सञ्जय़ उवाच:
मध्याह्ने तु महाराज सङ्ग्रामः समपद्यत |
१ क
सञ्जय़ उवाच:
लोकक्षय़करो रौद्रो भीष्मस्य सह सोमकैः ||
१ ख
सञ्जय़ उवाच:
गाङ्गेय़ो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् |
२ क
सञ्जय़ उवाच:
व्यधमन्निशितैर्वाणैः शतशोऽथ सहस्रशः ||
२ ख
सञ्जय़ उवाच:
संममर्द च तत्सैन्यं पिता देवव्रतस्तव |
३ क
सञ्जय़ उवाच:
धान्यानामिव लूनानां प्रकरं गोगणा इव ||
३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा |
४ क
सञ्जय़ उवाच:
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ||
४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः |
५ क
सञ्जय़ उवाच:
द्रुपदस्य च नाराचं प्रेषय़ामास भारत ||
५ ख
सञ्जय़ उवाच:
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना |
६ क
सञ्जय़ उवाच:
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ||
६ ख
सञ्जय़ उवाच:
शिखण्डी तं च विव्याध भरतानां पितामहम् |
७ क
सञ्जय़ उवाच:
स्त्रीमय़ं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ||
७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् |
८ क
सञ्जय़ उवाच:
पितामहं त्रिभिर्वाणैर्वाह्वोरुरसि चार्पय़त् ||
८ ख
सञ्जय़ उवाच:
द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः |
९ क
सञ्जय़ उवाच:
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध साय़कैः ||
९ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज भीष्मः सङ्ख्ये महात्मभिः |
१० क
सञ्जय़ उवाच:
वसन्ते पुष्पशवलो रक्ताशोक इवावभौ ||
१० ख
सञ्जय़ उवाच:
तान्प्रत्यविध्यद्गाङ्गेय़स्त्रिभिस्त्रिभिरजिह्मगैः |
११ क
सञ्जय़ उवाच:
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ||
११ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ भीष्मं विव्याध पञ्चभिः |
१२ क
सञ्जय़ उवाच:
सारथिं च त्रिभिर्वाणैः सुशितै रणमूर्धनि ||
१२ ख
सञ्जय़ उवाच:
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः |
१३ क
सञ्जय़ उवाच:
केकय़ा भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ||
१३ ख
सञ्जय़ उवाच:
अभ्यद्रवन्त गाङ्गेय़ं युधिष्ठिरहितेप्सय़ा |
१४ क
सञ्जय़ उवाच:
रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखन्रणे ||
१४ ख
सञ्जय़ उवाच:
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः |
१५ क
सञ्जय़ उवाच:
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ||
१५ ख
सञ्जय़ उवाच:
तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् |
१६ क
सञ्जय़ उवाच:
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ||
१६ ख
सञ्जय़ उवाच:
रथी रथिनमासाद्य प्राहिणोद्यमसादनम् |
१७ क
सञ्जय़ उवाच:
तथेतरान्समासाद्य नरनागाश्वसादिनः ||
१७ ख
सञ्जय़ उवाच:
अनय़न्परलोकाय़ शरैः संनतपर्वभिः |
१८ क
सञ्जय़ उवाच:
अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ||
१८ ख
सञ्जय़ उवाच:
रथाश्च रथिभिर्हीना हतसारथय़स्तथा |
१९ क
सञ्जय़ उवाच:
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ||
१९ ख
सञ्जय़ उवाच:
मर्दमाना नरान्राजन्हय़ांश्च सुवहून्रणे |
२० क
सञ्जय़ उवाच:
वाताय़माना दृश्यन्ते गन्धर्वनगरोपमाः ||
२० ख
सञ्जय़ उवाच:
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः |
२१ क
सञ्जय़ उवाच:
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ||
२१ ख
सञ्जय़ उवाच:
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि |
२२ क
सञ्जय़ उवाच:
ऋद्ध्या वैश्रवणं चाति नय़ेन च वृहस्पतिम् ||
२२ ख
सञ्जय़ उवाच:
सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते |
२३ क
सञ्जय़ उवाच:
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ||
२३ ख
सञ्जय़ उवाच:
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः |
२४ क
सञ्जय़ उवाच:
मृद्नन्तः स्वान्यनीकानि सम्पेतुः सर्वशव्दगाः ||
२४ ख
सञ्जय़ उवाच:
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष |
२५ क
सञ्जय़ उवाच:
कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ||
२५ ख
सञ्जय़ उवाच:
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश |
२६ क
सञ्जय़ उवाच:
नगमेघप्रतीकाशैर्जलदोदय़निस्वनैः ||
२६ ख
सञ्जय़ उवाच:
तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते |
२७ क
सञ्जय़ उवाच:
प्रधावन्तोऽन्वपश्याम तव तेषां च सङ्कुले ||
२७ ख
सञ्जय़ उवाच:
नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् |
२८ क
सञ्जय़ उवाच:
वाताय़मानानद्राक्षं शतशोऽथ सहस्रशः ||
२८ ख
सञ्जय़ उवाच:
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः |
२९ क
सञ्जय़ उवाच:
द्रवमाणानपश्याम द्राव्यमाणांश्च संय़ुगे ||
२९ ख
सञ्जय़ उवाच:
गजो गजं समासाद्य द्रवमाणं महारणे |
३० क
सञ्जय़ उवाच:
यय़ौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ||
३० ख
सञ्जय़ उवाच:
तथैव च रथान्राजन्संममर्द रणे गजः |
३१ क
सञ्जय़ उवाच:
रथश्चैव समासाद्य पदातिं तुरगं तथा ||
३१ ख
सञ्जय़ उवाच:
व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे |
३२ क
सञ्जय़ उवाच:
एवं ते वहुधा राजन्प्रमृद्नन्तः परस्परम् ||
३२ ख
सञ्जय़ उवाच:
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभय़े |
३३ क
सञ्जय़ उवाच:
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ||
३३ ख
सञ्जय़ उवाच:
अस्थिसञ्चय़सङ्घाटा केशशैवलशाद्वला |
३४ क
सञ्जय़ उवाच:
रथह्रदा शरावर्ता हय़मीना दुरासदा ||
३४ ख
सञ्जय़ उवाच:
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला |
३५ क
सञ्जय़ उवाच:
कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ||
३५ ख
सञ्जय़ उवाच:
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी |
३६ क
सञ्जय़ उवाच:
क्रव्यादसङ्घसङ्कीर्णा यमराष्ट्रविवर्धिनी ||
३६ ख
सञ्जय़ उवाच:
तां नदीं क्षत्रिय़ाः शूरा हय़नागरथप्लवैः |
३७ क
सञ्जय़ उवाच:
प्रतेरुर्वहवो राजन्भय़ं त्यक्त्वा महाहवे ||
३७ ख
सञ्जय़ उवाच:
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् |
३८ क
सञ्जय़ उवाच:
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ||
३८ ख
सञ्जय़ उवाच:
प्राक्रोशन्क्षत्रिय़ास्तत्र दृष्ट्वा तद्वैशसं महत् |
३९ क
सञ्जय़ उवाच:
दुर्योधनापराधेन क्षय़ं गच्छन्ति कौरवाः ||
३९ ख
सञ्जय़ उवाच:
गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः |
४० क
सञ्जय़ उवाच:
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ||
४० ख
सञ्जय़ उवाच:
एवं वहुविधा वाचः श्रूय़न्ते स्मात्र भारत |
४१ क
सञ्जय़ उवाच:
पाण्डवस्तवसंय़ुक्ताः पुत्राणां ते सुदारुणाः ||
४१ ख
सञ्जय़ उवाच:
ता निशम्य तदा वाचः सर्वय़ोधैरुदाहृताः |
४२ क
सञ्जय़ उवाच:
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ||
४२ ख
सञ्जय़ उवाच:
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत |
४३ क
सञ्जय़ उवाच:
युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च ||
४३ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह |
४४ क
सञ्जय़ उवाच:
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ||
४४ ख
सञ्जय़ उवाच:
यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः |
४५ क
सञ्जय़ उवाच:
वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ||
४५ ख
सञ्जय़ उवाच:
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः |
४६ क
सञ्जय़ उवाच:
रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ||
४६ ख
सञ्जय़ उवाच:
एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षय़ः |
४७ क
सञ्जय़ उवाच:
दैवाद्वा पुरुषव्याघ्र तव चापनय़ान्नृप ||
४७ ख