वैशम्पाय़न उवाच:
समवेतेषु सर्वेषु तेषु राजसु भारत |
१ क
वैशम्पाय़न उवाच:
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
वृहस्पतिश्चोशना च व्रह्माणं पर्युपस्थितौ |
२ क
वैशम्पाय़न उवाच:
मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ ||
२ ख
वैशम्पाय़न उवाच:
आदित्याश्चैव साध्याश्च ये च सप्तर्षय़ो दिवि |
३ क
वैशम्पाय़न उवाच:
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ||
३ ख
वैशम्पाय़न उवाच:
नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् |
४ क
वैशम्पाय़न उवाच:
परिवार्य च विश्वेशं पर्यासत दिवौकसः ||
४ ख
वैशम्पाय़न उवाच:
तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् |
५ क
वैशम्पाय़न उवाच:
पूर्वदेवौ व्यतिक्रान्तौ नरनाराय़णावृषी ||
५ ख
वैशम्पाय़न उवाच:
वृहस्पतिश्च पप्रच्छ व्राह्मणं काविमाविति |
६ क
वैशम्पाय़न उवाच:
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ||
६ ख
व्रह्मो उवाच:
यावेतौ पृथिवीं द्यां च भासय़न्तौ तपस्विनौ |
७ क
व्रह्मो उवाच:
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महावलौ ||
७ ख
व्रह्मो उवाच:
नरनाराय़णावेतौ लोकाल्लोकं समास्थितौ |
८ क
व्रह्मो उवाच:
ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ||
८ ख
व्रह्मो उवाच:
एतौ हि कर्मणा लोकान्नन्दय़ामासतुर्ध्रुवौ |
९ क
व्रह्मो उवाच:
असुराणामभावाय़ देवगन्धर्वपूजितौ ||
९ ख
वैशम्पाय़न उवाच:
जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः |
१० क
वैशम्पाय़न उवाच:
सार्धं देवगणैः सर्वैर्वृहस्पतिपुरोगमैः ||
१० ख
वैशम्पाय़न उवाच:
तदा देवासुरे घोरे भय़े जाते दिवौकसाम् |
११ क
वैशम्पाय़न उवाच:
अय़ाचत महात्मानौ नरनाराय़णौ वरम् ||
११ ख
वैशम्पाय़न उवाच:
तावव्रूतां वृणीष्वेति तदा भरतसत्तम |
१२ क
वैशम्पाय़न उवाच:
अथैतावव्रवीच्छक्रः साह्यं नः क्रिय़तामिति ||
१२ ख
वैशम्पाय़न उवाच:
ततस्तौ शक्रमव्रूतां करिष्यावो यदिच्छसि |
१३ क
वैशम्पाय़न उवाच:
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ||
१३ ख
वैशम्पाय़न उवाच:
नर इन्द्रस्य सङ्ग्रामे हत्वा शत्रून्परन्तपः |
१४ क
वैशम्पाय़न उवाच:
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ||
१४ ख
वैशम्पाय़न उवाच:
एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः |
१५ क
वैशम्पाय़न उवाच:
जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे ||
१५ ख
वैशम्पाय़न उवाच:
एष पारे समुद्रस्य हिरण्यपुरमारुजत् |
१६ क
वैशम्पाय़न उवाच:
हत्वा षष्टिसहस्राणि निवातकवचान्रणे ||
१६ ख
वैशम्पाय़न उवाच:
एष देवान्सहेन्द्रेण जित्वा परपुरञ्जय़ः |
१७ क
वैशम्पाय़न उवाच:
अतर्पय़न्महावाहुरर्जुनो जातवेदसम् |
१७ ख
वैशम्पाय़न उवाच:
नाराय़णस्तथैवात्र भूय़सोऽन्याञ्जघान ह ||
१७ ग
वैशम्पाय़न उवाच:
एवमेतौ महावीर्यौ तौ पश्यत समागतौ |
१८ क
वैशम्पाय़न उवाच:
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ||
१८ ख
वैशम्पाय़न उवाच:
नरनाराय़णौ देवौ पूर्वदेवाविति श्रुतिः |
१९ क
वैशम्पाय़न उवाच:
अजेय़ौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ||
१९ ख
वैशम्पाय़न उवाच:
एष नाराय़णः कृष्णः फल्गुनस्तु नरः स्मृतः |
२० क
वैशम्पाय़न उवाच:
नाराय़णो नरश्चैव सत्त्वमेकं द्विधाकृतम् ||
२० ख
वैशम्पाय़न उवाच:
एतौ हि कर्मणा लोकानश्नुवातेऽक्षय़ान्ध्रुवान् |
२१ क
वैशम्पाय़न उवाच:
तत्र तत्रैव जाय़ेते युद्धकाले पुनः पुनः ||
२१ ख
वैशम्पाय़न उवाच:
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः |
२२ क
वैशम्पाय़न उवाच:
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ||
२२ ख
वैशम्पाय़न उवाच:
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् |
२३ क
वैशम्पाय़न उवाच:
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ||
२३ ख
वैशम्पाय़न उवाच:
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ |
२४ क
वैशम्पाय़न उवाच:
दुर्योधन तदा तात स्मर्तासि वचनं मम ||
२४ ख
वैशम्पाय़न उवाच:
नो चेदय़मभावः स्यात्कुरूणां प्रत्युपस्थितः |
२५ क
वैशम्पाय़न उवाच:
अर्थाच्च तात धर्माच्च तव वुद्धिरुपप्लुता ||
२५ ख
वैशम्पाय़न उवाच:
न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुवहून्हतान् |
२६ क
वैशम्पाय़न उवाच:
तवैव हि मतं सर्वे कुरवः पर्युपासते ||
२६ ख
वैशम्पाय़न उवाच:
त्रय़ाणामेव च मतं तत्त्वमेकोऽनुमन्यसे |
२७ क
वैशम्पाय़न उवाच:
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ||
२७ ख
वैशम्पाय़न उवाच:
दुर्जातेः सूतपुत्रस्य शकुनेः सौवलस्य च |
२८ क
वैशम्पाय़न उवाच:
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ||
२८ ख
कर्ण उवाच:
नैवमाय़ुष्मता वाच्यं यन्मामात्थ पितामह |
२९ क
कर्ण उवाच:
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेय़िवान् ||
२९ ख
कर्ण उवाच:
किं चान्यन्मय़ि दुर्वृत्तं येन मां परिगर्हसे |
३० क
कर्ण उवाच:
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ||
३० ख
कर्ण उवाच:
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रिय़ं मय़ा |
३१ क
कर्ण उवाच:
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ||
३१ ख
वैशम्पाय़न उवाच:
कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः |
३२ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽव्रवीत् ||
३२ ख
वैशम्पाय़न उवाच:
यदय़ं कत्थते नित्यं हन्ताहं पाण्डवानिति |
३३ क
वैशम्पाय़न उवाच:
नाय़ं कलापि सम्पूर्णा पाण्डवानां महात्मनाम् ||
३३ ख
वैशम्पाय़न उवाच:
अनय़ो योऽय़मागन्ता पुत्राणां ते दुरात्मनाम् |
३४ क
वैशम्पाय़न उवाच:
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ||
३४ ख
वैशम्पाय़न उवाच:
एनमाश्रित्य पुत्रस्ते मन्दवुद्धिः सुय़ोधनः |
३५ क
वैशम्पाय़न उवाच:
अवमन्यत तान्वीरान्देवपुत्रानरिन्दमान् ||
३५ ख
वैशम्पाय़न उवाच:
किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् |
३६ क
वैशम्पाय़न उवाच:
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ||
३६ ख
वैशम्पाय़न उवाच:
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रिय़म् |
३७ क
वैशम्पाय़न उवाच:
धनञ्जय़ेन विक्रम्य किमनेन तदा कृतम् ||
३७ ख
वैशम्पाय़न उवाच:
सहितान्हि कुरून्सर्वानभिय़ातो धनञ्जय़ः |
३८ क
वैशम्पाय़न उवाच:
प्रमथ्य चाच्छिनद्गावः किमय़ं प्रोषितस्तदा ||
३८ ख
वैशम्पाय़न उवाच:
गन्धर्वैर्घोषय़ात्राय़ां ह्रिय़ते यत्सुतस्तव |
३९ क
वैशम्पाय़न उवाच:
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषाय़ते ||
३९ ख
वैशम्पाय़न उवाच:
ननु तत्रापि पार्थेन भीमेन च महात्मना |
४० क
वैशम्पाय़न उवाच:
यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः ||
४० ख
वैशम्पाय़न उवाच:
एतान्यस्य मृषोक्तानि वहूनि भरतर्षभ |
४१ क
वैशम्पाय़न उवाच:
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ||
४१ ख
वैशम्पाय़न उवाच:
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः |
४२ क
वैशम्पाय़न उवाच:
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजय़न् ||
४२ ख
वैशम्पाय़न उवाच:
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रिय़तां नृप |
४३ क
वैशम्पाय़न उवाच:
न काममर्थलिप्सूनां वचनं कर्तुमर्हसि ||
४३ ख
वैशम्पाय़न उवाच:
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गमम् |
४४ क
वैशम्पाय़न उवाच:
यद्वाक्यमर्जुनेनोक्तं सञ्जय़ेन निवेदितम् ||
४४ ख
वैशम्पाय़न उवाच:
सर्वं तदभिजानामि करिष्यति च पाण्डवः |
४५ क
वैशम्पाय़न उवाच:
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ||
४५ ख
वैशम्पाय़न उवाच:
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मय़ोः |
४६ क
वैशम्पाय़न उवाच:
ततः स सञ्जय़ं राजा पर्यपृच्छत पाण्डवम् ||
४६ ख
वैशम्पाय़न उवाच:
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् |
४७ क
वैशम्पाय़न उवाच:
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ||
४७ ख