chevron_left उद्योग पर्व अध्याय ९७
नारद उवाच:
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् |
१ क
नारद उवाच:
पातालमिति विख्यातं दैत्यदानवसेवितम् ||
१ ख
नारद उवाच:
इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः |
२ क
नारद उवाच:
प्रविशन्तो महानादं नदन्ति भय़पीडिताः ||
२ ख
नारद उवाच:
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः |
३ क
नारद उवाच:
व्यापारेण धृतात्मानं निवद्धं समवुध्यत ||
३ ख
नारद उवाच:
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः |
४ क
नारद उवाच:
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ||
४ ख
नारद उवाच:
अत्र दिव्यं हय़शिरः काले पर्वणि पर्वणि |
५ क
नारद उवाच:
उत्तिष्ठति सुवर्णाभं वार्भिरापूरय़ञ्जगत् ||
५ ख
नारद उवाच:
यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तय़ः |
६ क
नारद उवाच:
तस्मात्पातालमित्येतत्ख्याय़ते पुरमुत्तमम् ||
६ ख
नारद उवाच:
ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः |
७ क
नारद उवाच:
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ||
७ ख
नारद उवाच:
अत्र नानाविधाकारास्तिमय़ो नैकरूपिणः |
८ क
नारद उवाच:
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ||
८ ख
नारद उवाच:
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः |
९ क
नारद उवाच:
मृता दिवसतः सूत पुनर्जीवन्ति ते निशि ||
९ ख
नारद उवाच:
उदय़े नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः |
१० क
नारद उवाच:
अमृतं स्पृश्य संस्पर्शात्सञ्जीवय़ति देहिनः ||
१० ख
नारद उवाच:
अत्र तेऽधर्मनिरता वद्धाः कालेन पीडिताः |
११ क
नारद उवाच:
दैतेय़ा निवसन्ति स्म वासवेन हृतश्रिय़ः ||
११ ख
नारद उवाच:
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः |
१२ क
नारद उवाच:
भूतय़े सर्वभूतानामचरत्तप उत्तमम् ||
१२ ख
नारद उवाच:
अत्र गोव्रतिनो विप्राः स्वाध्याय़ाम्नाय़कर्शिताः |
१३ क
नारद उवाच:
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षय़ः ||
१३ ख
नारद उवाच:
यत्रतत्रशय़ो नित्यं येनकेनचिदाशितः |
१४ क
नारद उवाच:
येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ||
१४ ख
नारद उवाच:
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः |
१५ क
नारद उवाच:
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ||
१५ ख
नारद उवाच:
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः |
१६ क
नारद उवाच:
वरय़िष्याव तं गत्वा यत्नमास्थाय़ मातले ||
१६ ख
नारद उवाच:
अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिय़ा |
१७ क
नारद उवाच:
आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ||
१७ ख
नारद उवाच:
नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै |
१८ क
नारद उवाच:
पितरं मातरं वापि नास्य जानाति कश्चन ||
१८ ख
नारद उवाच:
अतः किल महानग्निरन्तकाले समुत्थितः |
१९ क
नारद उवाच:
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ||
१९ ख
कण्व उवाच:
मातलिस्त्वव्रवीच्छ्रुत्वा नारदस्याथ भाषितम् |
२० क
कण्व उवाच:
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ||
२० ख