chevron_left आश्वमेधिक पर्व अध्याय ९५
जनमेजय़ उवाच:
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् |
१ क
जनमेजय़ उवाच:
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ||
१ ख
जनमेजय़ उवाच:
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् |
२ क
जनमेजय़ उवाच:
कथितं मे महद्व्रह्मंस्तथ्यमेतदसंशय़म् ||
२ ख
जनमेजय़ उवाच:
कथं हि सर्वय़ज्ञेषु निश्चय़ः परमो भवेत् |
३ क
जनमेजय़ उवाच:
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ||
३ ख
वैशम्पाय़न उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
४ क
वैशम्पाय़न उवाच:
अगस्त्यस्य महाय़ज्ञे पुरावृत्तमरिन्दम ||
४ ख
वैशम्पाय़न उवाच:
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् |
५ क
वैशम्पाय़न उवाच:
प्रविवेश महाराज सर्वभूतहिते रतः ||
५ ख
वैशम्पाय़न उवाच:
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः |
६ क
वैशम्पाय़न उवाच:
मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ||
६ ख
वैशम्पाय़न उवाच:
परिघृष्टिका वैघसिकाः सम्प्रक्षालास्तथैव च |
७ क
वैशम्पाय़न उवाच:
यतय़ो भिक्षवश्चात्र वभूवुः पर्यवस्थिताः ||
७ ख
वैशम्पाय़न उवाच:
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रिय़ाः |
८ क
वैशम्पाय़न उवाच:
दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ||
८ ख
वैशम्पाय़न उवाच:
वृत्ते शुद्धे स्थिता नित्यमिन्द्रिय़ैश्चाप्यवाहिताः |
९ क
वैशम्पाय़न उवाच:
उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षय़ः ||
९ ख
वैशम्पाय़न उवाच:
यथाशक्त्या भगवता तदन्नं समुपार्जितम् |
१० क
वैशम्पाय़न उवाच:
तस्मिन्सत्रे तु यत्किञ्चिदय़ोग्यं तत्र नाभवत् |
१० ख
वैशम्पाय़न उवाच:
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ||
१० ग
वैशम्पाय़न उवाच:
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे |
११ क
वैशम्पाय़न उवाच:
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ||
११ ख
वैशम्पाय़न उवाच:
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः |
१२ क
वैशम्पाय़न उवाच:
कथेय़मभिनिर्वृत्ता मुनीनां भावितात्मनाम् ||
१२ ख
वैशम्पाय़न उवाच:
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः |
१३ क
वैशम्पाय़न उवाच:
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ||
१३ ख
वैशम्पाय़न उवाच:
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् |
१४ क
वैशम्पाय़न उवाच:
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ||
१४ ख
वैशम्पाय़न उवाच:
एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः |
१५ क
वैशम्पाय़न उवाच:
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ||
१५ ख
वैशम्पाय़न उवाच:
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् |
१६ क
वैशम्पाय़न उवाच:
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ||
१६ ख
वैशम्पाय़न उवाच:
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
१७ क
वैशम्पाय़न उवाच:
चिन्ताय़ज्ञं करिष्यामि विधिरेष सनातनः ||
१७ ख
वैशम्पाय़न उवाच:
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
१८ क
वैशम्पाय़न उवाच:
व्याय़ामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ||
१८ ख
वैशम्पाय़न उवाच:
वीजय़ज्ञो मय़ाय़ं वै वहुवर्षसमाचितः |
१९ क
वैशम्पाय़न उवाच:
वीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ||
१९ ख
वैशम्पाय़न उवाच:
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन |
२० क
वैशम्पाय़न उवाच:
वर्षिष्यतीह वा देवो न वा देवो भविष्यति ||
२० ख
वैशम्पाय़न उवाच:
अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः |
२१ क
वैशम्पाय़न उवाच:
स्वय़मिन्द्रो भविष्यामि जीवय़िष्यामि च प्रजाः ||
२१ ख
वैशम्पाय़न उवाच:
यो यदाहारजातश्च स तथैव भविष्यति |
२२ क
वैशम्पाय़न उवाच:
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ||
२२ ख
वैशम्पाय़न उवाच:
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् |
२३ क
वैशम्पाय़न उवाच:
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वय़म् ||
२३ ख
वैशम्पाय़न उवाच:
दिव्याश्चाप्सरसां सङ्घाः सगन्धर्वाः सकिंनराः |
२४ क
वैशम्पाय़न उवाच:
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ||
२४ ख
वैशम्पाय़न उवाच:
उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते |
२५ क
वैशम्पाय़न उवाच:
सर्वं तदिह यज्ञे मे स्वय़मेवोपतिष्ठतु |
२५ ख
वैशम्पाय़न उवाच:
स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वय़मेव तु ||
२५ ग
वैशम्पाय़न उवाच:
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः |
२६ क
वैशम्पाय़न उवाच:
ततस्ते मुनय़ो दृष्ट्वा मुनेस्तस्य तपोवलम् |
२६ ख
वैशम्पाय़न उवाच:
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ||
२६ ग
वैशम्पाय़न उवाच:
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् |
२७ क
वैशम्पाय़न उवाच:
स्वैरेव यज्ञैस्तुष्टाः स्मो न्याय़ेनेच्छामहे वय़म् ||
२७ ख
वैशम्पाय़न उवाच:
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगय़ामहे |
२८ क
वैशम्पाय़न उवाच:
तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगय़ामहे ||
२८ ख
वैशम्पाय़न उवाच:
न्याय़ेनोपार्जिताहाराः स्वकर्मनिरता वय़म् |
२९ क
वैशम्पाय़न उवाच:
वेदांश्च व्रह्मचर्येण न्याय़तः प्रार्थय़ामहे ||
२९ ख
वैशम्पाय़न उवाच:
न्याय़ेनोत्तरकालं च गृहेभ्यो निःसृता वय़म् |
३० क
वैशम्पाय़न उवाच:
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वय़म् ||
३० ख
वैशम्पाय़न उवाच:
भवतः सम्यगेषा हि वुद्धिर्हिंसाविवर्जिता |
३१ क
वैशम्पाय़न उवाच:
एतामहिंसां यज्ञेषु व्रूय़ास्त्वं सततं प्रभो ||
३१ ख
वैशम्पाय़न उवाच:
प्रीतास्ततो भविष्यामो वय़ं द्विजवरोत्तम |
३२ क
वैशम्पाय़न उवाच:
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ||
३२ ख
वैशम्पाय़न उवाच:
तथा कथय़तामेव देवराजः पुरन्दरः |
३३ क
वैशम्पाय़न उवाच:
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोवलम् ||
३३ ख
वैशम्पाय़न उवाच:
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः |
३४ क
वैशम्पाय़न उवाच:
निकामवर्षी देवेन्द्रो वभूव जनमेजय़ ||
३४ ख
वैशम्पाय़न उवाच:
प्रसादय़ामास च तमगस्त्यं त्रिदशेश्वरः |
३५ क
वैशम्पाय़न उवाच:
स्वय़मभ्येत्य राजर्षे पुरस्कृत्य वृहस्पतिम् ||
३५ ख
वैशम्पाय़न उवाच:
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् |
३६ क
वैशम्पाय़न उवाच:
अगस्त्यः परमप्रीतः पूजय़ित्वा यथाविधि ||
३६ ख