chevron_left भीष्म पर्व अध्याय ९६
सञ्जय़ उवाच:
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः |
१ क
सञ्जय़ उवाच:
अभिदुद्राव तेजस्वी दुर्योधनवलं महत् |
१ ख
सञ्जय़ उवाच:
विकिरञ्शरवर्षाणि वारिधारा इवाम्वुदः ||
१ ग
सञ्जय़ उवाच:
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् |
२ क
सञ्जय़ उवाच:
शस्त्रौघिणं गाहमानं सेनासागरमक्षय़म् |
२ ख
सञ्जय़ उवाच:
निवारय़ितुमप्याजौ त्वदीय़ाः कुरुपुङ्गवाः ||
२ ग
सञ्जय़ उवाच:
तेन मुक्ता रणे राजञ्शराः शत्रुनिवर्हणाः |
३ क
सञ्जय़ उवाच:
क्षत्रिय़ाननय़ञ्शूरान्प्रेतराजनिवेशनम् ||
३ ख
सञ्जय़ उवाच:
यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् |
४ क
सञ्जय़ उवाच:
सौभद्रः समरे क्रुद्धः प्रेषय़ामास साय़कान् ||
४ ख
सञ्जय़ उवाच:
रथिनं च रथात्तूर्णं हय़पृष्ठाच्च सादिनम् |
५ क
सञ्जय़ उवाच:
गजारोहांश्च सगजान्पातय़ामास फाल्गुनिः ||
५ ख
सञ्जय़ उवाच:
तस्य तत्कुर्वतः कर्म महत्सङ्ख्येऽद्भुतं नृपाः |
६ क
सञ्जय़ उवाच:
पूजय़ां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ||
६ ख
सञ्जय़ उवाच:
तान्यनीकानि सौभद्रो द्रावय़न्वह्वशोभत |
७ क
सञ्जय़ उवाच:
तूलराशिमिवाधूय़ मारुतः सर्वतोदिशम् ||
७ ख
सञ्जय़ उवाच:
तेन विद्राव्यमाणानि तव सैन्यानि भारत |
८ क
सञ्जय़ उवाच:
त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ||
८ ख
सञ्जय़ उवाच:
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः |
९ क
सञ्जय़ उवाच:
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ||
९ ख
सञ्जय़ उवाच:
न चैनं तावकाः सर्वे विषेहुररिघातिनम् |
१० क
सञ्जय़ उवाच:
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ||
१० ख
सञ्जय़ उवाच:
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः |
११ क
सञ्जय़ उवाच:
अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ||
११ ख
सञ्जय़ उवाच:
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः |
१२ क
सञ्जय़ उवाच:
तोय़देषु यथा राजन्भ्राजमानाः शतह्वदाः ||
१२ ख
सञ्जय़ उवाच:
शराश्च निशिताः पीता निश्चरन्ति स्म संय़ुगे |
१३ क
सञ्जय़ उवाच:
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ||
१३ ख
सञ्जय़ उवाच:
तथैव चरतस्तस्य सौभद्रस्य महात्मनः |
१४ क
सञ्जय़ उवाच:
रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ||
१४ ख
सञ्जय़ उवाच:
मोहय़ित्वा कृपं द्रोणं द्रौणिं च स वृहद्वलम् |
१५ क
सञ्जय़ उवाच:
सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ||
१५ ख
सञ्जय़ उवाच:
मण्डलीकृतमेवास्य धनुः पश्याम मारिष |
१६ क
सञ्जय़ उवाच:
सूर्यमण्डलसङ्काशं तपतस्तव वाहिनीम् ||
१६ ख
सञ्जय़ उवाच:
तं दृष्ट्वा क्षत्रिय़ाः शूराः प्रतपन्तं शरार्चिभिः |
१७ क
सञ्जय़ उवाच:
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ||
१७ ख
सञ्जय़ उवाच:
तेनार्दिता महाराज भारती सा महाचमूः |
१८ क
सञ्जय़ उवाच:
वभ्राम तत्र तत्रैव योषिन्मदवशादिव ||
१८ ख
सञ्जय़ उवाच:
द्रावय़ित्वा च तत्सैन्यं कम्पय़ित्वा महारथान् |
१९ क
सञ्जय़ उवाच:
नन्दय़ामास सुहृदो मय़ं जित्वेव वासवः ||
१९ ख
सञ्जय़ उवाच:
तेन विद्राव्यमाणानि तव सैन्यानि संय़ुगे |
२० क
सञ्जय़ उवाच:
चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ||
२० ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष |
२१ क
सञ्जय़ उवाच:
मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि |
२१ ख
सञ्जय़ उवाच:
दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ||
२१ ग
सञ्जय़ उवाच:
एष कार्ष्णिर्महेष्वासो द्वितीय़ इव फल्गुनः |
२२ क
सञ्जय़ उवाच:
चमूं द्रावय़ते क्रोधाद्वृत्रो देवचमूमिव ||
२२ ख
सञ्जय़ उवाच:
तस्य नान्यं प्रपश्यामि संय़ुगे भेषजं महत् |
२३ क
सञ्जय़ उवाच:
ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ||
२३ ख
सञ्जय़ उवाच:
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे |
२४ क
सञ्जय़ उवाच:
वय़ं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ||
२४ ख
सञ्जय़ उवाच:
स एवमुक्तो वलवान्राक्षसेन्द्रः प्रतापवान् |
२५ क
सञ्जय़ उवाच:
प्रय़यौ समरे तूर्णं तव पुत्रस्य शासनात् |
२५ ख
सञ्जय़ उवाच:
नर्दमानो महानादं प्रावृषीव वलाहकः ||
२५ ग
सञ्जय़ उवाच:
तस्य शव्देन महता पाण्डवानां महद्वलम् |
२६ क
सञ्जय़ उवाच:
प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः ||
२६ ख
सञ्जय़ उवाच:
वहवश्च नरा राजंस्तस्य नादेन भीषिताः |
२७ क
सञ्जय़ उवाच:
प्रिय़ान्प्राणान्परित्यज्य निपेतुर्धरणीतले ||
२७ ख
सञ्जय़ उवाच:
कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः |
२८ क
सञ्जय़ उवाच:
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ||
२८ ख
सञ्जय़ उवाच:
ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनिं रणे |
२९ क
सञ्जय़ उवाच:
नातिदूरे स्थितस्तस्य द्रावय़ामास वै चमूम् ||
२९ ख
सञ्जय़ उवाच:
सा वध्यमाना समरे पाण्डवानां महाचमूः |
३० क
सञ्जय़ उवाच:
प्रत्युद्ययौ रणे रक्षो देवसेना यथा वलिम् ||
३० ख
सञ्जय़ उवाच:
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष |
३१ क
सञ्जय़ उवाच:
रक्षसा घोररूपेण वध्यमानस्य संय़ुगे ||
३१ ख
सञ्जय़ उवाच:
ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् |
३२ क
सञ्जय़ उवाच:
व्यद्रावय़द्रणे रक्षो दर्शय़द्वै पराक्रमम् ||
३२ ख
सञ्जय़ उवाच:
सा वध्यमाना च तथा पाण्डवानामनीकिनी |
३३ क
सञ्जय़ उवाच:
रक्षसा घोररूपेण प्रदुद्राव रणे भय़ात् ||
३३ ख
सञ्जय़ उवाच:
तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा |
३४ क
सञ्जय़ उवाच:
ततोऽभिदुद्राव रणे द्रौपदेय़ान्महावलान् ||
३४ ख
सञ्जय़ उवाच:
ते तु क्रुद्धा महेष्वासा द्रौपदेय़ाः प्रहारिणः |
३५ क
सञ्जय़ उवाच:
राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ||
३५ ख
सञ्जय़ उवाच:
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः |
३६ क
सञ्जय़ उवाच:
यथा युगक्षय़े घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ||
३६ ख
सञ्जय़ उवाच:
प्रतिविन्ध्यस्ततो रक्षो विभेद निशितैः शरैः |
३७ क
सञ्जय़ उवाच:
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महावलः ||
३७ ख
सञ्जय़ उवाच:
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः |
३८ क
सञ्जय़ उवाच:
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ||
३८ ख
सञ्जय़ उवाच:
विषक्तैः स शरैश्चापि तपनीय़परिच्छदैः |
३९ क
सञ्जय़ उवाच:
आर्श्यशृङ्गिर्वभौ राजन्दीप्तशृङ्ग इवाचलः ||
३९ ख
सञ्जय़ उवाच:
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे |
४० क
सञ्जय़ उवाच:
विव्यधुर्निशितैर्वाणैस्तपनीय़विभूषितैः ||
४० ख
सञ्जय़ उवाच:
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव |
४१ क
सञ्जय़ उवाच:
अलम्वुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ||
४१ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष |
४२ क
सञ्जय़ उवाच:
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ||
४२ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः |
४३ क
सञ्जय़ उवाच:
चिच्छेद साय़कैस्तेषां ध्वजांश्चैव धनूंषि च ||
४३ ख
सञ्जय़ उवाच:
एकैकं च त्रिभिर्वाणैराजघान स्मय़न्निव |
४४ क
सञ्जय़ उवाच:
अलम्वुसो रथोपस्थे नृत्यन्निव महारथः ||
४४ ख
सञ्जय़ उवाच:
त्वरमाणश्च सङ्क्रुद्धो हय़ांस्तेषां महात्मनाम् |
४५ क
सञ्जय़ उवाच:
जघान राक्षसः क्रुद्धः सारथींश्च महावलः ||
४५ ख
सञ्जय़ उवाच:
विभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः |
४६ क
सञ्जय़ उवाच:
शरैर्वहुविधाकारैः शतशोऽथ सहस्रशः ||
४६ ख
सञ्जय़ उवाच:
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः |
४७ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ||
४७ ख
सञ्जय़ उवाच:
तानर्दितान्रणे तेन राक्षसेन दुरात्मना |
४८ क
सञ्जय़ उवाच:
दृष्ट्वार्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ||
४८ ख