युधिष्ठिर उवाच:
के लोका युध्यमानानां शूराणामनिवर्तिनाम् |
१ क
युधिष्ठिर उवाच:
भवन्ति निधनं प्राप्य तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
अम्वरीषस्य संवादमिन्द्रस्य च युधिष्ठिर ||
२ ख
भीष्म उवाच:
अम्वरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् |
३ क
भीष्म उवाच:
ददर्श सुरलोकस्थं शक्रेण सचिवं सह ||
३ ख
भीष्म उवाच:
सर्वतेजोमय़ं दिव्यं विमानवरमास्थितम् |
४ क
भीष्म उवाच:
उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् ||
४ ख
भीष्म उवाच:
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः |
५ क
भीष्म उवाच:
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ||
५ ख
भीष्म उवाच:
सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि |
६ क
भीष्म उवाच:
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ||
६ ख
भीष्म उवाच:
व्रह्मचर्येण घोरेण आचार्यकुलसेवय़ा |
७ क
भीष्म उवाच:
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ||
७ ख
भीष्म उवाच:
अतिथीनन्नपानेन पितॄंश्च स्वधय़ा तथा |
८ क
भीष्म उवाच:
ऋषीन्स्वाध्याय़दीक्षाभिर्देवान्यज्ञैरनुत्तमैः ||
८ ख
भीष्म उवाच:
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि |
९ क
भीष्म उवाच:
उदीक्षमाणः पृतनां जय़ामि युधि वासव ||
९ ख
भीष्म उवाच:
देवराज सुदेवोऽय़ं मम सेनापतिः पुरा |
१० क
भीष्म उवाच:
आसीद्योधः प्रशान्तात्मा सोऽय़ं कस्मादतीव माम् ||
१० ख
भीष्म उवाच:
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातय़ः |
११ क
भीष्म उवाच:
तर्पिता विधिवच्छक्र सोऽय़ं कस्मादतीव माम् ||
११ ख
इन्द्र उवाच:
एतस्य विततस्तात सुदेवस्य वभूव ह |
१२ क
इन्द्र उवाच:
सङ्ग्रामय़ज्ञः सुमहान्यश्चान्यो युध्यते नरः ||
१२ ख
इन्द्र उवाच:
संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् |
१३ क
इन्द्र उवाच:
युद्धय़ज्ञाधिकारस्थो भवतीति विनिश्चय़ः ||
१३ ख
अम्वरीष उवाच:
कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा |
१४ क
अम्वरीष उवाच:
ऋत्विजश्चात्र के प्रोक्तास्तन्मे व्रूहि शतक्रतो ||
१४ ख
इन्द्र उवाच:
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा |
१५ क
इन्द्र उवाच:
हवींषि परमांसानि रुधिरं त्वाज्यमेव च ||
१५ ख
इन्द्र उवाच:
सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः |
१६ क
इन्द्र उवाच:
आज्यशेषं पिवन्त्येते हविः प्राश्नन्ति चाध्वरे ||
१६ ख
इन्द्र उवाच:
प्रासतोमरसङ्घाताः खड्गशक्तिपरश्वधाः |
१७ क
इन्द्र उवाच:
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ||
१७ ख
इन्द्र उवाच:
चापवेगाय़तस्तीक्ष्णः परकाय़ावदारणः |
१८ क
इन्द्र उवाच:
ऋजुः सुनिशितः पीतः साय़कोऽस्य स्रुवो महान् ||
१८ ख
इन्द्र उवाच:
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः |
१९ क
इन्द्र उवाच:
हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संय़ुगे ||
१९ ख
इन्द्र उवाच:
ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः |
२० क
इन्द्र उवाच:
शैक्याय़समय़ैस्तीक्ष्णैरभिघातो भवेद्वसु ||
२० ख
इन्द्र उवाच:
आवेगाद्यत्तु रुधिरं सङ्ग्रामे स्यन्दते भुवि |
२१ क
इन्द्र उवाच:
सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् ||
२१ ख
इन्द्र उवाच:
छिन्धि भिन्धीति यस्यैतच्छ्रूय़ते वाहिनीमुखे |
२२ क
इन्द्र उवाच:
सामानि सामगास्तस्य गाय़न्ति यमसादने ||
२२ ख
इन्द्र उवाच:
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् |
२३ क
इन्द्र उवाच:
कुञ्जराणां हय़ानां च वर्मिणां च समुच्चय़ः |
२३ ख
इन्द्र उवाच:
अग्निः श्येनचितो नाम तस्य यज्ञे विधीय़ते ||
२३ ग
इन्द्र उवाच:
उत्तिष्ठति कवन्धोऽत्र सहस्रे निहते तु यः |
२४ क
इन्द्र उवाच:
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ||
२४ ख
इन्द्र उवाच:
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः |
२५ क
इन्द्र उवाच:
व्याघुष्टतलनादेन वषट्कारेण पार्थिव |
२५ ख
इन्द्र उवाच:
उद्गाता तत्र सङ्ग्रामे त्रिसामा दुन्दुभिः स्मृतः ||
२५ ग
इन्द्र उवाच:
व्रह्मस्वे ह्रिय़माणे यः प्रिय़ां युद्धे तनुं त्यजेत् |
२६ क
इन्द्र उवाच:
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ||
२६ ख
इन्द्र उवाच:
भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे |
२७ क
इन्द्र उवाच:
भय़ान्न च निवर्तेत तस्य लोका यथा मम ||
२७ ख
इन्द्र उवाच:
नीलचन्द्राकृतैः खड्गैर्वाहुभिः परिघोपमैः |
२८ क
इन्द्र उवाच:
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ||
२८ ख
इन्द्र उवाच:
यस्तु नावेक्षते कञ्चित्सहाय़ं विजय़े स्थितः |
२९ क
इन्द्र उवाच:
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ||
२९ ख
इन्द्र उवाच:
यस्य तोमरसङ्घाटा भेरीमण्डूककच्छपा |
३० क
इन्द्र उवाच:
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ||
३० ख
इन्द्र उवाच:
असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला |
३१ क
इन्द्र उवाच:
अश्वनागरथैश्चैव सम्भिन्नैः कृतसङ्क्रमा ||
३१ ख
इन्द्र उवाच:
पताकाध्वजवानीरा हतवाहनवाहिनी |
३२ क
इन्द्र उवाच:
शोणितोदा सुसम्पूर्णा दुस्तरा पारगैर्नरैः ||
३२ ख
इन्द्र उवाच:
हतनागमहानक्रा परलोकवहाशिवा |
३३ क
इन्द्र उवाच:
ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा ||
३३ ख
इन्द्र उवाच:
पुरुषादानुचरिता भीरूणां कश्मलावहा |
३४ क
इन्द्र उवाच:
नदी योधमहाय़ज्ञे तदस्यावभृथं स्मृतम् ||
३४ ख
इन्द्र उवाच:
वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते |
३५ क
इन्द्र उवाच:
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ||
३५ ख
इन्द्र उवाच:
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् |
३६ क
इन्द्र उवाच:
हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः ||
३६ ख
इन्द्र उवाच:
सदश्चान्तरय़ोधाग्निराग्नीध्रश्चोत्तरां दिशम् |
३७ क
इन्द्र उवाच:
शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः ||
३७ ख
इन्द्र उवाच:
यदा तूभय़तो व्यूहो भवत्याकाशमग्रतः |
३८ क
इन्द्र उवाच:
सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रय़ोऽग्नय़ः ||
३८ ख
इन्द्र उवाच:
यस्तु योधः परावृत्तः सन्त्रस्तो हन्यते परैः |
३९ क
इन्द्र उवाच:
अप्रतिष्ठं स नरकं याति नास्त्यत्र संशय़ः ||
३९ ख
इन्द्र उवाच:
यस्य शोणितवेगेन नदी स्यात्समभिप्लुता |
४० क
इन्द्र उवाच:
केशमांसास्थिसङ्कीर्णा स गच्छेत्परमां गतिम् ||
४० ख
इन्द्र उवाच:
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति |
४१ क
इन्द्र उवाच:
स विष्णुविक्रमक्रामी वृहस्पतिसमः क्रतुः ||
४१ ख
इन्द्र उवाच:
नाय़कं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः |
४२ क
इन्द्र उवाच:
जीवग्राहं निगृह्णाति तस्य लोका यथा मम ||
४२ ख
इन्द्र उवाच:
आहवे निहतं शूरं न शोचेत कदाचन |
४३ क
इन्द्र उवाच:
अशोच्यो हि हतः शूरः स्वर्गलोके महीय़ते ||
४३ ख
इन्द्र उवाच:
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् |
४४ क
इन्द्र उवाच:
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ||
४४ ख
इन्द्र उवाच:
वराप्सरःसहस्राणि शूरमाय़ोधने हतम् |
४५ क
इन्द्र उवाच:
त्वरमाणा हि धावन्ति मम भर्ता भवेदिति ||
४५ ख
इन्द्र उवाच:
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः |
४६ क
इन्द्र उवाच:
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलाय़ते ||
४६ ख
इन्द्र उवाच:
वृद्धं वलं न हन्तव्यं नैव स्त्री न च वै द्विजः |
४७ क
इन्द्र उवाच:
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ||
४७ ख
इन्द्र उवाच:
अहं वृत्रं वलं पाकं शतमाय़ं विरोचनम् |
४८ क
इन्द्र उवाच:
दुरावार्यं च नमुचिं नैकमाय़ं च शम्वरम् ||
४८ ख
इन्द्र उवाच:
विप्रचित्तिं च दैतेय़ं दनोः पुत्रांश्च सर्वशः |
४९ क
इन्द्र उवाच:
प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् ||
४९ ख