chevron_left आश्वमेधिक पर्व अध्याय ९६
जनमेजय़ उवाच:
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै |
१ क
जनमेजय़ उवाच:
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ||
१ ख
वैशम्पाय़न उवाच:
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् |
२ क
वैशम्पाय़न उवाच:
श्रूय़तां नकुलो योऽसौ यथा वागस्य मानुषी ||
२ ख
वैशम्पाय़न उवाच:
श्राद्धं सङ्कल्पय़ामास जमदग्निः पुरा किल |
३ क
वैशम्पाय़न उवाच:
होमधेनुस्तमागाच्च स्वय़ं चापि दुदोह ताम् ||
३ ख
वैशम्पाय़न उवाच:
तत्क्षीरं स्थापय़ामास नवे भाण्डे दृढे शुचौ |
४ क
वैशम्पाय़न उवाच:
तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तय़त् ||
४ ख
वैशम्पाय़न उवाच:
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिय़े कृते |
५ क
वैशम्पाय़न उवाच:
इति सञ्चिन्त्य दुर्मेधा धर्षय़ामास तत्पय़ः ||
५ ख
वैशम्पाय़न उवाच:
तमाज्ञाय़ मुनिः क्रोधं नैवास्य चुकुपे ततः |
६ क
वैशम्पाय़न उवाच:
स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ||
६ ख
वैशम्पाय़न उवाच:
जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः |
७ क
वैशम्पाय़न उवाच:
लोके मिथ्याप्रवादोऽय़ं यत्त्वय़ास्मि पराजितः ||
७ ख
वैशम्पाय़न उवाच:
सोऽहं त्वय़ि स्थितो ह्यद्य क्षमावति महात्मनि |
८ क
वैशम्पाय़न उवाच:
विभेमि तपसः साधो प्रसादं कुरु मे विभो ||
८ ख
जनमेजय़ उवाच:
साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः |
९ क
जनमेजय़ उवाच:
न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ||
९ ख
जनमेजय़ उवाच:
यानुद्दिश्य तु सङ्कल्पः पय़सोऽस्य कृतो मय़ा |
१० क
जनमेजय़ उवाच:
पितरस्ते महाभागास्तेभ्यो वुध्यस्व गम्यताम् ||
१० ख
जनमेजय़ उवाच:
इत्युक्तो जातसन्त्रासः स तत्रान्तरधीय़त |
११ क
जनमेजय़ उवाच:
पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ||
११ ख
जनमेजय़ उवाच:
स तान्प्रसादय़ामास शापस्यान्तो भवेदिति |
१२ क
जनमेजय़ उवाच:
तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ||
१२ ख
जनमेजय़ उवाच:
तैश्चोक्तो यज्ञिय़ान्देशान्धर्मारण्यानि चैव ह |
१३ क
जनमेजय़ उवाच:
जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ||
१३ ख
जनमेजय़ उवाच:
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः |
१४ क
जनमेजय़ उवाच:
मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ||
१४ ख
जनमेजय़ उवाच:
एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः |
१५ क
जनमेजय़ उवाच:
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ||
१५ ख