chevron_left भीष्म पर्व अध्याय ९८
धृतराष्ट्र उवाच:
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जय़ः |
१ क
धृतराष्ट्र उवाच:
समीय़तू रणे शूरौ तन्ममाचक्ष्व सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
प्रिय़ो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः |
२ क
धृतराष्ट्र उवाच:
आचार्यश्च रणे नित्यं प्रिय़ः पार्थस्य सञ्जय़ ||
२ ख
धृतराष्ट्र उवाच:
तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ |
३ क
धृतराष्ट्र उवाच:
कथं समीय़तुर्युद्धे भारद्वाजधनञ्जय़ौ ||
३ ख
सञ्जय़ उवाच:
न द्रोणः समरे पार्थं जानीते प्रिय़मात्मनः |
४ क
सञ्जय़ उवाच:
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ||
४ ख
सञ्जय़ उवाच:
न क्षत्रिय़ा रणे राजन्वर्जय़न्ति परस्परम् |
५ क
सञ्जय़ उवाच:
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ||
५ ख
सञ्जय़ उवाच:
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः |
६ क
सञ्जय़ उवाच:
नाचिन्तय़त तान्वाणान्पार्थचापच्युतान्युधि ||
६ ख
सञ्जय़ उवाच:
शरवृष्ट्या पुनः पार्थश्छादय़ामास तं रणे |
७ क
सञ्जय़ उवाच:
प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ||
७ ख
सञ्जय़ उवाच:
ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः |
८ क
सञ्जय़ उवाच:
वारय़ामास राजेन्द्र नचिरादिव भारत ||
८ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सुशर्माणमचोदय़त् |
९ क
सञ्जय़ उवाच:
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ||
९ ख
सञ्जय़ उवाच:
त्रिगर्तराडपि क्रुद्धो भृशमाय़म्य कार्मुकम् |
१० क
सञ्जय़ उवाच:
छादय़ामास समरे पार्थं वाणैरय़ोमुखैः ||
१० ख
सञ्जय़ उवाच:
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे |
११ क
सञ्जय़ उवाच:
हंसा इव महाराज शरत्काले नभस्तले ||
११ ख
सञ्जय़ उवाच:
ते शराः प्राप्य कौन्तेय़ं समस्ता विविशुः प्रभो |
१२ क
सञ्जय़ उवाच:
फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः ||
१२ ख
सञ्जय़ उवाच:
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः |
१३ क
सञ्जय़ उवाच:
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ||
१३ ख
सञ्जय़ उवाच:
ते वध्यमानाः पार्थेन कालेनेव युगक्षय़े |
१४ क
सञ्जय़ उवाच:
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चय़ाः |
१४ ख
सञ्जय़ उवाच:
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ||
१४ ग
सञ्जय़ उवाच:
शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः |
१५ क
सञ्जय़ उवाच:
प्रतिजग्राह राजेन्द्र तोय़वृष्टिमिवाचलः ||
१५ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम वीभत्सोर्हस्तलाघवम् |
१६ क
सञ्जय़ उवाच:
विमुक्तां वहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ||
१६ ख
सञ्जय़ उवाच:
यदेको वारय़ामास मारुतोऽभ्रगणानिव |
१७ क
सञ्जय़ उवाच:
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ||
१७ ख
सञ्जय़ उवाच:
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत |
१८ क
सञ्जय़ उवाच:
मुमोचास्त्रं महाराज वाय़व्यं पृतनामुखे ||
१८ ख
सञ्जय़ उवाच:
प्रादुरासीत्ततो वाय़ुः क्षोभय़ाणो नभस्तलम् |
१९ क
सञ्जय़ उवाच:
पातय़न्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ||
१९ ख
सञ्जय़ उवाच:
ततो द्रोणोऽभिवीक्ष्यैव वाय़व्यास्त्रं सुदारुणम् |
२० क
सञ्जय़ उवाच:
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ||
२० ख
सञ्जय़ उवाच:
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे |
२१ क
सञ्जय़ उवाच:
प्रशशाम ततो वाय़ुः प्रसन्नाश्चाभवन्दिशः ||
२१ ख
सञ्जय़ उवाच:
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् |
२२ क
सञ्जय़ उवाच:
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ||
२२ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा कृपश्च रथिनां वरः |
२३ क
सञ्जय़ उवाच:
अश्वत्थामा ततः शल्यः काम्वोजश्च सुदक्षिणः ||
२३ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ वाह्लिकश्च सवाह्लिकः |
२४ क
सञ्जय़ उवाच:
महता रथवंशेन पार्थस्यावारय़न्दिशः ||
२४ ख
सञ्जय़ उवाच:
तथैव भगदत्तश्च श्रुताय़ुश्च महावलः |
२५ क
सञ्जय़ उवाच:
गजानीकेन भीमस्य ताववारय़तां दिशः ||
२५ ख
सञ्जय़ उवाच:
भूरिश्रवाः शलश्चैव सौवलश्च विशां पते |
२६ क
सञ्जय़ उवाच:
शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारय़न् ||
२६ ख
सञ्जय़ उवाच:
भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः |
२७ क
सञ्जय़ उवाच:
युधिष्ठिरं समासाद्य सर्वतः पर्यवारय़त् ||
२७ ख
सञ्जय़ उवाच:
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः |
२८ क
सञ्जय़ उवाच:
लेलिहन्सृक्किणी वीरो मृगराडिव कानने ||
२८ ख
सञ्जय़ उवाच:
ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे |
२९ क
सञ्जय़ उवाच:
अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषय़त् ||
२९ ख
सञ्जय़ उवाच:
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः |
३० क
सञ्जय़ उवाच:
परिवव्रू रणे यत्ता भीमसेनं समन्ततः ||
३० ख
सञ्जय़ उवाच:
गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत |
३१ क
सञ्जय़ उवाच:
मेघजालस्य महतो यथा मध्यगतो रविः ||
३१ ख
सञ्जय़ उवाच:
व्यधमत्स गजानीकं गदय़ा पाण्डवर्षभः |
३२ क
सञ्जय़ उवाच:
महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ||
३२ ख
सञ्जय़ उवाच:
ते वध्यमाना वलिना भीमसेनेन दन्तिनः |
३३ क
सञ्जय़ उवाच:
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ||
३३ ख
सञ्जय़ उवाच:
वहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः |
३४ क
सञ्जय़ उवाच:
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ||
३४ ख
सञ्जय़ उवाच:
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् |
३५ क
सञ्जय़ उवाच:
विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् |
३५ ख
सञ्जय़ उवाच:
पातय़ामास समरे दण्डहस्त इवान्तकः ||
३५ ग
सञ्जय़ उवाच:
शोणिताक्तां गदां विभ्रन्मेदोमज्जाकृतच्छविः |
३६ क
सञ्जय़ उवाच:
कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ||
३६ ख
सञ्जय़ उवाच:
एवं ते वध्यमानास्तु हतशेषा महागजाः |
३७ क
सञ्जय़ उवाच:
प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं वलम् ||
३७ ख
सञ्जय़ उवाच:
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ |
३८ क
सञ्जय़ उवाच:
दुर्योधनवलं सर्वं पुनरासीत्पराङ्मुखम् ||
३८ ख