chevron_left भीष्म पर्व अध्याय ९७
धृतराष्ट्र उवाच:
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् |
१ क
धृतराष्ट्र उवाच:
अलम्वुसः कथं युद्धे प्रत्ययुध्यत सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा |
२ क
धृतराष्ट्र उवाच:
तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संय़ुगे ||
२ ख
धृतराष्ट्र उवाच:
धनञ्जय़श्च किं चक्रे मम सैन्येषु सञ्जय़ |
३ क
धृतराष्ट्र उवाच:
भीमो वा वलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ||
३ ख
धृतराष्ट्र उवाच:
नकुलः सहदेवो वा सात्यकिर्वा महारथः |
४ क
धृतराष्ट्र उवाच:
एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय़ ||
४ ख
सञ्जय़ उवाच:
हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् |
५ क
सञ्जय़ उवाच:
यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ||
५ ख
सञ्जय़ उवाच:
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः |
६ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ||
६ ख
सञ्जय़ उवाच:
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः |
७ क
सञ्जय़ उवाच:
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ||
७ ख
सञ्जय़ उवाच:
अलम्वुसस्तु समरे अभिमन्युं महारथम् |
८ क
सञ्जय़ उवाच:
विनद्य सुमहानादं तर्जय़ित्वा मुहुर्मुहुः |
८ ख
सञ्जय़ उवाच:
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाव्रवीत् ||
८ ग
सञ्जय़ उवाच:
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः |
९ क
सञ्जय़ उवाच:
आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ||
९ ख
सञ्जय़ उवाच:
ततः समेय़तुः सङ्ख्ये त्वरितौ नरराक्षसौ |
१० क
सञ्जय़ उवाच:
रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ |
१० ख
सञ्जय़ उवाच:
माय़ावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ||
१० ग
सञ्जय़ उवाच:
ततः कार्ष्णिर्महाराज निशितैः साय़कैस्त्रिभिः |
११ क
सञ्जय़ उवाच:
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ||
११ ख
सञ्जय़ उवाच:
अलम्वुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः |
१२ क
सञ्जय़ उवाच:
हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ||
१२ ख
सञ्जय़ उवाच:
ततः शरसहस्रेण क्षिप्रकारी निशाचरः |
१३ क
सञ्जय़ उवाच:
अर्जुनस्य सुतं सङ्ख्ये पीडय़ामास भारत ||
१३ ख
सञ्जय़ उवाच:
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् |
१४ क
सञ्जय़ उवाच:
चिक्षेप निशितान्वाणान्राक्षसस्य महोरसि ||
१४ ख
सञ्जय़ उवाच:
ते तस्य विविशुस्तूर्णं काय़ं निर्भिद्य मर्मणि |
१५ क
सञ्जय़ उवाच:
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः |
१५ ख
सञ्जय़ उवाच:
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ||
१५ ग
सञ्जय़ उवाच:
स धारय़ञ्शरान्हेमपुङ्खानपि महावलः |
१६ क
सञ्जय़ उवाच:
विवभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ||
१६ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महावलः |
१७ क
सञ्जय़ उवाच:
महेन्द्रप्रतिमं कार्ष्णिं छादय़ामास पत्रिभिः ||
१७ ख
सञ्जय़ उवाच:
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः |
१८ क
सञ्जय़ उवाच:
अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ||
१८ ख
सञ्जय़ उवाच:
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः |
१९ क
सञ्जय़ उवाच:
अलम्वुसं विनिर्भिद्य प्राविशन्त धरातलम् ||
१९ ख
सञ्जय़ उवाच:
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः |
२० क
सञ्जय़ उवाच:
चक्रे विमुखमासाद्य मय़ं शक्र इवाहवे ||
२० ख
सञ्जय़ उवाच:
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा |
२१ क
सञ्जय़ उवाच:
प्रादुश्चक्रे महामाय़ां तामसीं परतापनः ||
२१ ख
सञ्जय़ उवाच:
ततस्ते तमसा सर्वे हृता ह्यासन्महीतले |
२२ क
सञ्जय़ उवाच:
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ||
२२ ख
सञ्जय़ उवाच:
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः |
२३ क
सञ्जय़ उवाच:
प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ||
२३ ख
सञ्जय़ उवाच:
ततः प्रकाशमभवज्जगत्सर्वं महीपते |
२४ क
सञ्जय़ उवाच:
तां चापि जघ्निवान्माय़ां राक्षसस्य दुरात्मनः ||
२४ ख
सञ्जय़ उवाच:
सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः |
२५ क
सञ्जय़ उवाच:
छादय़ामास समरे शरैः संनतपर्वभिः ||
२५ ख
सञ्जय़ उवाच:
वह्वीस्तथान्या माय़ाश्च प्रय़ुक्तास्तेन रक्षसा |
२६ क
सञ्जय़ उवाच:
सर्वास्त्रविदमेय़ात्मा वारय़ामास फाल्गुनिः ||
२६ ख
सञ्जय़ उवाच:
हतमाय़ं ततो रक्षो वध्यमानं च साय़कैः |
२७ क
सञ्जय़ उवाच:
रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भय़ात् ||
२७ ख
सञ्जय़ उवाच:
तस्मिन्विनिर्जिते तूर्णं कूटय़ोधिनि राक्षसे |
२८ क
सञ्जय़ उवाच:
आर्जुनिः समरे सैन्यं तावकं संममर्द ह |
२८ ख
सञ्जय़ उवाच:
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ||
२८ ग
सञ्जय़ उवाच:
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् |
२९ क
सञ्जय़ उवाच:
महता रथवंशेन सौभद्रं पर्यवारय़त् ||
२९ ख
सञ्जय़ उवाच:
कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः |
३० क
सञ्जय़ उवाच:
एकं सुवहवो युद्धे ततक्षुः साय़कैर्दृढम् ||
३० ख
सञ्जय़ उवाच:
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः |
३१ क
सञ्जय़ उवाच:
सदृशो वासुदेवस्य विक्रमेण वलेन च ||
३१ ख
सञ्जय़ उवाच:
उभय़ोः सदृशं कर्म स पितुर्मातुलस्य च |
३२ क
सञ्जय़ उवाच:
रणे वहुविधं चक्रे सर्वशस्त्रभृतां वरः ||
३२ ख
सञ्जय़ उवाच:
ततो धनञ्जय़ो राजन्विनिघ्नंस्तव सैनिकान् |
३३ क
सञ्जय़ उवाच:
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ||
३३ ख
सञ्जय़ उवाच:
तथैव समरे राजन्पिता देवव्रतस्तव |
३४ क
सञ्जय़ उवाच:
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ||
३४ ख
सञ्जय़ उवाच:
ततः सरथनागाश्वाः पुत्रास्तव विशां पते |
३५ क
सञ्जय़ उवाच:
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ||
३५ ख
सञ्जय़ उवाच:
तथैव पाण्डवा राजन्परिवार्य धनञ्जय़म् |
३६ क
सञ्जय़ उवाच:
रणाय़ महते युक्ता दंशिता भरतर्षभ ||
३६ ख
सञ्जय़ उवाच:
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् |
३७ क
सञ्जय़ उवाच:
अर्जुनं पञ्चविंशत्या साय़कानां समाचिनोत् ||
३७ ख
सञ्जय़ उवाच:
पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः |
३८ क
सञ्जय़ उवाच:
पाण्डवप्रिय़कामार्थं शार्दूल इव कुञ्जरम् ||
३८ ख
सञ्जय़ उवाच:
गौतमोऽपि त्वराय़ुक्तो माधवं नवभिः शरैः |
३९ क
सञ्जय़ उवाच:
हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ||
३९ ख
सञ्जय़ उवाच:
शैनेय़ोऽपि ततः क्रुद्धो भृशं विद्धो महारथः |
४० क
सञ्जय़ उवाच:
गौतमान्तकरं घोरं समादत्त शिलीमुखम् ||
४० ख
सञ्जय़ उवाच:
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् |
४१ क
सञ्जय़ उवाच:
द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः ||
४१ ख
सञ्जय़ उवाच:
समुत्सृज्याथ शैनेय़ो गौतमं रथिनां वरम् |
४२ क
सञ्जय़ उवाच:
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ||
४२ ख
सञ्जय़ उवाच:
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत |
४३ क
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं ताडय़ामास साय़कैः ||
४३ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ शत्रुघ्नं भारसाधनम् |
४४ क
सञ्जय़ उवाच:
द्रौणिं षष्ट्या महाराज वाह्वोरुरसि चार्पय़त् ||
४४ ख
सञ्जय़ उवाच:
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलाय़ुतः |
४५ क
सञ्जय़ उवाच:
निषसाद रथोपस्थे ध्वजय़ष्टिमुपाश्रितः ||
४५ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् |
४६ क
सञ्जय़ उवाच:
वार्ष्णेय़ं समरे क्रुद्धो नाराचेन समर्दय़त् ||
४६ ख
सञ्जय़ उवाच:
शैनेय़ं स तु निर्भिद्य प्राविशद्धरणीतलम् |
४७ क
सञ्जय़ उवाच:
वसन्तकाले वलवान्विलं सर्पशिशुर्यथा ||
४७ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम् |
४८ क
सञ्जय़ उवाच:
चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ||
४८ ख