chevron_left वन पर्व अध्याय १३
वैशम्पाय़न उवाच:
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णय़श्चान्धकैः सह |
१ क
वैशम्पाय़न उवाच:
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ||
१ ख
वैशम्पाय़न उवाच:
पाञ्चालस्य च दाय़ादा धृष्टकेतुश्च चेदिपः |
२ क
वैशम्पाय़न उवाच:
केकय़ाश्च महावीर्या भ्रातरो लोकविश्रुताः ||
२ ख
वैशम्पाय़न उवाच:
वने तेऽभिय़युः पार्थान्क्रोधामर्शसमन्विताः |
३ क
वैशम्पाय़न उवाच:
गर्हय़न्तो धार्तराष्ट्रान्किं कुर्म इति चाव्रुवन् ||
३ ख
वैशम्पाय़न उवाच:
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रिय़र्षभाः |
४ क
वैशम्पाय़न उवाच:
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ||
४ ख
वासुदेव उवाच:
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |
५ क
वासुदेव उवाच:
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ||
५ ख
वासुदेव उवाच:
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् |
६ क
वासुदेव उवाच:
निकृत्योपचरन्वध्य एष धर्मः सनातनः ||
६ ख
वैशम्पाय़न उवाच:
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् |
७ क
वैशम्पाय़न उवाच:
अर्जुनः शमय़ामासा दिधक्षन्तमिव प्रजाः ||
७ ख
वैशम्पाय़न उवाच:
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः |
८ क
वैशम्पाय़न उवाच:
कीर्तय़ामास कर्माणि सत्यकीर्तेर्महात्मनः ||
८ ख
वैशम्पाय़न उवाच:
पुरुषस्याप्रमेय़स्य सत्यस्यामिततेजसः |
९ क
वैशम्पाय़न उवाच:
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ||
९ ख
अर्जुन उवाच:
दश वर्षसहस्राणि यत्रसाय़ङ्गृहो मुनिः |
१० क
अर्जुन उवाच:
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ||
१० ख
अर्जुन उवाच:
दश वर्षसहस्राणि दश वर्षशतानि च |
११ क
अर्जुन उवाच:
पुष्करेष्ववसः कृष्ण त्वमपो भक्षय़न्पुरा ||
११ ख
अर्जुन उवाच:
ऊर्ध्ववाहुर्विशालाय़ां वदर्यां मधुसूदन |
१२ क
अर्जुन उवाच:
अतिष्ठ एकपादेन वाय़ुभक्षः शतं समाः ||
१२ ख
अर्जुन उवाच:
अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः |
१३ क
अर्जुन उवाच:
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ||
१३ ख
अर्जुन उवाच:
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् |
१४ क
अर्जुन उवाच:
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् |
१४ ख
अर्जुन उवाच:
आतिष्ठस्तप एकेन पादेन निय़मे स्थितः ||
१४ ग
अर्जुन उवाच:
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव |
१५ क
अर्जुन उवाच:
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ||
१५ ख
अर्जुन उवाच:
निहत्य नरकं भौममाहृत्य मणिकुण्डले |
१६ क
अर्जुन उवाच:
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ||
१६ ख
अर्जुन उवाच:
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् |
१७ क
अर्जुन उवाच:
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ||
१७ ख
अर्जुन उवाच:
ततः सर्वेश्वरत्वं च सम्प्रदाय़ शचीपतेः |
१८ क
अर्जुन उवाच:
मानुषेषु महावाहो प्रादुर्भूतोऽसि केशव ||
१८ ख
अर्जुन उवाच:
स त्वं नाराय़णो भूत्वा हरिरासीः परन्तप |
१९ क
अर्जुन उवाच:
व्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ||
१९ ख
अर्जुन उवाच:
वाय़ुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः |
२० क
अर्जुन उवाच:
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ||
२० ख
अर्जुन उवाच:
तुराय़णादिभिर्देव क्रतुभिर्भूरिदक्षिणैः |
२१ क
अर्जुन उवाच:
अय़जो भूरितेजा वै कृष्ण चैत्ररथे वने ||
२१ ख
अर्जुन उवाच:
शतं शतसहस्राणि सुवर्णस्य जनार्दन |
२२ क
अर्जुन उवाच:
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ||
२२ ख
अर्जुन उवाच:
अदितेरपि पुत्रत्वमेत्य यादवनन्दन |
२३ क
अर्जुन उवाच:
त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ||
२३ ख
अर्जुन उवाच:
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप |
२४ क
अर्जुन उवाच:
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ||
२४ ख
अर्जुन उवाच:
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः |
२५ क
अर्जुन उवाच:
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ||
२५ ख
अर्जुन उवाच:
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ |
२६ क
अर्जुन उवाच:
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ||
२६ ख
अर्जुन उवाच:
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह |
२७ क
अर्जुन उवाच:
भीमसेनश्च शैव्यश्च शतधन्वा च निर्जितः ||
२७ ख
अर्जुन उवाच:
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा |
२८ क
अर्जुन उवाच:
अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ||
२८ ख
अर्जुन उवाच:
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् |
२९ क
अर्जुन उवाच:
हतः सौभपतिः शाल्वस्त्वय़ा सौभं च पातितम् ||
२९ ख
अर्जुन उवाच:
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि |
३० क
अर्जुन उवाच:
गोपतिस्तालकेतुश्च त्वय़ा विनिहतावुभौ ||
३० ख
अर्जुन उवाच:
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन |
३१ क
अर्जुन उवाच:
द्वारकामात्मसात्कृत्वा समुद्रं गमय़िष्यसि ||
३१ ख
अर्जुन उवाच:
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन |
३२ क
अर्जुन उवाच:
त्वय़ि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ||
३२ ख
अर्जुन उवाच:
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा |
३३ क
अर्जुन उवाच:
आगम्य ऋषय़ः सर्वेऽय़ाचन्ताभय़मच्युत ||
३३ ख
अर्जुन उवाच:
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन |
३४ क
अर्जुन उवाच:
आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ||
३४ ख
अर्जुन उवाच:
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते |
३५ क
अर्जुन उवाच:
कर्माणि यानि देव त्वं वाल एव महाद्युते ||
३५ ख
अर्जुन उवाच:
कृतवान्पुण्डरीकाक्ष वलदेवसहाय़वान् |
३६ क
अर्जुन उवाच:
वैराजभवने चापि व्रह्मणा न्यवसः सह ||
३६ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः |
३७ क
वैशम्पाय़न उवाच:
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ||
३७ ख
वैशम्पाय़न उवाच:
ममैव त्वं तवैवाहं ये मदीय़ास्तवैव ते |
३८ क
वैशम्पाय़न उवाच:
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ||
३८ ख
वैशम्पाय़न उवाच:
नरस्त्वमसि दुर्धर्ष हरिर्नाराय़णो ह्यहम् |
३९ क
वैशम्पाय़न उवाच:
लोकाल्लोकमिमं प्राप्तौ नरनाराय़णावृषी ||
३९ ख
वैशम्पाय़न उवाच:
अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत |
४० क
वैशम्पाय़न उवाच:
नावय़ोरन्तरं शक्यं वेदितुं भरतर्षभ ||
४० ख
वैशम्पाय़न उवाच:
तस्मिन्वीरसमावाय़े संरव्धेष्वथ राजसु |
४१ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ||
४१ ख
वैशम्पाय़न उवाच:
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह |
४२ क
वैशम्पाय़न उवाच:
अभिगम्याव्रवीत्कृष्णा शरण्यं शरणैषिणी ||
४२ ख
वैशम्पाय़न उवाच:
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् |
४३ क
वैशम्पाय़न उवाच:
स्रष्टारं सर्वभूतानामसितो देवलोऽव्रवीत् ||
४३ ख
वैशम्पाय़न उवाच:
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन |
४४ क
वैशम्पाय़न उवाच:
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाव्रवीत् ||
४४ ख
वैशम्पाय़न उवाच:
ऋषय़स्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम |
४५ क
वैशम्पाय़न उवाच:
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाव्रवीत् ||
४५ ख
वैशम्पाय़न उवाच:
साध्यानामपि देवानां वसूनामीश्वरेश्वरः |
४६ क
वैशम्पाय़न उवाच:
लोकभावन लोकेश यथा त्वां नारदोऽव्रवीत् ||
४६ ख
वैशम्पाय़न उवाच:
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो |
४७ क
वैशम्पाय़न उवाच:
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ||
४७ ख
वैशम्पाय़न उवाच:
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् |
४८ क
वैशम्पाय़न उवाच:
आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ||
४८ ख
वैशम्पाय़न उवाच:
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् |
४९ क
वैशम्पाय़न उवाच:
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ||
४९ ख
वैशम्पाय़न उवाच:
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः |
५० क