chevron_left शान्ति पर्व अध्याय ९८
युधिष्ठिर उवाच:
क्षत्रधर्मान्न पापीय़ान्धर्मोऽस्ति भरतर्षभ |
१ क
युधिष्ठिर उवाच:
अभिय़ाने च युद्धे च राजा हन्ति महाजनम् ||
१ ख
युधिष्ठिर उवाच:
अथ स्म कर्मणा येन लोकाञ्जय़ति पार्थिवः |
२ क
युधिष्ठिर उवाच:
विद्वञ्जिज्ञासमानाय़ प्रव्रूहि भरतर्षभ ||
२ ख
भीष्म उवाच:
निग्रहेण च पापानां साधूनां प्रग्रहेण च |
३ क
भीष्म उवाच:
यज्ञैर्दानैश्च राजानो भवन्ति शुचय़ोऽमलाः ||
३ ख
भीष्म उवाच:
उपरुन्धन्ति राजानो भूतानि विजय़ार्थिनः |
४ क
भीष्म उवाच:
त एव विजय़ं प्राप्य वर्धय़न्ति पुनः प्रजाः ||
४ ख
भीष्म उवाच:
अपविध्यन्ति पापानि दानय़ज्ञतपोवलैः |
५ क
भीष्म उवाच:
अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते ||
५ ख
भीष्म उवाच:
यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा |
६ क
भीष्म उवाच:
हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ||
६ ख
भीष्म उवाच:
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा |
७ क
भीष्म उवाच:
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः ||
७ ख
भीष्म उवाच:
यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति |
८ क
भीष्म उवाच:
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ||
८ ख
भीष्म उवाच:
स सर्वय़ज्ञैरीजानो राजाथाभय़दक्षिणैः |
९ क
भीष्म उवाच:
अनुभूय़ेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ||
९ ख
भीष्म उवाच:
व्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते |
१० क
भीष्म उवाच:
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ||
१० ख
भीष्म उवाच:
अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा |
११ क
भीष्म उवाच:
न तस्मात्त्रिदशाः श्रेय़ो भुवि पश्यन्ति किञ्चन ||
११ ख
भीष्म उवाच:
तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संय़ुगे |
१२ क
भीष्म उवाच:
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षय़ान् ||
१२ ख
भीष्म उवाच:
न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते |
१३ क
भीष्म उवाच:
स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ||
१३ ख
भीष्म उवाच:
यानि दुःखानि सहते व्रणानामभितापने |
१४ क
भीष्म उवाच:
न ततोऽस्ति तपो भूय़ इति धर्मविदो विदुः ||
१४ ख
भीष्म उवाच:
पृष्ठतो भीरवः सङ्ख्ये वर्तन्तेऽधमपूरुषाः |
१५ क
भीष्म उवाच:
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ||
१५ ख
भीष्म उवाच:
यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भय़े |
१६ क
भीष्म उवाच:
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ||
१६ ख
भीष्म उवाच:
यदि ते कृतमाज्ञाय़ नमस्कुर्युः सदैव तम् |
१७ क
भीष्म उवाच:
युक्तं न्याय़्यं च कुर्युस्ते न च तद्वर्तते तथा ||
१७ ख
भीष्म उवाच:
पुरुषाणां समानानां दृश्यते महदन्तरम् |
१८ क
भीष्म उवाच:
सङ्ग्रामेऽनीकवेलाय़ामुत्क्रुष्टेऽभिपतत्सु च ||
१८ ख
भीष्म उवाच:
पतत्यभिमुखः शूरः परान्भीरुः पलाय़ते |
१९ क
भीष्म उवाच:
आस्थाय़ास्वर्ग्यमध्वानं सहाय़ान्विषमे त्यजन् ||
१९ ख
भीष्म उवाच:
मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् |
२० क
भीष्म उवाच:
ये सहाय़ान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ||
२० ख
भीष्म उवाच:
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः |
२१ क
भीष्म उवाच:
त्यागेन यः सहाय़ानां स्वान्प्राणांस्त्रातुमिच्छति ||
२१ ख
भीष्म उवाच:
तं हन्युः काष्ठलोष्टैर्वा दहेय़ुर्वा कटाग्निना |
२२ क
भीष्म उवाच:
पशुवन्मारय़ेय़ुर्वा क्षत्रिय़ा ये स्युरीदृशाः ||
२२ ख
भीष्म उवाच:
अधर्मः क्षत्रिय़स्यैष यच्छय़्यामरणं भवेत् |
२३ क
भीष्म उवाच:
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवय़न् ||
२३ ख
भीष्म उवाच:
अविक्षतेन देहेन प्रलय़ं योऽधिगच्छति |
२४ क
भीष्म उवाच:
क्षत्रिय़ो नास्य तत्कर्म प्रशंसन्ति पुराविदः ||
२४ ख
भीष्म उवाच:
न गृहे मरणं तात क्षत्रिय़ाणां प्रशस्यते |
२५ क
भीष्म उवाच:
शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ||
२५ ख
भीष्म उवाच:
इदं दुःखमहो कष्टं पापीय़ इति निष्टनन् |
२६ क
भीष्म उवाच:
प्रतिध्वस्तमुखः पूतिरमात्यान्वहु शोचय़न् ||
२६ ख
भीष्म उवाच:
अरोगाणां स्पृहय़ते मुहुर्मृत्युमपीच्छति |
२७ क
भीष्म उवाच:
वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ||
२७ ख
भीष्म उवाच:
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः |
२८ क
भीष्म उवाच:
तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रिय़ो मृत्युमर्हति ||
२८ ख
भीष्म उवाच:
शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् |
२९ क
भीष्म उवाच:
कृत्यमानानि गात्राणि परैर्नैवाववुध्यते ||
२९ ख
भीष्म उवाच:
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् |
३० क
भीष्म उवाच:
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ||
३० ख
भीष्म उवाच:
सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः |
३१ क
भीष्म उवाच:
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शय़न् ||
३१ ख