिं धनान्युत ||
६ ख
वामदेव उवाच:
भोगेष्वदय़मानस्य भूतेषु च दय़ावतः |
७ क
वामदेव उवाच:
वर्धते त्वरमाणस्य विषय़ो रक्षितात्मनः ||
७ ख
वामदेव उवाच:
तक्षत्यात्मानमेवैष वनं परशुना यथा |
८ क
वामदेव उवाच:
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ||
८ ख
वामदेव उवाच:
न वै द्विषन्तः क्षीय़न्ते राज्ञो नित्यमपि घ्नतः |
९ क
वामदेव उवाच:
क्रोधं निय़न्तुं यो वेद तस्य द्वेष्टा न विद्यते ||
९ ख
वामदेव उवाच:
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्वुधः |
१० क
वामदेव उवाच:
यत्कल्याणमभिध्याय़ेत्तत्रात्मानं निय़ोजय़ेत् ||
१० ख
वामदेव उवाच:
नैनमन्येऽवजानन्ति नात्मना परितप्यते |
११ क
वामदेव उवाच:
कृत्यशेषेण यो राजा सुखान्यनुवुभूषति ||
११ ख
वामदेव उवाच:
इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः |
१२ क
वामदेव उवाच:
उभौ लोकौ विनिर्जित्य विजय़े सम्प्रतिष्ठते ||
१२ ख
भीष्म उवाच:
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः |
१३ क
भीष्म उवाच:
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशय़ः ||
१३ ख