chevron_left उद्योग पर्व अध्याय ९८
नारद उवाच:
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् |
१ क
नारद उवाच:
दैत्यानां दानवानां च माय़ाशतविचारिणाम् ||
१ ख
नारद उवाच:
अनल्पेन प्रय़त्नेन निर्मितं विश्वकर्मणा |
२ क
नारद उवाच:
मय़ेन मनसा सृष्टं पातालतलमाश्रितम् ||
२ ख
नारद उवाच:
अत्र माय़ासहस्राणि विकुर्वाणा महौजसः |
३ क
नारद उवाच:
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ||
३ ख
नारद उवाच:
नैते शक्रेण नान्येन वरुणेन यमेन वा |
४ क
नारद उवाच:
शक्यन्ते वशमानेतुं तथैव धनदेन च ||
४ ख
नारद उवाच:
असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः |
५ क
नारद उवाच:
नैरृता यातुधानाश्च व्रह्मवेदोद्भवाश्च ये ||
५ ख
नारद उवाच:
दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः |
६ क
नारद उवाच:
माय़ावीर्योपसम्पन्ना निवसन्त्यात्मरक्षिणः ||
६ ख
नारद उवाच:
निवातकवचा नाम दानवा युद्धदुर्मदाः |
७ क
नारद उवाच:
जानासि च यथा शक्रो नैताञ्शक्नोति वाधितुम् ||
७ ख
नारद उवाच:
वहुशो मातले त्वं च तव पुत्रश्च गोमुखः |
८ क
नारद उवाच:
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ||
८ ख
नारद उवाच:
पश्य वेश्मानि रौक्माणि मातले राजतानि च |
९ क
नारद उवाच:
कर्मणा विधिय़ुक्तेन युक्तान्युपगतानि च ||
९ ख
नारद उवाच:
वैडूर्यहरितानीव प्रवालरुचिराणि च |
१० क
नारद उवाच:
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च ||
१० ख
नारद उवाच:
पार्थिवानीव चाभान्ति पुनर्नगमय़ानि च |
११ क
नारद उवाच:
शैलानीव च दृश्यन्ते तारकाणीव चाप्युत ||
११ ख
नारद उवाच:
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च |
१२ क
नारद उवाच:
मणिजालविचित्राणि प्रांशूनि निविडानि च ||
१२ ख
नारद उवाच:
नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा |
१३ क
नारद उवाच:
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ||
१३ ख
नारद उवाच:
आक्रीडान्पश्य दैत्यानां तथैव शय़नान्युत |
१४ क
नारद उवाच:
रत्नवन्ति महार्हाणि भाजनान्यासनानि च ||
१४ ख
नारद उवाच:
जलदाभांस्तथा शैलांस्तोय़प्रस्रवणान्वितान् |
१५ क
नारद उवाच:
कामपुष्पफलांश्चैव पादपान्कामचारिणः ||
१५ ख
नारद उवाच:
मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् |
१६ क
नारद उवाच:
अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे ||
१६ ख
कण्व उवाच:
मातलिस्त्वव्रवीदेनं भाषमाणं तथाविधम् |
१७ क
कण्व उवाच:
देवर्षे नैव मे कार्यं विप्रिय़ं त्रिदिवौकसाम् ||
१७ ख
कण्व उवाच:
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः |
१८ क
कण्व उवाच:
अरिपक्षेण सम्वन्धं रोचय़िष्याम्यहं कथम् ||
१८ ख
कण्व उवाच:
अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् |
१९ क
कण्व उवाच:
जानामि तु तथात्मानं दित्सात्मकमलं यथा ||
१९ ख