chevron_left अनुशासन पर्व अध्याय ९९
युधिष्ठिर उवाच:
आरामाणां तडागानां यत्फलं कुरुनन्दन |
१ क
युधिष्ठिर उवाच:
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ||
१ ख
भीष्म उवाच:
सुप्रदर्शा वनवती चित्रधातुविभूषिता |
२ क
भीष्म उवाच:
उपेता सर्ववीजैश्च श्रेष्ठा भूमिरिहोच्यते ||
२ ख
भीष्म उवाच:
तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् |
३ क
भीष्म उवाच:
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ||
३ ख
भीष्म उवाच:
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः |
४ क
भीष्म उवाच:
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ||
४ ख
भीष्म उवाच:
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् |
५ क
भीष्म उवाच:
कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ||
५ ख
भीष्म उवाच:
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः |
६ क
भीष्म उवाच:
तडागं सुकृतं देशे क्षेत्रमेव महाश्रय़म् ||
६ ख
भीष्म उवाच:
चतुर्विधानां भूतानां तडागमुपलक्षय़ेत् |
७ क
भीष्म उवाच:
तडागानि च सर्वाणि दिशन्ति श्रिय़मुत्तमाम् ||
७ ख
भीष्म उवाच:
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः |
८ क
भीष्म उवाच:
स्थावराणि च भूतानि संश्रय़न्ति जलाशय़म् ||
८ ख
भीष्म उवाच:
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः |
९ क
भीष्म उवाच:
या च तत्र फलावाप्तिरृषिभिः समुदाहृता ||
९ ख
भीष्म उवाच:
वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति |
१० क
भीष्म उवाच:
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ||
१० ख
भीष्म उवाच:
शरत्काले तु सलिलं तडागे यस्य तिष्ठति |
११ क
भीष्म उवाच:
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ||
११ ख
भीष्म उवाच:
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति |
१२ क
भीष्म उवाच:
स वै वहुसुवर्णस्य यज्ञस्य लभते फलम् ||
१२ ख
भीष्म उवाच:
यस्य वै शैशिरे काले तडागे सलिलं भवेत् |
१३ क
भीष्म उवाच:
अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ||
१३ ख
भीष्म उवाच:
तडागं सुकृतं यस्य वसन्ते तु महाश्रय़म् |
१४ क
भीष्म उवाच:
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ||
१४ ख
भीष्म उवाच:
निदाघकाले पानीय़ं तडागे यस्य तिष्ठति |
१५ क
भीष्म उवाच:
वाजपेय़समं तस्य फलं वै मुनय़ो विदुः ||
१५ ख
भीष्म उवाच:
स कुलं तारय़ेत्सर्वं यस्य खाते जलाशय़े |
१६ क
भीष्म उवाच:
गावः पिवन्ति पानीय़ं साधवश्च नराः सदा ||
१६ ख
भीष्म उवाच:
तडागे यस्य गावस्तु पिवन्ति तृषिता जलम् |
१७ क
भीष्म उवाच:
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ||
१७ ख
भीष्म उवाच:
यत्पिवन्ति जलं तत्र स्नाय़न्ते विश्रमन्ति च |
१८ क
भीष्म उवाच:
तडागदस्य तत्सर्वं प्रेत्यानन्त्याय़ कल्पते ||
१८ ख
भीष्म उवाच:
दुर्लभं सलिलं तात विशेषेण परत्र वै |
१९ क
भीष्म उवाच:
पानीय़स्य प्रदानेन प्रीतिर्भवति शाश्वती ||
१९ ख
भीष्म उवाच:
तिलान्ददत पानीय़ं दीपान्ददत जाग्रत |
२० क
भीष्म उवाच:
ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ||
२० ख
भीष्म उवाच:
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते |
२१ क
भीष्म उवाच:
पानीय़ं नरशार्दूल तस्माद्दातव्यमेव हि ||
२१ ख
भीष्म उवाच:
एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् |
२२ क
भीष्म उवाच:
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे ||
२२ ख
भीष्म उवाच:
स्थावराणां च भूतानां जातय़ः षट्प्रकीर्तिताः |
२३ क
भीष्म उवाच:
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातय़ः ||
२३ ख
भीष्म उवाच:
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे |
२४ क
भीष्म उवाच:
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ||
२४ ख
भीष्म उवाच:
लभते नाम लोके च पितृभिश्च महीय़ते |
२५ क
भीष्म उवाच:
देवलोकगतस्यापि नाम तस्य न नश्यति ||
२५ ख
भीष्म उवाच:
अतीतानागते चोभे पितृवंशं च भारत |
२६ क
भीष्म उवाच:
तारय़ेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपय़ेत् ||
२६ ख
भीष्म उवाच:
तस्य पुत्रा भवन्त्येते पादपा नात्र संशय़ः |
२७ क
भीष्म उवाच:
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ||
२७ ख
भीष्म उवाच:
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् |
२८ क
भीष्म उवाच:
छाय़या चातिथींस्तात पूजय़न्ति महीरुहाः ||
२८ ख
भीष्म उवाच:
किंनरोरगरक्षांसि देवगन्धर्वमानवाः |
२९ क
भीष्म उवाच:
तथा ऋषिगणाश्चैव संश्रय़न्ति महीरुहान् ||
२९ ख
भीष्म उवाच:
पुष्पिताः फलवन्तश्च तर्पय़न्तीह मानवान् |
३० क
भीष्म उवाच:
वृक्षदं पुत्रवद्वृक्षास्तारय़न्ति परत्र च ||
३० ख
भीष्म उवाच:
तस्मात्तडागे वृक्षा वै रोप्याः श्रेय़ोर्थिना सदा |
३१ क
भीष्म उवाच:
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ||
३१ ख
भीष्म उवाच:
तडागकृद्वृक्षरोपी इष्टय़ज्ञश्च यो द्विजः |
३२ क
भीष्म उवाच:
एते स्वर्गे महीय़न्ते ये चान्ये सत्यवादिनः ||
३२ ख
भीष्म उवाच:
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपय़ेत् |
३३ क
भीष्म उवाच:
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ||
३३ ख