chevron_left वन पर्व अध्याय ९९
लोमश उवाच:
ततः स वज्री वलिभिर्दैवतैरभिरक्षितः |
१ क
लोमश उवाच:
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ||
१ ख
लोमश उवाच:
कालकेय़ैर्महाकाय़ैः समन्तादभिरक्षितम् |
२ क
लोमश उवाच:
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ||
२ ख
लोमश उवाच:
ततो युद्धं समभवद्देवानां सह दानवैः |
३ क
लोमश उवाच:
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ||
३ ख
लोमश उवाच:
उद्यतप्रतिपिष्टानां खड्गानां वीरवाहुभिः |
४ क
लोमश उवाच:
आसीत्सुतुमुलः शव्दः शरीरेष्वभिपात्यताम् ||
४ ख
लोमश उवाच:
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् |
५ क
लोमश उवाच:
तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ||
५ ख
लोमश उवाच:
ते हेमकवचा भूत्वा कालेय़ाः परिघाय़ुधाः |
६ क
लोमश उवाच:
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रय़ः ||
६ ख
लोमश उवाच:
तेषां वेगवतां वेगं सहितानां प्रधावताम् |
७ क
लोमश उवाच:
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भय़ात् ||
७ ख
लोमश उवाच:
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरन्दरः |
८ क
लोमश उवाच:
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ||
८ ख
लोमश उवाच:
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः |
९ क
लोमश उवाच:
स्वतेजो व्यदधाच्छक्रे वलमस्य विवर्धय़न् ||
९ ख
लोमश उवाच:
विष्णुनाप्याय़ितं शक्रं दृष्ट्वा देवगणास्ततः |
१० क
लोमश उवाच:
स्वं स्वं तेजः समादध्युस्तथा व्रह्मर्षय़ोऽमलाः ||
१० ख
लोमश उवाच:
स समाप्याय़ितः शक्रो विष्णुना दैवतैः सह |
११ क
लोमश उवाच:
ऋषिभिश्च महाभागैर्वलवान्समपद्यत ||
११ ख
लोमश उवाच:
ज्ञात्वा वलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् |
१२ क
लोमश उवाच:
तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम् ||
१२ ख
लोमश उवाच:
ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् |
१३ क
लोमश उवाच:
भय़े निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय़ राजन् ||
१३ ख
लोमश उवाच:
स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी |
१४ क
लोमश उवाच:
यथा महाञ्शैलवरः पुरस्ता; त्स मन्दरो विष्णुकरात्प्रमुक्तः ||
१४ ख
लोमश उवाच:
तस्मिन्हते दैत्यवरे भय़ार्तः; शक्रः पदुद्राव सरः प्रवेष्टुम् |
१५ क
लोमश उवाच:
वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भय़ान्न मेने ||
१५ ख
लोमश उवाच:
सर्वे च देवा मुदिताः प्रहृष्टा; महर्षय़श्चेन्द्रमभिष्टुवन्तः |
१६ क
लोमश उवाच:
सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् ||
१६ ख
लोमश उवाच:
ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भय़ार्ताः |
१७ क
लोमश उवाच:
प्रविश्य चैवोदधिमप्रमेय़ं; झषाकुलं रत्नसमाकुलं च ||
१७ ख
लोमश उवाच:
तदा स्म मन्त्रं सहिताः प्रचक्रु; स्त्रैलोक्यनाशार्थमभिस्मय़न्तः |
१८ क
लोमश उवाच:
तत्र स्म केचिन्मतिनिश्चय़ज्ञा; स्तांस्तानुपाय़ाननुवर्णय़न्ति ||
१८ ख
लोमश उवाच:
तेषां तु तत्र क्रमकालय़ोगा; द्घोरा मतिश्चिन्तय़तां वभूव |
१९ क
लोमश उवाच:
ये सन्ति विद्यातपसोपपन्ना; स्तेषां विनाशः प्रथमं तु कार्यः ||
१९ ख
लोमश उवाच:
लोका हि सर्वे तपसा ध्रिय़न्ते; तस्मात्त्वरध्वं तपसः क्षय़ाय़ |
२० क
लोमश उवाच:
ये सन्ति केचिद्धि वसुन्धराय़ां; तपस्विनो धर्मविदश्च तज्ज्ञाः |
२० ख
लोमश उवाच:
तेषां वधः क्रिय़तां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् ||
२० ग
लोमश उवाच:
एवं हि सर्वे गतवुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः |
२१ क
लोमश उवाच:
दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालय़ं स्म ||
२१ ख