श्रीभगवानु उवाच:
कानीनगर्भः पितृकन्यकाय़ां; तस्मादृषेस्त्वं भविता च पुत्रः ||
४८ ग
श्रीभगवानु उवाच:
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशय़ः |
४९ क
श्रीभगवानु उवाच:
ये ह्यतिक्रान्तकाः पूर्वं सहस्रय़ुगपर्ययाः ||
४९ ख
श्रीभगवानु उवाच:
तांश्च सर्वान्मय़ोद्दिष्टान्द्रक्ष्यसे तपसान्वितः |
५० क
श्रीभगवानु उवाच:
पुनर्द्रक्ष्यसि चानेकसहस्रय़ुगपर्ययान् ||
५० ख
श्रीभगवानु उवाच:
अनादिनिधनं लोके चक्रहस्तं च मां मुने |
५१ क
श्रीभगवानु उवाच:
अनुध्यानान्मम मुने नैतद्वचनमन्यथा ||
५१ ख
श्रीभगवानु उवाच:
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् |
५२ क
श्रीभगवानु उवाच:
तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः |
५२ ख
श्रीभगवानु उवाच:
त्वमेव भविता वत्स मत्प्रसादान्न संशय़ः ||
५२ ग
व्यास उवाच:
एवं सारस्वतमृषिमपान्तरतमं तदा |
५३ क
व्यास उवाच:
उक्त्वा वचनमीशानः साधय़स्वेत्यथाव्रवीत् ||
५३ ख
व्यास उवाच:
सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः |
५४ क
व्यास उवाच:
अपान्तरतमा नाम ततो जातोऽऽज्ञय़ा हरेः |
५४ ख
व्यास उवाच:
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ||
५४ ग
व्यास उवाच:
तदेतत्कथितं जन्म मय़ा पूर्वकमात्मनः |
५५ क
व्यास उवाच:
नाराय़णप्रसादेन तथा नाराय़णांशजम् ||
५५ ख
व्यास उवाच:
मय़ा हि सुमहत्तप्तं तपः परमदारुणम् |
५६ क
व्यास उवाच:
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ||
५६ ख
व्यास उवाच:
एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः |
५७ क
व्यास उवाच:
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मय़ा ||
५७ ख
वैशम्पाय़न उवाच:
एष ते कथितः पूर्वं सम्भवोऽस्मद्गुरोर्नृप |
५८ क
वैशम्पाय़न उवाच:
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ||
५८ ख
वैशम्पाय़न उवाच:
साङ्ख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा |
५९ क
वैशम्पाय़न उवाच:
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ||
५९ ख
वैशम्पाय़न उवाच:
साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते |
६० क
वैशम्पाय़न उवाच:
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ||
६० ख
वैशम्पाय़न उवाच:
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते |
६१ क
वैशम्पाय़न उवाच:
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ||
६१ ख
वैशम्पाय़न उवाच:
उमापतिर्भूतपतिः श्रीकण्ठो व्रह्मणः सुतः |
६२ क
वैशम्पाय़न उवाच:
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ||
६२ ख
वैशम्पाय़न उवाच:
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वय़म् |
६३ क
वैशम्पाय़न उवाच:
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ||
६३ ख
वैशम्पाय़न उवाच:
यथागमं यथाज्ञानं निष्ठा नाराय़णः प्रभुः |
६४ क
वैशम्पाय़न उवाच:
न चैनमेवं जानन्ति तमोभूता विशां पते ||
६४ ख
वैशम्पाय़न उवाच:
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः |
६५ क
वैशम्पाय़न उवाच:
निष्ठां नाराय़णमृषिं नान्योऽस्तीति च वादिनः ||
६५ ख
वैशम्पाय़न उवाच:
निःसंशय़ेषु सर्वेषु नित्यं वसति वै हरिः |
६६ क
वैशम्पाय़न उवाच:
ससंशय़ान्हेतुवलान्नाध्यावसति माधवः ||
६६ ख
वैशम्पाय़न उवाच:
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप |
६७ क
वैशम्पाय़न उवाच:
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ||
६७ ख
वैशम्पाय़न उवाच:
साङ्ख्यं च योगं च सनातने द्वे; वेदाश्च सर्वे निखिलेन राजन् |
६८ क
वैशम्पाय़न उवाच:
सर्वैः समस्तैरृषिभिर्निरुक्तो; नाराय़णो विश्वमिदं पुराणम् ||
६८ ख
वैशम्पाय़न उवाच:
शुभाशुभं कर्म समीरितं य; त्प्रवर्तते सर्वलोकेषु किञ्चित् |
६९ क
वैशम्पाय़न उवाच:
तस्मादृषेस्तद्भवतीति विद्या; द्दिव्यन्तरिक्षे भुवि चाप्सु चापि ||
६९ ख