द्रुपद उवाच:
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां वुद्धिजीविनः |
१ क
द्रुपद उवाच:
वुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातय़ः ||
१ ख
द्रुपद उवाच:
द्विजेषु वैद्याः श्रेय़ांसो वैद्येषु कृतवुद्धय़ः |
२ क
द्रुपद उवाच:
स भवान्कृतवुद्धीनां प्रधान इति मे मतिः ||
२ ख
द्रुपद उवाच:
कुलेन च विशिष्टोऽसि वय़सा च श्रुतेन च |
३ क
द्रुपद उवाच:
प्रज्ञय़ानवमश्चासि शुक्रेणाङ्गिरसेन च ||
३ ख
द्रुपद उवाच:
विदितं चापि ते सर्वं यथावृत्तः स कौरवः |
४ क
द्रुपद उवाच:
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ||
४ ख
द्रुपद उवाच:
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः |
५ क
द्रुपद उवाच:
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ||
५ ख
द्रुपद उवाच:
शकुनिर्वुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वय़त् |
६ क
द्रुपद उवाच:
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ||
६ ख
द्रुपद उवाच:
ते तथा वञ्चय़ित्वा तु धर्मपुत्रं युधिष्ठिरम् |
७ क
द्रुपद उवाच:
न कस्याञ्चिदवस्थाय़ां राज्यं दास्यन्ति वै स्वय़म् ||
७ ख
द्रुपद उवाच:
भवांस्तु धर्मसंय़ुक्तं धृतराष्ट्रं व्रुवन्वचः |
८ क
द्रुपद उवाच:
मनांसि तस्य योधानां ध्रुवमावर्तय़िष्यति ||
८ ख
द्रुपद उवाच:
विदुरश्चापि तद्वाक्यं साधय़िष्यति तावकम् |
९ क
द्रुपद उवाच:
भीष्मद्रोणकृपाणां च भेदं सञ्जनय़िष्यति ||
९ ख
द्रुपद उवाच:
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च |
१० क
द्रुपद उवाच:
पुनरेकाग्रकरणं तेषां कर्म भविष्यति ||
१० ख
द्रुपद उवाच:
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रवुद्धय़ः |
११ क
द्रुपद उवाच:
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चय़म् ||
११ ख
द्रुपद उवाच:
भिद्यमानेषु च स्वेषु लम्वमाने च वै त्वय़ि |
१२ क
द्रुपद उवाच:
न तथा ते करिष्यन्ति सेनाकर्म न संशय़ः ||
१२ ख
द्रुपद उवाच:
एतत्प्रय़ोजनं चात्र प्राधान्येनोपलभ्यते |
१३ क
द्रुपद उवाच:
सङ्गत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ||
१३ ख
द्रुपद उवाच:
स भवान्धर्मय़ुक्तश्च धर्म्यं तेषु समाचरन् |
१४ क
द्रुपद उवाच:
कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तय़न् ||
१४ ख
द्रुपद उवाच:
वृद्धेषु कुलधर्मं च व्रुवन्पूर्वैरनुष्ठितम् |
१५ क
द्रुपद उवाच:
विभेत्स्यति मनांस्येषामिति मे नात्र संशय़ः ||
१५ ख
द्रुपद उवाच:
न च तेभ्यो भय़ं तेऽस्ति व्राह्मणो ह्यसि वेदवित् |
१६ क
द्रुपद उवाच:
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ||
१६ ख
द्रुपद उवाच:
स भवान्पुष्ययोगेन मुहूर्तेन जय़ेन च |
१७ क
द्रुपद उवाच:
कौरवेय़ान्प्रय़ात्वाशु कौन्तेय़स्यार्थसिद्धय़े ||
१७ ख
वैशम्पाय़न उवाच:
तथानुशिष्टः प्रय़यौ द्रुपदेन महात्मना |
१८ क
वैशम्पाय़न उवाच:
पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वय़म् ||
१८ ख