chevron_left आदि पर्व अध्याय ९९
भीष्म उवाच:
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धय़े |
१ क
भीष्म उवाच:
वक्ष्यामि निय़तं मातस्तन्मे निगदतः शृणु ||
१ ख
भीष्म उवाच:
व्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् |
२ क
भीष्म उवाच:
विचित्रवीर्यक्षेत्रेषु यः समुत्पादय़ेत्प्रजाः ||
२ ख
वैशम्पाय़न उवाच:
ततः सत्यवती भीष्मं वाचा संसज्जमानय़ा |
३ क
वैशम्पाय़न उवाच:
विहसन्तीव सव्रीडमिदं वचनमव्रवीत् ||
३ ख
वैशम्पाय़न उवाच:
सत्यमेतन्महावाहो यथा वदसि भारत |
४ क
वैशम्पाय़न उवाच:
विश्वासात्ते प्रवक्ष्यामि सन्तानाय़ कुलस्य च |
४ ख
वैशम्पाय़न उवाच:
न ते शक्यमनाख्यातुमापद्धीय़ं तथाविधा ||
४ ग
वैशम्पाय़न उवाच:
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः |
५ क
वैशम्पाय़न उवाच:
तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ||
५ ख
वैशम्पाय़न उवाच:
धर्मय़ुक्तस्य धर्मात्मन्पितुरासीत्तरी मम |
६ क
वैशम्पाय़न उवाच:
सा कदाचिदहं तत्र गता प्रथमय़ौवने ||
६ ख
वैशम्पाय़न उवाच:
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः |
७ क
वैशम्पाय़न उवाच:
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ||
७ ख
वैशम्पाय़न उवाच:
स तार्यमाणो यमुनां मामुपेत्याव्रवीत्तदा |
८ क
वैशम्पाय़न उवाच:
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वहु ||
८ ख
वैशम्पाय़न उवाच:
तमहं शापभीता च पितुर्भीता च भारत |
९ क
वैशम्पाय़न उवाच:
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ||
९ ख
वैशम्पाय़न उवाच:
अभिभूय़ स मां वालां तेजसा वशमानय़त् |
१० क
वैशम्पाय़न उवाच:
तमसा लोकमावृत्य नौगतामेव भारत ||
१० ख
वैशम्पाय़न उवाच:
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः |
११ क
वैशम्पाय़न उवाच:
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ||
११ ख
वैशम्पाय़न उवाच:
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् |
१२ क
वैशम्पाय़न उवाच:
द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ||
१२ ख
वैशम्पाय़न उवाच:
पाराशर्यो महाय़ोगी स वभूव महानृषिः |
१३ क
वैशम्पाय़न उवाच:
कन्यापुत्रो मम पुरा द्वैपाय़न इति स्मृतः ||
१३ ख
वैशम्पाय़न उवाच:
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः |
१४ क
वैशम्पाय़न उवाच:
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ||
१४ ख
वैशम्पाय़न उवाच:
सत्यवादी शमपरस्तपस्वी दग्धकिल्विषः |
१५ क
वैशम्पाय़न उवाच:
स निय़ुक्तो मय़ा व्यक्तं त्वय़ा च अमितद्युते |
१५ ख
वैशम्पाय़न उवाच:
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनय़िष्यति ||
१५ ग
वैशम्पाय़न उवाच:
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति |
१६ क
वैशम्पाय़न उवाच:
तं स्मरिष्ये महावाहो यदि भीष्म त्वमिच्छसि ||
१६ ख
वैशम्पाय़न उवाच:
तव ह्यनुमते भीष्म निय़तं स महातपाः |
१७ क
वैशम्पाय़न उवाच:
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादय़िष्यति ||
१७ ख
वैशम्पाय़न उवाच:
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरव्रवीत् |
१८ क
वैशम्पाय़न उवाच:
धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ||
१८ ख
वैशम्पाय़न उवाच:
अर्थमर्थानुवन्धं च धर्मं धर्मानुवन्धनम् |
१९ क
वैशम्पाय़न उवाच:
कामं कामानुवन्धं च विपरीतान्पृथक्पृथक् |
१९ ख
वैशम्पाय़न उवाच:
यो विचिन्त्य धिय़ा सम्यग्व्यवस्यति स वुद्धिमान् ||
१९ ग
वैशम्पाय़न उवाच:
तदिदं धर्मय़ुक्तं च हितं चैव कुलस्य नः |
२० क
वैशम्पाय़न उवाच:
उक्तं भवत्या यच्छ्रेय़ः परमं रोचते मम ||
२० ख
वैशम्पाय़न उवाच:
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन |
२१ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नं काली चिन्तय़ामास वै मुनिम् ||
२१ ख
वैशम्पाय़न उवाच:
स वेदान्विव्रुवन्धीमान्मातुर्विज्ञाय़ चिन्तितम् |
२२ क
वैशम्पाय़न उवाच:
प्रादुर्वभूवाविदितः क्षणेन कुरुनन्दन ||
२२ ख
वैशम्पाय़न उवाच:
तस्मै पूजां तदा दत्त्वा सुताय़ विधिपूर्वकम् |
२३ क
वैशम्पाय़न उवाच:
परिष्वज्य च वाहुभ्यां प्रस्नवैरभिषिच्य च |
२३ ख
वैशम्पाय़न उवाच:
मुमोच वाष्पं दाशेय़ी पुत्रं दृष्ट्वा चिरस्य तम् ||
२३ ग
वैशम्पाय़न उवाच:
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च |
२४ क
वैशम्पाय़न उवाच:
मातरं पूर्वजः पुत्रो व्यासो वचनमव्रवीत् ||
२४ ख
वैशम्पाय़न उवाच:
भवत्या यदभिप्रेतं तदहं कर्तुमागतः |
२५ क
वैशम्पाय़न उवाच:
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रिय़ं तव ||
२५ ख
वैशम्पाय़न उवाच:
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षय़े |
२६ क
वैशम्पाय़न उवाच:
स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ||
२६ ख
वैशम्पाय़न उवाच:
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् |
२७ क
वैशम्पाय़न उवाच:
सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ||
२७ ख
वैशम्पाय़न उवाच:
मातापित्रोः प्रजाय़न्ते पुत्राः साधारणाः कवे |
२८ क
वैशम्पाय़न उवाच:
तेषां पिता यथा स्वामी तथा माता न संशय़ः ||
२८ ख
वैशम्पाय़न उवाच:
विधातृविहितः स त्वं यथा मे प्रथमः सुतः |
२९ क
वैशम्पाय़न उवाच:
विचित्रवीर्यो व्रह्मर्षे तथा मेऽवरजः सुतः ||
२९ ख
वैशम्पाय़न उवाच:
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः |
३० क
वैशम्पाय़न उवाच:
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ||
३० ख
वैशम्पाय़न उवाच:
अय़ं शान्तनवः सत्यं पालय़न्सत्यविक्रमः |
३१ क
वैशम्पाय़न उवाच:
वुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ||
३१ ख
वैशम्पाय़न उवाच:
स त्वं व्यपेक्षय़ा भ्रातुः सन्तानाय़ कुलस्य च |
३२ क
वैशम्पाय़न उवाच:
भीष्मस्य चास्य वचनान्निय़ोगाच्च ममानघ ||
३२ ख
वैशम्पाय़न उवाच:
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय़ च |
३३ क
वैशम्पाय़न उवाच:
आनृशंस्येन यद्व्रूय़ां तच्छ्रुत्वा कर्तुमर्हसि ||
३३ ख
वैशम्पाय़न उवाच:
यवीय़सस्तव भ्रातुर्भार्ये सुरसुतोपमे |
३४ क
वैशम्पाय़न उवाच:
रूपय़ौवनसम्पन्ने पुत्रकामे च धर्मतः ||
३४ ख
वैशम्पाय़न उवाच:
तय़ोरुत्पादय़ापत्यं समर्थो ह्यसि पुत्रक |
३५ क
वैशम्पाय़न उवाच:
अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ||
३५ ख
व्यास उवाच:
वेत्थ धर्मं सत्यवति परं चापरमेव च |
३६ क
व्यास उवाच:
यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ||
३६ ख
व्यास उवाच:
तस्मादहं त्वन्निय़ोगाद्धर्ममुद्दिश्य कारणम् |
३७ क
व्यास उवाच:
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ||
३७ ख
व्यास उवाच:
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणय़ोः समान् |
३८ क
व्यास उवाच:
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मय़ा ||
३८ ख
व्यास उवाच:
संवत्सरं यथान्याय़ं ततः शुद्धे भविष्यतः |
३९ क
व्यास उवाच:
न हि मामव्रतोपेता उपेय़ात्काचिदङ्गना ||
३९ ख
सत्यवत्यु उवाच:
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु |
४० क
सत्यवत्यु उवाच:
अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ||
४० ख
सत्यवत्यु उवाच:
कथमराजकं राष्ट्रं शक्यं धारय़ितुं प्रभो |
४१ क
सत्यवत्यु उवाच:
तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धय़िष्यति ||
४१ ख
व्यास उवाच:
यदि पुत्रः प्रदातव्यो मय़ा क्षिप्रमकालिकम् |
४२ क
व्यास उवाच:
विरूपतां मे सहतामेतदस्याः परं व्रतम् ||
४२ ख
व्यास उवाच:
यदि मे सहते गन्धं रूपं वेषं तथा वपुः |
४३ क
व्यास उवाच:
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ||
४३ ख
वैशम्पाय़न उवाच:
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः |
४४ क
वैशम्पाय़न उवाच:
ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् |
४४ ख
वैशम्पाय़न उवाच:
धर्म्यमर्थसमाय़ुक्तमुवाच वचनं हितम् ||
४४ ग
वैशम्पाय़न उवाच:
कौसल्ये धर्मतन्त्रं यद्व्रवीमि त्वां निवोध मे |
४५ क
वैशम्पाय़न उवाच:
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षय़ात् ||
४५ ख
वैशम्पाय़न उवाच:
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् |
४६ क
वैशम्पाय़न उवाच:
भीष्मो वुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धय़े ||
४६ ख
वैशम्पाय़न उवाच:
सा च वुद्धिस्तवाधीना पुत्रि ज्ञातं मय़ेति ह |
४७ क
वैशम्पाय़न उवाच:
नष्टं च भारतं वंशं पुनरेव समुद्धर ||
४७ ख
वैशम्पाय़न उवाच:
पुत्रं जनय़ सुश्रोणि देवराजसमप्रभम् |
४८ क