chevron_left द्रोण पर्व अध्याय ९५
सञ्जय़ उवाच:
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः |
१ क
सञ्जय़ उवाच:
सुदर्शनं निहत्याजौ यन्तारमिदमव्रवीत् ||
१ ख
सञ्जय़ उवाच:
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् |
२ क
सञ्जय़ उवाच:
खड्गमत्स्यं गदाग्राहं शूराय़ुधमहास्वनम् ||
२ ख
सञ्जय़ उवाच:
प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् |
३ क
सञ्जय़ उवाच:
योधानामसुखस्पर्शं दुर्धर्षमजय़ैषिणाम् ||
३ ख
सञ्जय़ उवाच:
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् |
४ क
सञ्जय़ उवाच:
जलसन्धवलेनाजौ पुरुषादैरिवावृतम् ||
४ ख
सञ्जय़ उवाच:
अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव |
५ क
सञ्जय़ उवाच:
तर्तव्यामल्पसलिलां चोदय़ाश्वानसम्भ्रमम् ||
५ ख
सञ्जय़ उवाच:
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् |
६ क
सञ्जय़ उवाच:
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ||
६ ख
सञ्जय़ उवाच:
हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनञ्जय़म् |
७ क
सञ्जय़ उवाच:
न हि मे जाय़ते त्रासो दृष्ट्वा सैन्यान्यनेकशः |
७ ख
सञ्जय़ उवाच:
वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ||
७ ग
सञ्जय़ उवाच:
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना |
८ क
सञ्जय़ उवाच:
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ||
८ ख
सञ्जय़ उवाच:
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् |
९ क
सञ्जय़ उवाच:
स एष श्रूय़ते शव्दो गाण्डीवस्यामितौजसः ||
९ ख
सञ्जय़ उवाच:
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै |
१० क
सञ्जय़ उवाच:
अनस्तङ्गत आदित्ये हन्ता सैन्धवमर्जुनः ||
१० ख
सञ्जय़ उवाच:
शनैर्विश्रम्भय़न्नश्वान्याहि यत्तोऽरिवाहिनीम् |
११ क
सञ्जय़ उवाच:
यत्रैते सतनुत्राणाः सुय़ोधनपुरोगमाः ||
११ ख
सञ्जय़ उवाच:
दंशिताः क्रूरकर्माणः काम्वोजा युद्धदुर्मदाः |
१२ क
सञ्जय़ उवाच:
शरवाणासनधरा यवनाश्च प्रहारिणः ||
१२ ख
सञ्जय़ उवाच:
शकाः किराता दरदा वर्वरास्ताम्रलिप्तकाः |
१३ क
सञ्जय़ उवाच:
अन्ये च वहवो म्लेच्छा विविधाय़ुधपाणय़ः |
१३ ख
सञ्जय़ उवाच:
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ||
१३ ग
सञ्जय़ उवाच:
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः |
१४ क
सञ्जय़ उवाच:
इदं दुर्गं महाघोरं तीर्णमेवोपधारय़ ||
१४ ख
सूत उवाच:
न सम्भ्रमो मे वार्ष्णेय़ विद्यते सत्यविक्रम |
१५ क
सूत उवाच:
यद्यपि स्यात्सुसङ्क्रुद्धो जामदग्न्योऽग्रतः स्थितः ||
१५ ख
सूत उवाच:
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा |
१६ क
सूत उवाच:
तथापि सम्भ्रमो न स्यात्त्वामाश्रित्य महाभुज ||
१६ ख
सूत उवाच:
त्वय़ा सुवहवो युद्धे निर्जिताः शत्रुसूदन |
१७ क
सूत उवाच:
न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कदाचन |
१७ ख
सूत उवाच:
किमु चैतत्समासाद्य वीर संय़ुगगोष्पदम् ||
१७ ग
सूत उवाच:
आय़ुष्मन्कतरेण त्वा प्रापय़ामि धनञ्जय़म् |
१८ क
सूत उवाच:
केषां क्रुद्धोऽसि वार्ष्णेय़ केषां मृत्युरुपस्थितः |
१८ ख
सूत उवाच:
केषां संय़मनीमद्य गन्तुमुत्सहते मनः ||
१८ ग
सूत उवाच:
के त्वां युधि पराक्रान्तं कालान्तकय़मोपमम् |
१९ क
सूत उवाच:
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संय़ुगे |
१९ ख
सूत उवाच:
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ||
१९ ग
सात्यकिरु उवाच:
मुण्डानेतान्हनिष्यामि दानवानिव वासवः |
२० क
सात्यकिरु उवाच:
प्रतिज्ञां पारय़िष्यामि काम्वोजानेव मा वह |
२० ख
सात्यकिरु उवाच:
अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ||
२० ग
सात्यकिरु उवाच:
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुय़ोधनाः |
२१ क
सात्यकिरु उवाच:
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ||
२१ ख
सात्यकिरु उवाच:
अद्य कौरवसैन्यस्य दीर्यमाणस्य संय़ुगे |
२२ क
सात्यकिरु उवाच:
श्रुत्वा विरावं वहुधा सन्तप्स्यति सुय़ोधनः ||
२२ ख
सात्यकिरु उवाच:
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः |
२३ क
सात्यकिरु उवाच:
आचार्यककृतं मार्गं दर्शय़िष्यामि संय़ुगे ||
२३ ख
सात्यकिरु उवाच:
अद्य मद्वाणनिहतान्योधमुख्यान्सहस्रशः |
२४ क
सात्यकिरु उवाच:
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ||
२४ ख
सात्यकिरु उवाच:
अद्य मे क्षिप्रहस्तस्य क्षिपतः साय़कोत्तमान् |
२५ क
सात्यकिरु उवाच:
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ||
२५ ख
सात्यकिरु उवाच:
मत्साय़कचिताङ्गानां रुधिरं स्रवतां वहु |
२६ क
सात्यकिरु उवाच:
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुय़ोधनः ||
२६ ख
सात्यकिरु उवाच:
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् |
२७ क
सात्यकिरु उवाच:
द्विरर्जुनमिमं लोकं मंस्यते स सुय़ोधनः ||
२७ ख
सात्यकिरु उवाच:
अद्य राजसहस्राणि निहतानि मय़ा रणे |
२८ क
सात्यकिरु उवाच:
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ||
२८ ख
सात्यकिरु उवाच:
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु |
२९ क
सात्यकिरु उवाच:
हत्वा राजसहस्राणि दर्शय़िष्यामि राजसु ||
२९ ख
सञ्जय़ उवाच:
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः |
३० क
सञ्जय़ उवाच:
शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ||
३० ख
सञ्जय़ उवाच:
ते पिवन्त इवाकाशं युय़ुधानं हय़ोत्तमाः |
३१ क
सञ्जय़ उवाच:
प्रापय़न्यवनाञ्शीघ्रं मनःपवनरंहसः ||
३१ ख
सञ्जय़ उवाच:
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् |
३२ क
सञ्जय़ उवाच:
वहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ||
३२ ख
सञ्जय़ उवाच:
तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः |
३३ क
सञ्जय़ उवाच:
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ||
३३ ख
सञ्जय़ उवाच:
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः |
३४ क
सञ्जय़ उवाच:
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ||
३४ ख
सञ्जय़ उवाच:
शैक्याय़सानि वर्माणि कांस्यानि च समन्ततः |
३५ क
सञ्जय़ उवाच:
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ||
३५ ख
सञ्जय़ उवाच:
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे |
३६ क
सञ्जय़ उवाच:
शतशो न्यपतंस्तत्र व्यसवो वसुधातले ||
३६ ख
सञ्जय़ उवाच:
सुपूर्णाय़तमुक्तैस्तानव्यवच्छिन्नपिण्डितैः |
३७ क
सञ्जय़ उवाच:
पञ्च षट्सप्त चाष्टौ च विभेद यवनाञ्शरैः ||
३७ ख
सञ्जय़ उवाच:
काम्वोजानां सहस्रैस्तु शकानां च विशां पते |
३८ क
सञ्जय़ उवाच:
शवराणां किरातानां वर्वराणां तथैव च ||
३८ ख
सञ्जय़ उवाच:
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् |
३९ क
सञ्जय़ उवाच:
कृतवांस्तत्र शैनेय़ः क्षपय़ंस्तावकं वलम् ||
३९ ख
सञ्जय़ उवाच:
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः |
४० क
सञ्जय़ उवाच:
तत्र तत्र मही कीर्णा विवर्हैरण्डजैरिव ||
४० ख
सञ्जय़ उवाच:
रुधिरोक्षितसर्वाङ्गैस्तैस्तदाय़ोधनं वभौ |
४१ क
सञ्जय़ उवाच:
कवन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ||
४१ ख
सञ्जय़ उवाच:
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः |
४२ क
सञ्जय़ उवाच:
ते साश्वय़ाना निहताः समावव्रुर्वसुन्धराम् ||
४२ ख
सञ्जय़ उवाच:
अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः |
४३ क
सञ्जय़ उवाच:
जिताः सङ्ख्ये महाराज युय़ुधानेन दंशिताः ||
४३ ख
सञ्जय़ उवाच:
पार्ष्णिभिश्च कशाभिश्च ताडय़न्तस्तुरङ्गमान् |
४४ क
सञ्जय़ उवाच:
जवमुत्तममास्थाय़ सर्वतः प्राद्रवन्भय़ात् ||
४४ ख
सञ्जय़ उवाच:
काम्वोजसैन्यं विद्राव्य दुर्जय़ं युधि भारत |
४५ क
सञ्जय़ उवाच:
यवनानां च तत्सैन्यं शकानां च महद्वलम् ||
४५ ख
सञ्जय़ उवाच:
स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः |
४६ क
सञ्जय़ उवाच:
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदय़त् ||
४६ ख
सञ्जय़ उवाच:
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते |
४७ क
सञ्जय़ उवाच:
चारणाः प्रेक्ष्य संहृष्टास्त्वदीय़ाश्चाप्यपूजय़न् ||
४७ ख