chevron_left भीष्म पर्व अध्याय ९७
सञ्जय़ उवाच:
पुनश्चैनं शरैर्घोरैश्छादय़ामास भारत |
४९ क
सञ्जय़ उवाच:
निदाघान्ते महाराज यथा मेघो दिवाकरम् ||
४९ ख
सञ्जय़ उवाच:
सात्यकिश्च महाराज शरजालं निहत्य तत् |
५० क
सञ्जय़ उवाच:
द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ||
५० ख
सञ्जय़ उवाच:
तापय़ामास च द्रौणिं शैनेय़ः परवीरहा |
५१ क
सञ्जय़ उवाच:
विमुक्तो मेघजालेन यथैव तपनस्तथा ||
५१ ख
सञ्जय़ उवाच:
शराणां च सहस्रेण पुनरेनं समुद्यतम् |
५२ क
सञ्जय़ उवाच:
सात्यकिश्छादय़ामास ननाद च महावलः ||
५२ ख
सञ्जय़ उवाच:
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् |
५३ क
सञ्जय़ उवाच:
अभ्यद्रवत शैनेय़ं भारद्वाजः प्रतापवान् ||
५३ ख
सञ्जय़ उवाच:
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे |
५४ क
सञ्जय़ उवाच:
परीप्सन्स्वसुतं राजन्वार्ष्णेय़ेनाभितापितम् ||
५४ ख
सञ्जय़ उवाच:
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् |
५५ क
सञ्जय़ उवाच:
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ||
५५ ख
सञ्जय़ उवाच:
तदन्तरममेय़ात्मा कौन्तेय़ः श्वेतवाहनः |
५६ क
सञ्जय़ उवाच:
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ||
५६ ख
सञ्जय़ उवाच:
ततो द्रोणश्च पार्थश्च समेय़ातां महामृधे |
५७ क
सञ्जय़ उवाच:
यथा वुधश्च शुक्रश्च महाराज नभस्तले ||
५७ ख