chevron_left द्रोण पर्व अध्याय ९८
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष |
४९ ख
सञ्जय़ उवाच:
हर्तुमैच्छच्छिरः काय़ात्क्रोधसंरक्तलोचनः ||
४९ ग
सञ्जय़ उवाच:
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महावलः |
५० क
सञ्जय़ उवाच:
शरैर्वैतस्तिकै राजन्नित्यमासन्नय़ोधिभिः |
५० ख
सञ्जय़ उवाच:
योधय़ामास समरे धृष्टद्युम्नं महारथम् ||
५० ग
सञ्जय़ उवाच:
ते हि वैतस्तिका नाम शरा आसन्नय़ोधिनः |
५१ क
सञ्जय़ उवाच:
द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ||
५१ ख
सञ्जय़ उवाच:
स वध्यमानो वहुभिः साय़कैस्तैर्महावलः |
५२ क
सञ्जय़ उवाच:
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ||
५२ ख
सञ्जय़ उवाच:
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः |
५३ क
सञ्जय़ उवाच:
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ||
५३ ख
सञ्जय़ उवाच:
तदद्भुतं तय़ोर्युद्धं भूतसङ्घा ह्यपूजय़न् |
५४ क
सञ्जय़ उवाच:
क्षत्रिय़ाश्च महाराज ये चान्ये तत्र सैनिकाः ||
५४ ख
सञ्जय़ उवाच:
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः |
५५ क
सञ्जय़ उवाच:
वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ||
५५ ख
सञ्जय़ उवाच:
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः |
५६ क
सञ्जय़ उवाच:
शिरः प्रच्यावय़ामास फलं पक्वं तरोरिव |
५६ ख
सञ्जय़ उवाच:
ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ||
५६ ग
सञ्जय़ उवाच:
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जय़ांस्तथा |
५७ क
सञ्जय़ उवाच:
व्यद्रावय़द्रणे द्रोणस्तत्र तत्र पराक्रमी ||
५७ ख
सञ्जय़ उवाच:
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् |
५८ क
सञ्जय़ उवाच:
स्वं व्यूहं पुनरास्थाय़ स्थिरोऽभवदरिन्दमः |
५८ ख
सञ्जय़ उवाच:
न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ||
५८ ग