वैशम्पाय़न उवाच:
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी |
१ क
वैशम्पाय़न उवाच:
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ||
१ ख
वैशम्पाय़न उवाच:
धर्मं च पितृवंशं च मातृवंशं च मानिनी |
२ क
वैशम्पाय़न उवाच:
प्रसमीक्ष्य महाभागा गाङ्गेय़ं वाक्यमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः |
३ क
वैशम्पाय़न उवाच:
त्वय़ि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ||
३ ख
वैशम्पाय़न उवाच:
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् |
४ क
वैशम्पाय़न उवाच:
यथा चाय़ुर्ध्रुवं सत्ये त्वय़ि धर्मस्तथा ध्रुवः ||
४ ख
वैशम्पाय़न उवाच:
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च |
५ क
वैशम्पाय़न उवाच:
विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ||
५ ख
वैशम्पाय़न उवाच:
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षय़े |
६ क
वैशम्पाय़न उवाच:
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसय़ोरिव ||
६ ख
वैशम्पाय़न उवाच:
तस्मात्सुभृशमाश्वस्य त्वय़ि धर्मभृतां वर |
७ क
वैशम्पाय़न उवाच:
कार्ये त्वां विनिय़ोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ||
७ ख
वैशम्पाय़न उवाच:
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रिय़श्च ते |
८ क
वैशम्पाय़न उवाच:
वाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ||
८ ख
वैशम्पाय़न उवाच:
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे |
९ क
वैशम्पाय़न उवाच:
रूपय़ौवनसम्पन्ने पुत्रकामे च भारत ||
९ ख
वैशम्पाय़न उवाच:
तय़ोरुत्पादय़ापत्यं सन्तानाय़ कुलस्य नः |
१० क
वैशम्पाय़न उवाच:
मन्निय़ोगान्महाभाग धर्मं कर्तुमिहार्हसि ||
१० ख
वैशम्पाय़न उवाच:
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च |
११ क
वैशम्पाय़न उवाच:
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ||
११ ख
वैशम्पाय़न उवाच:
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः |
१२ क
वैशम्पाय़न उवाच:
प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ||
१२ ख
वैशम्पाय़न उवाच:
असंशय़ं परो धर्मस्त्वय़ा मातरुदाहृतः |
१३ क
वैशम्पाय़न उवाच:
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ||
१३ ख
वैशम्पाय़न उवाच:
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे |
१४ क
वैशम्पाय़न उवाच:
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ||
१४ ख
वैशम्पाय़न उवाच:
परित्यजेय़ं त्रैलोक्यं राज्यं देवेषु वा पुनः |
१५ क
वैशम्पाय़न उवाच:
यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ||
१५ ख
वैशम्पाय़न उवाच:
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः |
१६ क
वैशम्पाय़न उवाच:
ज्योतिस्तथा त्यजेद्रूपं वाय़ुः स्पर्शगुणं त्यजेत् ||
१६ ख
वैशम्पाय़न उवाच:
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् |
१७ क
वैशम्पाय़न उवाच:
त्यजेच्छव्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ||
१७ ख
वैशम्पाय़न उवाच:
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् |
१८ क
वैशम्पाय़न उवाच:
न त्वहं सत्यमुत्स्रष्टुं व्यवसेय़ं कथञ्चन ||
१८ ख
वैशम्पाय़न उवाच:
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा |
१९ क
वैशम्पाय़न उवाच:
माता सत्यवती भीष्ममुवाच तदनन्तरम् ||
१९ ख
वैशम्पाय़न उवाच:
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम |
२० क
वैशम्पाय़न उवाच:
इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ||
२० ख
वैशम्पाय़न उवाच:
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः |
२१ क
वैशम्पाय़न उवाच:
आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ||
२१ ख
वैशम्पाय़न उवाच:
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् |
२२ क
वैशम्पाय़न उवाच:
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ||
२२ ख
वैशम्पाय़न उवाच:
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् |
२३ क
वैशम्पाय़न उवाच:
धर्मादपेतं व्रुवतीं भीष्मो भूय़ोऽव्रवीदिदम् ||
२३ ख
वैशम्पाय़न उवाच:
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः |
२४ क
वैशम्पाय़न उवाच:
सत्याच्च्युतिः क्षत्रिय़स्य न धर्मेषु प्रशस्यते ||
२४ ख
वैशम्पाय़न उवाच:
शन्तनोरपि सन्तानं यथा स्यादक्षय़ं भुवि |
२५ क
वैशम्पाय़न उवाच:
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ||
२५ ख
वैशम्पाय़न उवाच:
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः |
२६ क
वैशम्पाय़न उवाच:
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ||
२६ ख