धृतराष्ट्र उवाच:
सम्प्रमृद्य महत्सैन्यं यान्तं शैनेय़मर्जुनम् |
१ क
धृतराष्ट्र उवाच:
निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् |
२ क
धृतराष्ट्र उवाच:
शैनेय़चरितं दृष्ट्वा सदृशं सव्यसाचिनः ||
२ ख
धृतराष्ट्र उवाच:
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः |
३ क
धृतराष्ट्र उवाच:
कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महाय़शाः ||
३ ख
धृतराष्ट्र उवाच:
कथं च मम पुत्राणां जीवतां तत्र सञ्जय़ |
४ क
धृतराष्ट्र उवाच:
शैनेय़ोऽभिय़यौ युद्धे तन्ममाचक्ष्व तत्त्वतः ||
४ ख
धृतराष्ट्र उवाच:
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् |
५ क
धृतराष्ट्र उवाच:
एकस्य वहुभिर्युद्धं शत्रुभिर्वै महारथैः ||
५ ख
धृतराष्ट्र उवाच:
विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति |
६ क
धृतराष्ट्र उवाच:
यत्रावध्यन्त समरे सात्वतेन महात्मना ||
६ ख
धृतराष्ट्र उवाच:
एकस्य हि न पर्याप्तं मत्सैन्यं तस्य सञ्जय़ |
७ क
धृतराष्ट्र उवाच:
क्रुद्धस्य युय़ुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ||
७ ख
धृतराष्ट्र उवाच:
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् |
८ क
धृतराष्ट्र उवाच:
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ||
८ ख
धृतराष्ट्र उवाच:
कृतवर्मादिभिः शूरैर्यत्तैर्वहुभिराहवे |
९ क
धृतराष्ट्र उवाच:
युय़ुधानो न शकितो हन्तुं यः पुरुषर्षभः ||
९ ख
धृतराष्ट्र उवाच:
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः |
१० क
धृतराष्ट्र उवाच:
यादृशं कृतवान्युद्धं शिनेर्नप्ता महाय़शाः ||
१० ख
सञ्जय़ उवाच:
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च |
११ क
सञ्जय़ उवाच:
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ||
११ ख
सञ्जय़ उवाच:
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः |
१२ क
सञ्जय़ उवाच:
परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ||
१२ ख
सञ्जय़ उवाच:
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः |
१३ क
सञ्जय़ उवाच:
शकाः काम्वोजवाह्लीका यवनाः पारदास्तथा ||
१३ ख
सञ्जय़ उवाच:
कुणिन्दास्तङ्गणाम्वष्ठाः पैशाचाश्च समन्दराः |
१४ क
सञ्जय़ उवाच:
अभ्यद्रवन्त शैनेय़ं शलभाः पावकं यथा ||
१४ ख
सञ्जय़ उवाच:
युक्ताश्च पार्वतीय़ानां रथाः पाषाणय़ोधिनाम् |
१५ क
सञ्जय़ उवाच:
शूराः पञ्चशता राजञ्शैनेय़ं समुपाद्रवन् ||
१५ ख
सञ्जय़ उवाच:
ततो रथसहस्रेण महारथशतेन च |
१६ क
सञ्जय़ उवाच:
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ||
१६ ख
सञ्जय़ उवाच:
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः |
१७ क
सञ्जय़ उवाच:
अभ्यद्रवन्त शैनेय़मसङ्ख्येय़ाश्च पत्तय़ः ||
१७ ख
सञ्जय़ उवाच:
तांश्च सञ्चोदय़न्सर्वान्घ्नतैनमिति भारत |
१८ क
सञ्जय़ उवाच:
दुःशासनो महाराज सात्यक्तिं पर्यवारय़त् ||
१८ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम शैनेय़चरितं महत् |
१९ क
सञ्जय़ उवाच:
यदेको वहुभिः सार्धमसम्भ्रान्तमय़ुध्यत ||
१९ ख
सञ्जय़ उवाच:
अवधीच्च रथानीकं द्विरदानां च तद्वलम् |
२० क
सञ्जय़ उवाच:
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ||
२० ख
सञ्जय़ उवाच:
तत्र चक्रैर्विमथितैर्भग्नैश्च परमाय़ुधैः |
२१ क
सञ्जय़ उवाच:
अक्षैश्च वहुधा भग्नैरीषादण्डकवन्धुरैः ||
२१ ख
सञ्जय़ उवाच:
कूवरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः |
२२ क
सञ्जय़ उवाच:
वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुन्धरा ||
२२ ख
सञ्जय़ उवाच:
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष |
२३ क
सञ्जय़ उवाच:
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ||
२३ ख
सञ्जय़ उवाच:
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः |
२४ क
सञ्जय़ उवाच:
अञ्जनस्य कुले जाता वामनस्य च भारत |
२४ ख
सञ्जय़ उवाच:
सुप्रतीककुले जाता महापद्मकुले तथा ||
२४ ग
सञ्जय़ उवाच:
ऐरावणकुले चैव तथान्येषु कुलेषु च |
२५ क
सञ्जय़ उवाच:
जाता दन्तिवरा राजञ्शेरते वहवो हताः ||
२५ ख
सञ्जय़ उवाच:
वनाय़ुजान्पार्वतीय़ान्काम्वोजारट्टवाह्लिकान् |
२६ क
सञ्जय़ उवाच:
तथा हय़वरान्राजन्निजघ्ने तत्र सात्यकिः ||
२६ ख
सञ्जय़ उवाच:
नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः |
२७ क
सञ्जय़ उवाच:
निजघ्ने तत्र शैनेय़ः शतशोऽथ सहस्रशः ||
२७ ख
सञ्जय़ उवाच:
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽव्रवीत् |
२८ क
सञ्जय़ उवाच:
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||
२८ ख
सञ्जय़ उवाच:
तांश्चापि सर्वान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव |
२९ क
सञ्जय़ उवाच:
पाषाणय़ोधिनः शूरान्पार्वतीय़ानचोदय़त् ||
२९ ख
सञ्जय़ उवाच:
अश्मय़ुद्धेषु कुशला नैतज्जानाति सात्यकिः |
३० क
सञ्जय़ उवाच:
अश्मय़ुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ||
३० ख
सञ्जय़ उवाच:
तथैव कुरवः सर्वे नाश्मय़ुद्धविशारदाः |
३१ क
सञ्जय़ उवाच:
अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ||
३१ ख
सञ्जय़ उवाच:
ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः |
३२ क
सञ्जय़ उवाच:
उद्यतैर्युय़ुधानस्य स्थिता मरणकाङ्क्षिणः ||
३२ ख
सञ्जय़ उवाच:
क्षेपणीय़ैस्तथाप्यन्ये सात्वतस्य वधैषिणः |
३३ क
सञ्जय़ उवाच:
चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ||
३३ ख
सञ्जय़ उवाच:
तेषामापततामेव शिलाय़ुद्धं चिकीर्षताम् |
३४ क
सञ्जय़ उवाच:
सात्यकिः प्रतिसन्धाय़ त्रिंशतं प्राहिणोच्छरान् ||
३४ ख
सञ्जय़ उवाच:
तामश्मवृष्टिं तुमुलां पार्वतीय़ैः समीरिताम् |
३५ क
सञ्जय़ उवाच:
विभेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः ||
३५ ख
सञ्जय़ उवाच:
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः |
३६ क
सञ्जय़ उवाच:
प्राय़ः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ||
३६ ख
सञ्जय़ उवाच:
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः |
३७ क
सञ्जय़ उवाच:
निकृत्तवाहवो राजन्निपेतुर्धरणीतले ||
३७ ख
सञ्जय़ उवाच:
पाषाणय़ोधिनः शूरान्यतमानानवस्थितान् |
३८ क
सञ्जय़ उवाच:
अवधीद्वहुसाहस्रांस्तदद्भुतमिवाभवत् ||
३८ ख
सञ्जय़ उवाच:
ततः पुनर्वस्तमुखैरश्मवृष्टिं समन्ततः |
३९ क
सञ्जय़ उवाच:
अय़ोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ||
३९ ख
सञ्जय़ उवाच:
अम्वष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः |
४० क
सञ्जय़ उवाच:
नाराचैः प्रतिविव्याध प्रेक्षमाणो महावलः ||
४० ख
सञ्जय़ उवाच:
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः |
४१ क
सञ्जय़ उवाच:
शव्देन प्राद्रवन्राजन्गजाश्वरथपत्तय़ः ||
४१ ख
सञ्जय़ उवाच:
अश्मचूर्णैः समाकीर्णा मनुष्याश्च वय़ांसि च |
४२ क
सञ्जय़ उवाच:
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ||
४२ ख
सञ्जय़ उवाच:
हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः |
४३ क
सञ्जय़ उवाच:
कुञ्जराः संन्यवर्तन्त युय़ुधानरथं प्रथि ||
४३ ख
सञ्जय़ उवाच:
ततः शव्दः समभवत्तव सैन्यस्य मारिष |
४४ क
सञ्जय़ उवाच:
माधवेनार्द्यमानस्य सागरस्येव दारुणः ||
४४ ख
सञ्जय़ उवाच:
तं शव्दं तुमुलं श्रुत्वा द्रोणो यन्तारमव्रवीत् |
४५ क
सञ्जय़ उवाच:
एष सूत रणे क्रुद्धः सात्वतानां महारथः ||
४५ ख
सञ्जय़ उवाच:
दारय़न्वहुधा सैन्यं रणे चरति कालवत् |
४६ क
सञ्जय़ उवाच:
यत्रैष शव्दस्तुमुलस्तत्र सूत रथं नय़ ||
४६ ख
सञ्जय़ उवाच:
पाषाणय़ोधिभिर्नूनं युय़ुधानः समागतः |
४७ क
सञ्जय़ उवाच:
तथा हि रथिनः सर्वे ह्रिय़न्ते विद्रुतैर्हय़ैः ||
४७ ख
सञ्जय़ उवाच:
विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च |
४८ क
सञ्जय़ उवाच:
न शक्नुवन्ति यन्तारः संय़न्तुं तुमुले हय़ान् ||
४८ ख
सञ्जय़ उवाच:
इत्येवं व्रुवतो राजन्भारद्वाजस्य धीमतः |
४९ क
सञ्जय़ उवाच:
प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ||
४९ ख
सञ्जय़ उवाच:
आय़ुष्मन्द्रवते सैन्यं कौरवेय़ं समन्ततः |
५० क