chevron_left उद्योग पर्व अध्याय ९६
कण्व उवाच:
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा |
१ क
कण्व उवाच:
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छय़ा ||
१ ख
कण्व उवाच:
नारदोऽथाव्रवीदेनं क्व भवान्गन्तुमुद्यतः |
२ क
कण्व उवाच:
स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ||
२ ख
कण्व उवाच:
मातलिर्नारदेनैवं सम्पृष्टः पथि गच्छता |
३ क
कण्व उवाच:
यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति ||
३ ख
कण्व उवाच:
तमुवाचाथ स मुनिर्गच्छावः सहिताविति |
४ क
कण्व उवाच:
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ||
४ ख
कण्व उवाच:
अहं ते सर्वमाख्यास्ये दर्शय़न्वसुधातलम् |
५ क
कण्व उवाच:
दृष्ट्वा तत्र वरं कञ्चिद्रोचय़िष्याव मातले ||
५ ख
कण्व उवाच:
अवगाह्य ततो भूमिमुभौ मातलिनारदौ |
६ क
कण्व उवाच:
ददृशाते महात्मानौ लोकपालमपां पतिम् ||
६ ख
कण्व उवाच:
तत्र देवर्षिसदृशीं पूजां प्राप स नारदः |
७ क
कण्व उवाच:
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ||
७ ख
कण्व उवाच:
तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह |
८ क
कण्व उवाच:
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ||
८ ख
कण्व उवाच:
नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् |
९ क
कण्व उवाच:
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ||
९ ख
नारद उवाच:
दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः |
१० क
नारद उवाच:
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ||
१० ख
नारद उवाच:
एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः |
११ क
नारद उवाच:
एष तं शीलवृत्तेन शौचेन च विशिष्यते ||
११ ख
नारद उवाच:
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः |
१२ क
नारद उवाच:
रूपवान्दर्शनीय़श्च सोमपुत्र्या वृतः पतिः ||
१२ ख
नारद उवाच:
ज्योत्स्नाकालीति यामाहुर्द्वितीय़ां रूपतः श्रिय़म् |
१३ क
नारद उवाच:
आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः ||
१३ ख
नारद उवाच:
भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् |
१४ क
नारद उवाच:
यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ||
१४ ख
नारद उवाच:
एतानि हृतराज्यानां दैतेय़ानां स्म मातले |
१५ क
नारद उवाच:
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ||
१५ ख
नारद उवाच:
अक्षय़ाणि किलैतानि विवर्तन्ते स्म मातले |
१६ क
नारद उवाच:
अनुभावप्रय़ुक्तानि सुरैरवजितानि ह ||
१६ ख
नारद उवाच:
अत्र राक्षसजात्यश्च भूतजात्यश्च मातले |
१७ क
नारद उवाच:
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ||
१७ ख
नारद उवाच:
अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे |
१८ क
नारद उवाच:
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ||
१८ ख
नारद उवाच:
एष गाण्डीमय़श्चापो लोकसंहारसम्भृतः |
१९ क
नारद उवाच:
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ||
१९ ख
नारद उवाच:
एष कृत्ये समुत्पन्ने तत्तद्धारय़ते वलम् |
२० क
नारद उवाच:
सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवम् ||
२० ख
नारद उवाच:
अशास्यानपि शास्त्येष रक्षोवन्धुषु राजसु |
२१ क
नारद उवाच:
सृष्टः प्रथमजो दण्डो व्रह्मणा व्रह्मवादिना ||
२१ ख
नारद उवाच:
एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम् |
२२ क
नारद उवाच:
पुत्राः सलिलराजस्य धारय़न्ति महोदय़म् ||
२२ ख
नारद उवाच:
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् |
२३ क
नारद उवाच:
सर्वतः सलिलं शीतं जीमूत इव वर्षति ||
२३ ख
नारद उवाच:
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् |
२४ क
नारद उवाच:
तमसा मूर्छितं याति येन नार्छति दर्शनम् ||
२४ ख
नारद उवाच:
वहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले |
२५ क
नारद उवाच:
तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् ||
२५ ख